अक्षर आकार:

श‍ृगालगीता

shRRigAlagItA

श‍ृगालगीता

भीष्मेण युधिष्ठिरम्प्रति इतरनिपेधपूर्वकं प्रज्ञायाः सुखसाधनतायां प्रमाणतया सृगालकाश्यपसंवादानुवादः ॥ १॥ युधिष्ठिर उवाच । ० बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह । नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥ १॥ भीष्म उवाच । २ प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः । प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥ २॥ प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये । प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥ ३॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥ ४॥ वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम् । रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥ ५॥ आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत् । मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥ ६॥ तथा मुमूर्षमासीनमकूजन्तमचेतसम् । इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम् ॥ ७॥ मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः । मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥ ८॥ मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप । सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि ॥ ९॥ सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः । सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥ १०॥ अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः । [अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥] ११॥ पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै । न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ १२॥ अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे । जन्तूनुच्चावचानङ्गे दशतो न कषाम वा ॥ १३॥ अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली । उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च ॥ १४॥ वर्षाहिमातपानां च परित्राणानि कुर्वते । चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥ १५॥ अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च । उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ १६॥ ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः । सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ १७॥ दिष्ट्या त्वं न श‍ृगालो वै न कृमिर्न च मूषकः । न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥ १८॥ एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप । किं पुनर्योसि सत्वानां सर्वेषां ब्राह्मणोत्तमः ॥ १९॥ इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै । नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥ २०॥ अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् । नातः पापीयसीं योनिं पतेयमपरामिति ॥ २१॥ मध्ये वै पापयोनीनां सृगालीयामहं गतः । पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥ २२॥ जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः । नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् ॥ २३॥ मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् । राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥ २४॥ भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् । देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥ २५॥ न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति । सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ॥ २६॥ अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि । सुखदुःखे तथा चोभे तत्र का परिदेवना ॥ २७॥ परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् । मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥ २८॥ न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् । न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् ॥ २९॥ न खल्वप्यरसज्ञस्य कामः क्वचन जायते । संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥ ३०॥ न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् । ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥ ३१॥ यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप । येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते ॥ ३२॥ अप्राशनमसंस्पर्शमसन्दर्शनमेव च । पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ ३३॥ पाणिमन्तो बलवन्तो धनवन्तो न संशयः । मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥ ३४॥ वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः । ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥ ३५॥ अपरे बाहुबलिनः कृतविद्या मनस्विनः । जुगुप्सितां च कृपणां पापवृत्तिमुपासते ॥ ३६॥ उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् । स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥ ३७॥ न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति । तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥ ३८॥ दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः । सुसम्पूर्णः स्वया योन्या लब्धलाभोसि काश्यप ॥ ३९॥ यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः । अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥ ४०॥ न केनचित्प्रवादेन सत्येनैवापहारिणा । धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥ ४१॥ यदि ब्रह्मञ्श‍ृणोष्येतच्छ्रद्दधासि च मे वचः । वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि ॥ ४२॥ स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय । सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥ ४३॥ ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् । कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम् ॥ ४४॥ इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः । येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके । यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् ॥ ४५॥ नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः । सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः ॥ ४६॥ अहमासं पण्डितको हैतुको वेदनिन्दकः । आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ ४७॥ हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् । आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान् ॥ ४८॥ नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः । तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥ ४९॥ अपि जातु तथा तत्स्यादहोरात्रशतैरपि । यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥ ५०॥ सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः । ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा ॥ ५१॥ भीष्म उवाच । ५२ ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह । अहो बतामि कुशलो बुद्धिमांश्चेति विस्मितः ॥ ५२॥ समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा । ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् ॥ ५३॥ ततः सम्पूजयामास काश्यपो हरिवाहनम् । अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् ॥ ॥ ५४॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ १७८॥ Mahabharata - Shanti Parva - Chapter Footnotes ५ रथेन रथघातेन । वैश्यः कश्चिदृषिं दान्तं इति ट। पाठः ॥ ६ आत्मानं धैर्यं त्यक्त्वा ॥ ७ अकूजन्तं मूर्च्छया निःशब्दम् ॥ ९ श्रोत्रियोऽधीतदेवः । दोषात् मौढ्यात् ॥ १० यत्सन्तोषणीयं रूपं त्वं स्वस्याऽभिमन्यसेऽवमन्यसे ॥ १३ न कषाम न नाशयाम्। १२-१७८-१४ निकषन्ति कण्डूयनेन। । १६ अधिष्ठायाध्यास्य । गां पृथिवीम्। बलीवर्दादि वा। आत्मनि आत्मभोगनिमित्तम् ॥ १७ अल्पप्राणा अल्पबलाः ॥ २० अदन्ति दशन्ति ॥ २३ एके देवाद्याः । अन्ये पश्वाद्याः ॥ २५ यदि कदाचिद्भवेस्तथापि न तुष्येरिति योज्यम् ॥ २८ कामादीनां मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव शरीरपञ्चरे परिच्छिद्य निरुध्य स्थितस्य भयं नास्तीत्युत्तरेण सम्बन्धः ॥ ३१ वारुण्या मद्यस्य लट्वाख्यपक्षिमासस्य च । कर्मणि षष्ठ्यौ। त्वं न स्मरसि ब्राह्मणत्वेन तव तद्रसग्रहाभावात् ॥ ३२ येषां यान्यभुक्तपूर्वाणि ॥ ३८ असन्तुष्टः स्वया वृत्त्या मायां प्रेक्षस्व यादृशीन् । इति टड़।थ। पाठः ॥ ३९ पक्षहतानर्धाङ्गवातादिना नष्टान् । आमयाविनोरोगाक्रान्तान् ॥ ४१ प्रवादेन कलङ्केन । अपहारिणा जाविभ्रंशकरेण ॥ ४५ विहाराय यथोचितेन यज्ञादिना विहर्तुम् ॥ ४८ पण्डितकः कुत्सितः पण्डितः हेतुमदेव वक्ता न श्रुतिमत् । आक्रोष्टापरुषवाक् ॥ ४९ सर्वशङ्की स्वर्गादृष्टादिसद्भावेऽपि शङ्कावान् ॥ ५४ हरिवाहनमिन्द्रम् ॥ shAntiparva (12), adhyAya 178 (adhyAya number defers in the scanned file.) httpsH//archive.org/details/in.ernet.dli.2015.345584