अक्षर आकार:

श्रीमद्भागवतान्तर्गतम् रुद्रगीतम्

Rudragita from Shrimadbhagavatam

श्रीमद्भागवतान्तर्गतम् रुद्रगीतम्

मैत्रेय उवाच । विजिताश्वोऽधिराजासीत्पृथुपुत्रः पृथुश्रवाः । यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ ४.२४.०१॥ हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ ४.२४.०२॥ अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः । अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ४.२४.०३॥ पावकः पवमानश्च शुचिरित्यग्नयः पुरा । वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥ ४.२४.०४॥ अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत । य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ४.२४.०५॥ राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम् । मन्यमानो दीर्घसत्त्र व्याजेन विससर्ज ह ॥ ४.२४.०६॥ तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् । यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ४.२४.०७॥ हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ४.२४.०८॥ बर्हिषत्सुमहाभागो हाविर्धानिः प्रजापतिः । क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ४.२४.०९॥ यस्येदं देवयजनमनुयज्ञं वितन्वतः । प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥ ४.२४.१०॥ सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् । ०४२४०११३ परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥॥ विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः । विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ ४.२४.१२॥ प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् । तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ ४.२४.१३॥ पित्रादिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् । दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ ४.२४.१४॥ यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता । तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ ४.२४.१५॥ विदुर उवाच । प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गमः । यदुताह हरः प्रीतस्तन्नो ब्रह्मन्वदार्थवत् ॥ ४.२४.१६॥ सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ ४.२४.१७॥ आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान्भवः ॥ ४.२४.१८॥ मैत्रेय उवाच । प्रचेतसः पितुर्वाक्यं शिरसादाय साधवः । दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः ॥ ४.२४.१९॥ ससमुद्रमुप विस्तीर्णमपश्यन्सुमहत्सरः । महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ ४.२४.२०॥ नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् । हंससारसचक्राह्व कारण्डवनिकूजितम् ॥ ४.२४.२१॥ मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम् । पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ ४.२४.२२॥ तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् । विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ ४.२४.२३॥ तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् । उपगीयमानममर प्रवरं विबुधानुगैः ॥ ४.२४.२४॥ तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ ४.२४.२५॥ स तान्प्रपन्नार्तिहरो भगवान्धर्मवत्सलः । धर्मज्ञान्शीलसम्पन्नान्प्रीतः प्रीतानुवाच ह ॥ ४.२४.२६॥ श्रीरुद्र उवाच । यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ ४.२४.२७॥ यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ ४.२४.२८॥ स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ ४.२४.२९॥ अथ भागवता यूयं प्रियाः स्थ भगवान्यथा । न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ४.२४.३०॥ इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ४.२४.३१॥ मैत्रेय उवाच । इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः । बद्धाञ्जलीन्राजपुत्रान्नारायणपरो वचः ॥ ४.२४.३२॥ श्रीरुद्र उवाच । जितं त आत्मविद्वर्य स्वस्तये स्वस्तिरस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ ४.२४.३३॥ नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ४.२४.३४॥ सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ४.२४.३५॥ नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ४.२४.३६॥ स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ४.२४.३७॥ नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ४.२४.३८॥ सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे । नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ४.२४.३९॥ अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४.२४.४०॥ प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४.२४.४१॥ नमस्त आशिषामीश मनवे कारणात्मने नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४.२४.४२॥ शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४.२४.४३॥ दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४.२४.४४॥ स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४.२४.४५॥ पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४.२४.४६॥ प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् । लसत्पङ्कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ॥ ४.२४.४७॥ स्फुरत्किरीटवलय हारनूपुरमेखलम् । शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ॥ ४.२४.४८॥ सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ॥ ४.२४.४९॥ पूररेचकसंविग्न वलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ४.२४.५०॥ श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् । समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् ॥ ४.२४.५१॥ पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ४.२४.५२॥ एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ ४.२४.५३॥ भवान्भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ ४.२४.५४॥ तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ ४.२४.५५॥ यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन्वीर्य शौर्यविस्फूर्जितभ्रुवा ॥ ४.२४.५६॥ क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ४.२४.५७॥ अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ४.२४.५८॥ न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ४.२४.५९॥ यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ४.२४.६०॥ यो माययेदं पुरुरूपयासृजद्बिभर्ति भूयः क्षपयत्यविक्रियः । यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि ॥ ४.२४.६१॥ क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ ४.२४.६२॥ त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ ४.२४.६३॥ सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते हृषीकैर्मधु सारघं यः ॥ ४.२४.६४॥ स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः । भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः ॥ ४.२४.६५॥ प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ४.२४.६६॥ कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः । विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥ ४.२४.६७॥ अथ त्वमसि नो ब्रह्मन्परमात्मन्विपश्चिताम् । विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ ४.२४.६८॥ इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ ४.२४.६९॥ तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ४.२४.७०॥ योगादेशमुपासाद्य धारयन्तो मुनिव्रताः । समाहितधियः सर्व एतदभ्यसतादृताः ॥ ४.२४.७१॥ इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः । भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ४.२४.७२॥ ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः । अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ४.२४.७३॥ अथेदं नित्यदा युक्तो जपन्नवहितः पुमान् । अचिराच्छ्रेय आप्नोति वासुदेवपरायणः ॥ ४.२४.७४॥ श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ४.२४.७५॥ य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ४.२४.७६॥ विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ४.२४.७७॥ इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ४.२४.७८॥ गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्त एकाग्रधियस्तपो महत्चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ४.२४.७९॥ ॥ इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॥ ४.२४॥ Bhagavatam skandha 4, adhyAya 24