अक्षर आकार:

पुत्रगीता

putragItA

पुत्रगीता

भीष्मेण युधिष्ठिरम्प्रति कालस्य द्रुततरपातितय सद्यः साधनस्य सम्पादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः ॥ १॥ युधिष्ठिर उवाच । ० अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे । किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ १ भीष्म उवाच । २ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥ २ द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै । बभूव पुत्रो मेधावी मेधावीनाम नामतः ॥ ३ सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् । मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः ॥ ४ पुत्र उवाच । ५ धीरः किंस्वित्तात कुर्यात्प्रजानन् क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् । पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् ॥ ५ पितोवाच। ६ वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितृणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ ६ पुत्र उवाच । ७ एवमभ्याहते लोके समन्तात्परिवारिते । अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ ७ पितोवाच। ८ कथमभ्याहतो लोकः केन वा परिवारितः । अमोघाः काः पतन्तीह किन्नु भीषयसीव माम् ॥ ८ पुत्र उवाच । ९ मृत्युनाभ्याहतो लोको जरया परिवारितः । अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे । अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च ॥ ९ पितोवाच। १० यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह । सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् ॥ १० पुत्र उवाच । ११ रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा । तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः ॥ ११ गाधोदके मत्स्य इव सुखं विन्देत कस्तदा । अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् ॥ १२ पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् । वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १३ अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् । अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥ १४ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ १५ को हि जानाति कस्याद्य मृत्युकालो भविष्यति । युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् । कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥ १६ मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः । कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥ १७ तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् । सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥ १८ सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ १९ इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् । एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ २० कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम् । क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥ २१ दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् । अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥ २२ नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् । अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥ २३ जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् । अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥ २४ अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः । वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ २५ तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि । छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ २६ हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः । जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥ २७ न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते । ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ २८ तस्मात्सत्यव्रताचारः सत्ययोगपरायणः । सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥ २९ अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ ३० सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः । समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत् ॥ ३१ शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः । वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने ॥ ३२ पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति । अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥ ३३ यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा । तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥ ३४ नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः । नास्ति रागसमन्दुःखं नास्ति त्यागसमं सुखम् ॥ ३५ आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा । आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥ ३६ नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरभः क्रियाभ्यः ॥ ३७ किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च ॥ ३८ भीष्म उवाच । ३९ पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप । तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥ ॥ ३९ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ १७४.। Mahabharata - Shanti Parva - Chapter Footnotes ४ मोक्षधर्माणामर्थेषु कुशलः ॥ ५ यथार्थयोगं फलसम्बन्धमनतिक्रम्य तात कुर्याच्छुभार्थी इति ड।थ।पाठः । तात कुर्यात्प्रजासु इति ट। पाठः ॥ ७ अमोधास्वायुर्हरणेन सफलासु रात्रिषु ॥ ११ वन्ध्यं निष्फलम् ॥ १२ यदा मृत्युरभ्येति तदा कः सुखं विन्देतेति सम्बन्धः ॥ १३ पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा । आर्तवं विना पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात्। विचिन्वन्तं शास्त्रदृष्ट्या आघ्राणेन च। उरणं मेषम् ॥ १७ एषां पुत्रादीनाम् ॥ १९ सञ्चिन्वानकं कुत्सितं सञ्चिन्वानं सङ्ग्रहीतारम् ॥ २० कार्यं कर्तुमिष्टम् । कृताकृतमर्धकृतम् ॥ ईहा तृष्णा ॥ २१ कर्मसंज्ञितं वणिगित्यादि कर्मानुरूपसंज्ञावन्तम् ॥ २४ द्वयेनान्तकजराख्येन ॥ २५ ग्रामे ख्यादिसङ्घे रतिरासक्तिरेव मृत्योर्मुखं न तु वासमात्रम् । गोष्ठमिव गोष्ठं वासस्थानाम्। अरण्यं विविक्तदेशः। गृहं त्यक्त्वैकान्ते ध्यानपरो भवेदित्यर्थः ॥ २६ यान्ति मुक्तिमिति शेषः ॥ २७ न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः । हेतुः श्राद्धादिनिमित्तं तैः जीवितमर्थांश्चापनयन्ति तैर्हिस्नस्तेनादिभिः ॥ २८ मृत्युसेनां जराव्याधिरूपां सत्ये ब्रह्मज्ञाने अमृतं कैवल्यम् ॥ २९ सत्यव्रताचारः सत्यं ब्रह्मज्ञाने तदर्थं व्रतं वेदान्तश्रवणादि तदाचारस्तदनुष्ठाता । सत्ययोगपरायणः ब्रह्मध्यानपरायणः। सत्यः प्रमाणभूत आगमो गुरुवे दवाक्यं यस्य स सत्यागमः श्रद्धावान् ॥ ३२ शान्तियज्ञ इन्द्रियनिग्रहः । ब्रह्मयज्ञो नित्यमुपनिषदर्थचिन्तनम्। वाग्यज्ञः जपः। मनोयज्ञः ध्यानं। कर्मयज्ञः स्रानशौचगुरुशुश्रूषाद्यावश्यक धर्मानुष्ठानम्। उदगायने देवयानपथनिमित्तम्। दैर्घ्यमार्षम् ॥ ३३ अन्तवद्भिरनित्यफलैः । क्षेत्रयज्ञैः शरीरनाशनैः ॥ ३६ आत्मनि परमात्मनि प्रलये स्थित इति शेषः । आत्मना सृष्टिकाले जातः ॥ ३७ एकता एकप्रकारता शीलं श्लाघनीयं वृत्तम् । दण्डनिधानं वाङ्भनः कायौर्हिसात्यागः ॥ shAntiparva (12), adhyAya 174 (adhyAya number defers in the scanned file.) httpsH//archive.org/details/in.ernet.dli.2015.345584