अक्षर आकार:

रामगीता अद्भुतरामायणान्तर्गतम्

Ramagita from Adbhutaramayana

रामगीता अद्भुतरामायणान्तर्गतम्

एकादशः सर्गः ।

हनूमते श्रीरामकृतं साङ्ख्ययोगवर्णनम् - रामःप्राह हनूमन्तमात्मानं पुरुषोत्तमः । वत्स वत्स हनूमन्स्त्वं भक्तो यत्पृष्टशनसि ॥ १॥ तत्तेऽहं सम्प्रवक्ष्यामि श‍ृणुष्वावहितो मम । अवाच्यमेतद्विज्ञानमात्मगुह्यं सनातनम् ॥ २॥ यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः । इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ॥ ३॥ न संसारं प्रपश्यन्ति पूर्वेऽपि ब्रह्मवादिनः । गुह्याद्गुह्यतमं साक्षाद्गोपनीयं प्रयत्नतः ॥ ४॥ वंशे भक्तिमतो ह्यस्य भवन्ति ब्रह्मवादिनः । आत्मा यः केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः ॥ ५॥ अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः । सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ॥ ६॥ स कालाग्निस्तदव्यक्तं सद्यो वेदयति श्रुतिः । तस्माद्विजायते विश्वमत्रैव प्रविलीयते ॥ ७॥ मायावी मायया बद्धः करोति विविधास्तनूः । न चाप्ययं संसरति न च संसारयेत्प्रभुम् ॥ ८॥ नायं पृथ्वी न सलिलं न तेजः पवनो नभः । न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव च ॥ ९॥ न रूपरसगन्धाश्च नाहङ्कर्ता ना वागपि । न पाणिपादौ नो पायुर्न चोपस्थं प्लवङ्गम ॥ १०॥ न कर्ता न च भोक्ता च न च प्रकृतिपूरूषौ । न माया नैव च प्राणश्चैतन्यं परमार्थतः ॥ ११॥ तथा प्रकाशतमसोः सम्बन्धो नोपपद्यते । तद्वदेव न सम्बन्धः प्रपञ्चपरमात्मनोः ॥ १२॥ छायातरू यथा लोके परस्परविलक्षणौ । तद्वत्प्रञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ १३॥ यद्यात्मा मलिनोऽवस्थौ विकारी स्यात्स्वभावतः । नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ १४॥ पश्यन्ति मुनयो मुक्ताः स्वात्मानं परमार्थतः । विकारहीनं निर्दुःखमानन्दात्मानमव्यययम् ॥ १५॥ अहं कर्ता सुखी दुःखी कृशः स्थूलेति या मतिः । साप्यहङ्कृतिसम्बन्धादात्मन्यारोप्यते जनैः ॥ १६॥ वदन्ति वेदविद्वान्सः साक्षिणं प्रकृतेः परम् । भोक्तारमक्षयं बुद्ध्वा सर्वत्र समवस्थितम् ॥ १७॥ तस्मादज्ञान मूलोऽयं संसारः सर्व देहिनाम् । अज्ञानादन्यथा ज्ञातं तच्च प्रकृतिसङ्गतम् ॥ १८॥ नित्योदितः स्वयञ्ज्योतिः सर्वगः पुरुषः परः । अहङ्कारीऽविवेकेन कर्ताहमिति मन्यते ॥ १९॥ पश्यन्ति ऋषयो व्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ २०॥ तेनात्र सङ्गतो ह्यात्मा कूटस्थोऽपि निरञ्जनः । आत्सानमक्षरं ब्रह्म नावबुद्‍ध्यन्ति तत्त्वतः ॥ २१॥ अनात्मन्यात्मविज्ञानं तस्माद्दुःखः तथेतरत् । रागद्वेषादयो दोषाः सर्वभ्रान्तिनिबन्धनाः ॥ २२॥ कार्ये ह्यस्य भवेदेषा पुण्यापुण्यमिति श्रुतिः । तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ २३॥ नित्य सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः । एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ २४॥ तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः । भेदोऽव्यक्तस्वभावेन सा च मायाऽऽत्मसंश्रया ॥ २५॥ यथाहि धूमसम्पर्कान्नाकाशो मलिनो भवेत् । अन्तःकरणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ २६॥ यथा स्वप्रभया भाति केवलः स्फटिकोपलः । उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ २७॥ ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः । अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुबुद्धयः ॥ २८॥ कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः । दृश्यते ह्यर्थरूपेण पुरुषं भ्रान्तदृष्टिभिः ॥ २९॥ यथा संलक्ष्यते व्यक्तः केवलः स्फटिको जनैः । रक्तिकाव्यवधानेन तद्वत्परमपूरुषः ॥ ३०॥ तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः । उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ ३१॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ३२॥ यदा सर्वाणि भूतानि स्वात्मन्येवाभि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते स्वयम् ॥ ३३॥ यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ ३४॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ ३५॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३६॥ यदा पश्यति चात्मायं केवलं परमार्थतः । मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतः ॥ ३७॥ यदा जन्मजरादुःखव्याधीनामेकभेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ ३८॥ यथा नदीनदा लोके सागरेणैकतां ययुः । तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ ३९॥ तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संस्थितिः । अज्ञानेनावृतं लोकं विज्ञानं तेन मुह्यति ॥ ४०॥ तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् । अज्ञानमिति तत्सर्वं विज्ञानमिति मे मतम् ॥ ४१॥ एतत्ते परमं साङ्ख्यं भावितं ज्ञानमुत्तमम् । सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ ४२॥ योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रजायते । योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ ४३॥ यदेव योगिनो यान्ति साङ्ख्यं तदभिगम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४४॥ अन्ये च योगिनो वत्स ऐश्वर्यासक्तचेतसः । मज्जन्ति तत्र तत्रैव सत्त्वात्मैक्यमिति श्रुतिः ॥ ४५॥ यत्तत्सर्वगतं दिव्यमैश्वर्यमचलं महत् । ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ ४६॥ एष आत्माहमव्यक्तो मायावी परमेश्वरः । कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ ४७॥ सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः । सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ ४८॥ अपाणिपादो जवनो गृहीतो हृदि संस्थितः । अचक्षुरपि पश्यामि तथाऽकर्णः श‍ृणोम्यहम् ॥ ४९॥ वेदाहं सर्वमेवेदं न मां जानाति कश्चन । प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ ५०॥ निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् । यत्र देवा विजानन्ति मोहिता मायया मम ॥ ५१॥ यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ ५२॥ येषां हि न समापन्ना माया वै विश्वरूपिणी । लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ ५३॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । प्रसादान्मम ते वत्स एतद्वेदानुशासनम् ॥ ५४॥ नापुत्रशिष्ययोगिभ्यो दातव्यं हनुमन्क्वचित् । यदुक्तमेतद्विज्ञानं साङ्ख्ययोगसमाश्रयम् ॥ ५५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे साङ्ख्ययोगो नामैकादशः सर्गः ॥ ११॥

