अक्षर आकार:

पिङ्गलागीता

pingalAgItA

पिङ्गलागीता

अध्यायः १६८ य् धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः । धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव ॥ १॥ भीष्मोवाच सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः । बहु द्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ २॥ यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् । स तमेवाभिजानाति नान्यं भरतसत्तम ॥ ३॥ यथा यथा च पर्येति लोकतन्त्रमसारवत् । तथा तथा विरागोऽत्र जायते नात्र संशयः ॥ ४॥ एवं व्यवसिते लोके बहुदोषे युधिष्ठिर । आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥ ५॥ य् नष्टे धने वा दारे वा पुत्रे पितरि वा मृते । यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह ॥ ६॥ भीष्मोवाच नष्टे धने वा दारे वा पुत्रे पितरि वा मृते । अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥ ७॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः ॥ ८॥ पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम् । विषन्नवदनं दृष्ट्वा विप्रो वचनमब्रवीत् ॥ ९॥ किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि । यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् ॥ १०॥ त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते । सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥ ११॥ सेनाजितोवाच का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन । किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ॥ १२॥ ब्राह्मणोवाच पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः । आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥ १३॥ यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा । एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥ १४॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ १५॥ एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा । तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १६॥ अदर्शनादापतितः पुनश्चादर्शनं गतः । न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि ॥ १७॥ तृष्णार्ति प्रभवं दुःखं दुःखार्ति प्रभवं सुखम् । सुखात्सञ्जायते दुःखमेवमेतत्पुनः पुनः । सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ॥ १८॥ सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् । न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ १९॥ नालं सुखाय सुहृदो नालं दुःखाय शत्रवः । न च प्रज्ञालमर्थानां न सुखानामलं धनम् ॥ २०॥ न बुद्धिर्धनलाभाय न जाद्यमसमृद्धये । लोकपर्याय वृत्तान्तं प्राज्ञो जानाति नेतरः ॥ २१॥ बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् । दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २२॥ धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च । पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥ २३॥ ये च मूढतमा लोके ये च बुद्धेः परं गताः । ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥ २४॥ अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्त्य प्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥ २५॥ ये तु बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः । तान्नैवार्था न चानर्था व्यथयन्ति कदा चन ॥ २६॥ अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् । तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च ॥ २७॥ नित्यप्रमुदिता मूढा दिवि देवगणा इव । अवलेपेन महता परिदृब्धा विचेतसः ॥ २८॥ सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् । भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ॥ २९॥ सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् । प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ ३०॥ शोकस्थान सहस्राणि हर्षस्थान शतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ३१॥ बुद्धिमन्तं कृतप्रज्ञं शुश्रूसुमनसूयकम् । दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥ ३२॥ एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः । उदयास्तमयज्ञं हि न शोकः स्प्रस्तुमर्हति ॥ ३३॥ यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा । आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् ॥ ३४॥ यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते । कामानुसारी पुरुषः कामाननु विनश्यति ॥ ३५॥ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् ॥ ३६॥ पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् । प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् ॥ ३७॥ एवमेव किलैतानि प्रियाण्येवाप्रियाणि च । जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ ३८॥ तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः । सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः । वृत्त एष हृदि प्रौधो मृत्युरेष मनोमयः ॥ ३९॥ यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः । तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति ॥ ४०॥ किं चिदेव ममत्वेन यदा भवति कल्पितम् । तदेव परितापार्थं सर्वं सम्पद्यते तदा ॥ ४१॥ न बिभेति यदा चायं यदा चास्मान्न बिभ्यति । यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ ४२॥ उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये । प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि ॥ ४३॥ यदा न कुरुते धीरः सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ४४॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ४५॥ अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव । यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् ॥ ४६॥ सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता । अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ॥ ४७॥ पिन्गला उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् । अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ॥ ४८॥ एकस्थूनं नवद्वारमपिधास्याम्यगारकम् । का हि कान्तमिहायान्तमयं कान्तेति मन्स्यते ॥ ४९॥ अकामाः कामरूपेण धूर्ता नरकरूपिणः । न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि ॥ ५०॥ अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा । सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया ॥ ५१॥ सुखं निराशः स्वपिति नैराश्यं परमं सुखम् । आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥ ५२॥ भीष्मोवाच एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः । पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ॥ ५३॥ ॥ इति पिङ्गलागीता समाप्ता ॥ Adhyaya number 168 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 174. Another possible source of pi.ngalA gItA is Bhagavata Purana 11:8:30-44 ( a part of Uddhava Gita)