अक्षर आकार:

रासगीता

rAsagItA

रासगीता

नारद उवाच -- श्रीराधा माधवस्यापि राधायाश्चापि माधवः । करोति परमानन्दं प्रेमालिङ्गनपूर्वकम् ॥ १॥ राधासुखसुधासिन्धुः कृष्णश्चुम्बति राधिकाम् । श्यामप्रेममयी राधा सदा चुम्बति माधवम् ॥ २॥ त्रिभङ्गललितः कृष्णो मुरलीं पूरयेन्मुदा । चालयेद्रेणुरन्ध्रेषु राधिका च कराङ्गुलीः ॥ ३॥ श्रीनामाकर्षणं कृष्णं राधा गायति सुन्दरम् । शब्दब्रह्मध्वनिं राधां कृष्णो धारयति ध्रुवम् ॥ ४॥ मुरलीकलसङ्गीतं श्रुत्वा मुग्द्धा व्रजस्त्रियः । कदम्बमूलमायाता यत्रास्ति मुरलीधरः ॥ ५॥ राधाकान्तो व्रजस्त्रीभिर्वेष्टितो व्रजमोहनः । शोभते तारकामध्ये तारकानायको यथा ॥ ६॥ किशोरी सुन्दरी राधा किशोरः श्यामसुन्दरः । किशोर्यो व्रजसुन्दर्यो विहरन्ति निरन्तरम् ॥ ७॥ नित्यवृन्दावने राध्या राधाकृष्णश्च गोपिकाः । मण्डलं पूर्णरासस्य लीलया संवितथ्यते ॥ ८॥ राधया सह कृष्णेन क्रियते रासमण्डलम् । कल्पितानेकरूपेण मायया परमात्मना ॥ ९॥ माधवराधयोर्मध्ये राधामाधवयोरपि । माधवो राधया सार्द्धं राजते रासमण्डले ॥ १०॥ गोपालवल्लभा गोप्यो राधिकायाः कलात्मिकाः । क्रीडन्ति सह कृष्णेन रासमण्डलमण्डिताः ॥ ११॥ कृत्वा चानेकरूपाणि गोपीमण्डलसंश्रयः । गोविन्दो रमते तत्र तासां मध्ये द्वयोर्द्वयोः ॥ १२॥ प्रेमस्पर्शमणिं कृष्णं श्लिष्यन्तो व्रजयोषितः । भवन्ति सर्वकालाढ्या गोविन्दहृदयङ्गमाः ॥ १३॥ एकैकगोपिकापार्श्वे हरेरेकैकविग्रहः । सुवर्णगुटिकायोगे मध्ये मारकतो यथा ॥ १४॥ हेमकल्पलतागोपीबाहुभिः कण्ठमालया । तमालश्यामलः कृष्णो घूर्ण्यते रासलीलया ॥ १५॥ किङ्किणीनूपुरादीनां भूषणानां च भूषणम् । कैशोरं सफलं कुर्वन् गोपीभिः सह मोदते ॥ १६॥ राधाकृष्णेति सङ्गीतं गोप्यो गायन्ति सुस्वरम् । राधाकृष्णरीनात्तहस्तकानुपदक्रमैः ॥ १७॥ जय कृष्ण मनोहर योगधरे यदुनन्दन नन्दकिशोर हरे । जय रासरसेश्वरि पूर्णतमे वरदे वृषभानुकिशोरि यमे ॥ १८॥ जयतीह कदम्बतले मिलितः कलवेणुसमीरितगानरतः । सह राधिकया हरिरेकमहः सततं तरुणीगणमध्यगतः ॥ १९॥ वृषभानुसुता परमा प्रकृतिः पुरुषो व्रजराजसुतप्रकृतिः । मुहुर्नृत्यति गायति वादयते सह गोपिकया विपिने रमते ॥ २०॥ यमुनापुलिने वृषभानुसुता नवका-ललितादि सखीसहिता । रमते विधुना सह नृत्यवता गतिचञ्चलकुण्डलहारवता ॥ २१॥ स्फुटपद्ममुखी वृषभानुसुता नवनीतसुकोमलबाहुयुता । परिरभ्य हरिं प्रियमात्मसुखं परिचुम्बति शारदचन्द्रमुखम् ॥ २२॥ रसिको व्रजराजसुतः सुरते रसिकां वृषभानुसुतां भजते । नवपल्लवकल्पिततल्पगतां सुकुमारमनोभवभाववशाम् ॥ २३॥ वसुदेवसुतोरसि हेमलता स्फुटपीनपयोधरभारवता । शयनं कुरुते वृषभानुसुता प्रणमामि सदा वृषभानुसुताम् । नवनीरदसुन्दरनीलतनुं तडिदुज्ज्वलकुण्डलिनीं सुतनुम् ॥ २५॥ शिथिकण्ठशिखण्डलसन्मुकुटं कबरीपरिबद्धकिरीटघटाम्(?) । कमलाश्रितखञ्जननेत्रयुगं मकराकृतिकुण्डलगण्डयुगम् ॥ २६॥ परिपूर्णमृगाङ्कसुचारुमुखं मणिकुण्डलमण्डितगण्डयुगम् । कनकाङ्गदशोभितबाहुधरं मणिकङ्कणशोभितशङ्खकराम् ॥ २७॥ मणिकौस्तुभभूषितहारयुतं कुचकुम्भविराजितहारलताम् । तुलसीदलदामसुगन्धितनुं हरिचन्दनचर्चितगौरतनुम् ॥ २८॥ तनुभूषितपीतपटीजडितं रशनान्वितनीलनिचोलयुताम् । तरसाञ्जनदिग्गजराजगतिं कलनूपुरहंसविलासगतिम् ॥ २९॥ रतिनाथमनोहरवेशधरं निजनाथमनोहरवेशधराम् । मणिनिर्मितपङ्कजमध्यगतं रसरासमनोहरमध्यरताम् ॥ ३०॥ मुरलीमधुरश्रुतिरागपरं स्वरसप्तसमन्वितगानपराम् । नवनायकवेशकिशोरवयो व्रजराजसुतः सह राधिकया ॥ ३१॥ इतरेतरबद्धकरभ्रमणं कुरुते कुसुमायुधकेलिवनम् । अधिकेहितमाधवराधिकयोः वृतरासपरस्परमण्डलयोः॥ ३२॥ मणिकङ्कणशिञ्चिततालवनं हरते सनकादिमुनेर्मननम् । वृषभानुसुता व्रजराजसुतः कनकप्रतिमा मणिमारकतः ॥ ३३॥ भ्रमतीह यथाविथि यन्त्रगतः सहयोगगतो यमितान्तरितः । उभयोरुभयोराधयोर्दयिते पृथगन्तरिते वृषभानुसुते ॥ ३४॥ वृषभानुसुताभुजबद्धगलः कुशली व्रजराजसुतः सकलः । यदुनन्दनयोर्भुजबद्धगला वृषभानुसुता रुचिरा सकला ॥ ३५॥ वृषभानुसुता व्रजराजसुतः व्रजराजसुतो वृषभानुसुता । केलिकदम्बतले वनमाली नृत्यति चञ्चलचन्द्रकमौली ॥ ३६॥ राधिकया सह रासविलासी गोपवधूप्रियगोकुलवासी । क्रीडति राधिकया सह कृष्णः श्रीमुखचन्द्रसुधारसतृष्णः ॥ ३७॥ नर्तकखञ्जनलोचनलोलः कुण्डलमण्डितचारुकपोलः । कुञ्जगृहे कुसुमोत्तमतल्पे सूर्यसुताजलवायुसुकल्पे ॥ ३८॥ केशव आदिरसं प्रतिशेते राधिकया सह चन्द्रसुशीते । रासरसे सुविराजितराधा चन्दनचर्चितपङ्कजगन्धा ॥ ३९॥ माधवसङ्गमवर्धितरङ्गा पूर्णमनोरथमन्मथसङ्गा । शोभनकोमलदिव्यशरीरा कृष्णवपुःपरिमाणकिशोरा ॥ ४०॥ भावमयी वृषभानुकिशोरी काञ्चनचम्पककुङ्कुमगौरी । राधयोराधयोर्मध्यतो मध्यतो माधवो माधवो मण्डले शोभते ॥ ४१॥ राधिका राधिका माधवं चुम्बति माधवो माधवो राधिकां श्लिष्यति । राधिका राधिका माधवं गायति माधतो राधिकां वेणुना गायति ॥ ४२॥ कल्पिते मण्डले राजते राधिका माधवप्रेमसन्दोहसंराधिका । राधिकां राधिकां चान्तरेणान्तरः माधवं माधवं चान्तरेणान्तरा । माधवो माधवो राधिका राधिका राधिका राधिका माधवो माधवः ॥ ४३॥ वासावतारविस्तारं वंशीवादनसुन्दरम् । रतिकाममदाक्रान्तं राधाकृष्णं भजाम्यहम् ॥ ४४॥ भ्रमन्तं रासचक्रेण नृत्यन्तं तालशिञ्जितैः । गोपीभिः सह गायन्तं राधाकृष्णं भजाम्यहम् ॥ ४५॥ रासमण्डलमध्यस्थं प्रफुल्लवदनाम्बुजम् । अनन्यहृदयासक्तं राधाकृष्णं भजाम्यहम् ॥ ४६॥ विद्युद्गौरं घनश्यामं प्रेमालिङ्गनतत्परम् । परस्परकमर्द्धाङ्गं राधाकृष्णं भजाम्यहम् ॥ ४७॥ राधिकारूपिणं कृष्णं राधिकां कृष्णरूपिणीम् । रासयोगानुसारेण राधाकृष्णं भजाम्यहम् ॥ ४८॥ पुष्पिते माधवीकुञ्जे पुष्पतल्पोपरिस्थितम् । विपरीतरतासक्तं राधाकृष्णं भजाम्यहम् ॥ ४९॥ रासक्रिडापरिश्रान्तं मधुपानपरायणम् । ताम्बूलपूर्णवक्त्रेन्दुं राधाकृष्णं भजाम्यहम् ॥ ५०॥ रासोल्लासकलापूर्णं गोपीमण्डलमण्डितम् । श्रीमाधवं राधिकाख्यं पूर्णचन्द्रमुपास्महे ॥ ५१॥ चतुर्वर्गफलं त्यक्त्वा श्रीवृन्दावनमध्यतः । श्रीराधा-श्रीपादपद्मं प्रार्थये जन्मजन्मनि ॥ ५२॥ राधाकृष्णसुधासिन्धुरासगङ्गाङ्गसङ्गमे । अवगाह्य मनोहंसो विहरेच्च याथासुखम् ॥ ५३॥ रासगीतां पठेद्यस्तु श‍ृणुयद्वापि यो नरः । वाञ्चासिद्धिर्भवेत्तस्य भक्तिः स्यात् प्रेमलक्षणा ॥ ५४॥ लक्ष्मीस्तस्य वसेद्गेहे मुखे भाति सरस्वती । धर्मार्थकामकैवल्यं लभते सत्यमेव सः ॥ ५५॥ समाप्तेयं रासगीता ।