द्वादशः सर्गः ।

उपनिषत्कथनम् - पुनः रामः प्रवचनमुवाच द्विजपुङ्गव । अव्यक्तादभवत्कालः प्रधानं पुरुषः परः ॥ १॥ तेभ्यः सर्वमिदं जातं तस्मात्सर्वमिदं जगत् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २॥ सर्वत श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ३॥ सर्वाधारं स्थिरानन्दमव्यक्तं द्वैतवर्जितम् । सर्वोपमानरहितं प्रमाणातीतगोचरम् ॥ ४॥ निर्विकल्पं निराभासं सर्वाभासं परामृतम् । अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥ ५॥ निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः । स आत्मा सर्वभूतानां स बाह्याभ्यन्तरात्परः ॥ ६॥ सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । मया ततमिदं विश्वं जगदव्यक्तरूपिणा ॥ ७॥ मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् । प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् ॥ ८॥ तयोरनादिनिर्दिष्टः कालः संयोजकः परः । त्रयमेतदनाद्यन्तमव्यक्तं समवस्थितम् ॥ ९॥ तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः । महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ॥ १०॥ या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् । पुरुषः प्रकृतिस्थोतोऽपिभुङ्क्ते यः प्राकृतान्गुणान् ॥ ११॥ अहङ्कारो विविक्तत्वात्प्रोच्यते पञ्चविंशकः । आद्यो विकारः प्रकृतिर्महनात्मेति कथ्यते ॥ १२॥ विज्ञानशक्तिर्विज्ञानादहङ्कारस्तदुत्थितः । एक एव महानात्मा सोहङ्कारोऽभिधीयते ॥ १३॥ रा जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः । तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १४॥ स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् । तेनाविवेकतस्तस्मात्संसारं पुरुषस्य तु ॥ १५॥ स चाविवेकः प्रकृतौ सङ्गात्कालेन सोऽभवत् । कालः सृजति भूतानि कालः संहरते प्रजाः ॥ १६॥ सर्वे कालस्य वशगा न कालः कस्यचिद्वशे । सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ॥ १७॥ प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषः परः । सर्वेन्द्रियेभ्यः परमं मनः प्राहुर्मनीषिणः ॥ १८॥ मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ १९॥ पुरुषाद्भगवान्प्राणस्तस्य सर्वमिदं जगत् । प्राणात्परतरं व्योम व्योमातीतोऽग्निरीश्वरः ॥ २०॥ सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । नास्ति मत्परमं भूतं मां विज्ञाय विमुच्यते ॥ २१॥ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २२॥ सोऽहं सृजामि सकलं संहरामि सदा जगत् । मायी मायामयो देवः कालेन सह सङ्गतः ॥ २३॥ मत्सन्निधावेष कालः करोति सकलं जगत् । नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥ २४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे उपनिषत्कथनं नाम द्वादशः सर्गः ॥ १२॥

त्रयोदशः सर्गः

भक्तियोगकथनम् - वक्ष्ये समाहितमनाः श‍ृणुष्व पवनात्मज । येनेदं लीयते रूपं येनेदं सम्प्रवर्तते ॥ १॥ नाहं तपोभिर्विविधैर्न दानेन नच चेज्यया । शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ २॥ अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः । मां सर्वसाक्षिणं लोके न जानन्ति प्लवङ्गम ॥ ३॥ यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः । सोऽहं धाता विधाता च लोकेऽस्मिन्विश्वतोमुखः ॥ ४॥ न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः । ब्राह्मणा मनवः शक्रा ये चान्ये प्रथितौजसः ॥ ५॥ गृणन्ति सततं वेदा मामेकं परमेश्वरम् । यजन्ति विविधैरग्नौ ब्राह्मणा वैदिकैर्मखैः ॥ ६॥ सर्वेलोका नमस्यन्ति ब्रह्मलोके पितामहम् । ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ७॥ अहं हि सर्वयज्ञानां भोक्ता चैव फलप्रदः । सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्तुतः ॥ ८॥ मां पश्यन्तीह विद्वान्सो धार्मिका वेदवादिनः । तेषां सन्निहितो नित्यं ये भक्ता मामुपासते ॥ ९॥ ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते । तेषां ददामि तत्स्थानमानन्दं परमं पदम् ॥ १०॥ अन्येऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रमुच्यन्ते कालेन मयि सङ्गताः ॥ ११॥ न मद्भक्ता विनश्यन्ते मद्भक्ता वीतकल्मषाः । आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ १२॥ यो वा निन्दति तं मूढो देवदेवं स निन्दति । यो हि तं पूजयेद्भक्त्या स पूजयति मां सदा ॥ १३॥ पत्रं पुष्पं फलं तोयं मदाराधनकारणात् । यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ १४॥ अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् । विधाय दत्तवान्वेदानशेषानास्यनिःसृतान् ॥ १५॥ अहमेव हि सर्वेषां योगिनां गुरुरव्ययः । धार्मिकानां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ १६॥ अहं वै सर्वसंसारान्मोचको योगिनामिह । संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ १७॥ अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः । मायावी मामिका शक्तिर्माया लोकविमोहिनी ॥ १८॥ ममैव च पराशक्तिर्या सा विद्येति गीयते । नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ १९॥ अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः । आधारभूतः सर्वेषां निधानममृतस्य च ॥ २०॥ एका सर्वान्तरा शक्तिः करोति विविधं जगत् । भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ २१॥ तृतीया महती शक्तिर्निहन्ति सकलं जगत् । तामसी मे समाख्याता कालात्मा रुद्रकपिणी ॥ २२॥ ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे । अपरे भक्तियोगेन कर्मयोगेन चापरे । सर्वेषामेव भक्तानामेष प्रियतरो मम ॥ २३॥ यो विज्ञानेन मां नित्यमाराधयति नान्यथा अन्ये च ये त्रयो भक्ता मदाराधनकाङ्क्षिणः ॥ २४॥ तेऽपि मां प्राप्नुवन्त्येव नावर्तते च वै पुनः । मया ततमिदं कृत्स्नं प्रधानपुरुषात्मकम् । मय्येव संस्थितं विश्वं मया सम्प्रेर्यते जगत् ॥ २५॥ नाहं प्रेरयिता कीश परमं योगमाश्रितः । प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ २६॥ पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः । करोति काले भगवान्महायोगेश्वरः स्वयम् ॥ २७॥ योगं सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः । योगेश्वरोऽसौ भगवान्महादेवो महाप्रभुः ॥ २८॥ महत्वात्सर्वसत्त्वानां वरत्वात्परमेश्वरः । प्रोच्यते भगवान्ब्रह्मा महान्ब्रह्ममयो यतः ॥ २९॥ यो मामेवं विजानाति महायोगेश्वरेश्वरम् । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ३०॥ सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः । तिष्ठामि सततं योगी यस्तद्वेद स वेदवित् ॥ ३१॥ इति गुह्यतमं ज्ञानं सर्ववेदेषु निश्चितम् । प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ३२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे भक्तियोगो नाम त्रयोदशः सर्गः ॥ १३॥

चतुर्दशः सर्गः ।

श्रीरामचन्द्रहनुमत्संवादवर्णनम् - सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता । सर्वलोकैकसंहर्ता सर्वात्माऽहं सनातनः ॥ १॥ सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् । मय्येवान्तःस्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ २॥ भवता चाद्भुतं दृष्टं यत्स्वरूपं तु मामकम् । ममैषा ह्युपमा वत्स मायया दर्शिता मया ॥ ३॥ सर्वेषामेव भावानामन्तरा समवस्थितः । प्रेरयामि जगत्सर्वं क्रियाशक्तिरियं मम ॥ ४॥ मयेदं चेष्टते विश्वं मत्स्वभावानुवर्ति च । सोऽहं काले जगत्कृत्स्नं करोमि हनुमन् किल ॥ ५॥ संहराम्येकरूपेण द्विधावस्था ममैव तु । आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः ॥ ६॥ क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ । ताभ्यां सञ्जायते सर्वं संयुक्ताभ्यां परस्परम् ॥ ७॥ महदादिक्रमेणैव मम तेजोविजृम्भितम् । यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ॥ ८॥ हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसम्भवः । तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ॥ ९॥ दत्तवानात्मजान् वेदान् कल्पादौ वतुरः किल । स मन्नियोगतो ब्रह्मा सदा मद्भावभावितः ॥ १०॥ दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् । स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ॥ ११॥ भूत्वा चतुर्मुखः सर्वं सृजत्येवात्मसम्भवः । योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ॥ १२॥ ममैव परमा मूर्तिः करोति परिपालनम् । योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ॥ १३॥ मदाज्ञयाऽसौ सततं संहारत्येव मे तनुः । हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ १४॥ पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः । भुक्तमाहारजातं यत्पचत्येतदहर्निशम् ॥ १५॥ वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः । यो हि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः ॥ १६॥ स सञ्जीवयते सर्वमीशस्यैव नियोगतः । योऽन्तस्तिष्ठति भूतानां बहिर्देवो निरञ्जनः ॥ १७॥ मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि । योऽपि सञ्जीवनो नृणां देवानाममृताकरः ॥ १८॥ सोमः स मन्नियोगेन चोदितः किल वर्तते । यः स्वभासा जगत्कृत्स्नं प्रकाशयति सर्वदा ॥ १९॥ सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः । योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ॥ २०॥ यज्ञानां फलदो देवो वर्ततेऽसौ मदाज्ञया । यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह ॥ २१॥ यमो वैवस्वतो देवो देवदेवनियोगतः । योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ॥ २२॥ सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा । यः सर्वरक्षसां नाथस्तापसानां फलप्रदाः ॥ २३॥ मन्नियोगादसौ देवो वर्तते निरृतिः सदा । वैतालगणभूतानां स्वामी भोगफलप्रदः ॥ २४॥ ईशानः सर्वभक्तानां सोऽपि तिष्ठेन्ममाज्ञया । यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ॥ २५॥ रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया । यश्च सर्वजगत्पूज्ययो वर्तते विघ्नकारकः ॥ २६॥ विनायको धर्मनेता सोऽपि मद्वचनात्किल । योऽपि वेदविदां श्रेष्ठो देवसेनापतिः प्रभुः ॥ २७॥ स्कन्दोऽसौ वर्तते नित्यं स्वयम्भूप्रतिचोदितः । ये च प्रजानां पतयो मरीच्याद्या महर्षयः ॥ २८॥ सृजन्ति विविधान् लोकान् परस्यैव नियोगतः । या च श्री सर्वभूतानां ददाति विपुलां श्रियम् ॥ २९॥ पत्नी नारायणस्यासौ वर्तते मदनुग्रहात् । वाचं ददाति विपुलां या च देवी सरस्वती ॥ ३०॥ सापीश्वरनियोगेन चोदिता सम्प्रवर्तते । याशेषपुरुषान् घोरान्नरकात्तारयत्यपि ॥ ३१॥ सावित्री संस्मृता देवी देवाज्ञानुविधायिनी । पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ३२॥ यापि ध्याता विशेषेण सापि मद्वचनानुगा । योऽनन्तो महिमानन्तः शेषोऽशेषामरः प्रभुः ॥ ३३॥ दधाति शिरसा लोकं सोऽपि देवनियोगतः । योऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः ॥ ३४॥ पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः । आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ॥ ३५॥ अन्याश्च देवताः सर्वा मच्छासनमधिष्ठिताः । गन्धर्वा उरगा यक्षाः सिद्धाः साध्याश्च चारणाः ॥ ३६॥ भूतरक्षःपिशाचाश्च स्थिताः शास्त्रे स्वयम्भुवः । कलाकाष्ठानिमेषाश्च मुहूर्ता दिवसाः क्षणाः ॥ ३७॥ ऋत्वब्दमासपक्षाश्च स्थिताः शास्त्रे प्रजापतेः । युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ॥ ३८॥ पराश्चैव परार्द्धाश्च कालभेदास्तथापरे । चतुर्विधानि भूतानि स्थावराणि चराणि च ॥ ३९॥ नियोगादेव वर्तन्ते सर्वाण्येव स्वयम्भुवः । पत्तनानि च सर्वाणि भुवनानि च शासनात् ॥ ४०॥ ब्रह्माण्डानि च वर्तन्ते देवस्य परमात्मनः । अतीतान्यप्यसङ्ख्यानि ब्रह्माण्डानि मदाज्ञया ॥ ४१॥ प्रवृत्तानि पदार्थौघैः सहितानि समं ततः । ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मजैः ॥ ४२॥ हरिष्यन्ति सहैवाज्ञां परस्य परमात्मनः । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ४३॥ भूतादिरादिप्रकृतिर्नियोगान्मम वर्तते । याऽशेषसर्वजगतां मोहिनीं सर्वदेहिनाम् ॥ ४४॥ मायापि वर्तते नित्यं सापीश्वरनियोगतः । विधूय मोहकलिलं यथा पश्यति तत्पदम् ॥ ४५॥ सापि विद्या महेशस्य नियोगाद्वशवर्तिनी । बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥ ४६॥ मयैव पूर्यते विश्वं मयैव प्रलयं व्रजेत् । अहं हि भगवानीशः स्वयञ्ज्योतिः सनातनः ॥ ४७॥ परमात्मा परम्ब्रह्म मत्तो ह्यन्यन्न विद्यते । इत्येतत्परमं ज्ञानं भवते कथितं मया ॥ ४८॥ ज्ञात्वा विमुच्यते जन्तुर्जन्म संसारबन्धनात् । मायामाश्रित्य जातोऽहं गृहे दशरथस्य हि ॥ ४९॥ रामोऽहं लक्ष्मणो ह्येष शत्रुघ्नो भारतोऽपि च । चतुर्धा सम्प्रभूतोऽहं कथितं तेऽनिलात्मज ॥ ५०॥ मायास्वरूपं च तव कथितं यत्प्लवङ्गम । कृपया तद्धृदा धार्यं न विस्मर्तव्यमेव हि ॥ ५१॥ येनायं पठ्यते नित्यं संवादो भवतो मम । जीवन्मुक्तो भवेत्सोऽपि सर्वपापैः प्रमुच्यते ॥ ५२॥ श्रावयेद्वा द्विजाञ्छुद्धान्ब्रह्मचर्यपरायणान् । यो वा विचारयेदर्थं स याति परमां गतिम् ॥ ५३॥ यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ५४॥ तस्मात्सर्वप्रयत्नेन पठितव्यो मनीषिभिः । श्रोतव्यश्चापि मन्तव्यो विशेषाद्ब्राह्मणैः सदा ॥ ५५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे भगवद्धनूमत्संवादो नाम चतुर्दशः सर्गः ॥ १४॥ Adbhutaramayana Sarga 11-14