अक्षर आकार:

पाण्डवगीता अथवा प्रपन्नगीता

Pandavagita or Prapannagita

पाण्डवगीता अथवा प्रपन्नगीता

प्रह्लादनारदपराशरपुण्डरीक- व्यासाम्बरीषशुकशौनकभीष्मकाव्याः । रुक्माङ्गदार्जुनवसिष्ठविभीषणाद्या एतानहं परमभागवतान् नमामि ॥ १॥ लोमहर्षण उवाच । धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥ २॥ ब्रह्मोवाच । ये मानवा विगतरागपराऽपरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हतकिल्बिष चेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ३॥ इन्द्र उवाच । नारायणो नाम नरो नराणां प्रसिद्धचौरः कथितः पृथिव्याम् । अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव यः ॥ ४॥ युधिष्ठिर उवाच । मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ५॥ भीम उवाच । जलौघमग्ना सचराऽचरा धरा विषाणकोट्याऽखिलविश्वमूर्तिना । समुद्धृता येन वराहरूपिणा स मे स्वयम्भूर्भगवान् प्रसीदरु ॥ ६॥ अर्जुन उवाच । अचिन्त्यमव्यक्तमनन्तमव्ययं विभुं प्रभुं भावितविश्वभावनम् । त्रैलोक्यविस्तारविचारकारकं हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ ७॥ नकुल उवाच । यदि गमनमधस्तात् कालपाशानुबन्धाद् यदि च कुलविहीने जायते पक्षिकीटे । कृमिशतमपि गत्वा ध्यायते चान्तरात्मा मम भवतु हृदिस्था केशवे भक्तिरेका ॥ ८॥ सहदेव उवाच । तस्य यज्ञवराहस्य विष्णोरतुलतेजसः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ ९॥ कुन्ती उवाच । स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् । तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढाऽस्तु मे ॥ १०॥ माद्री उवाच । कृष्णे रताः कृष्णमनुस्मरन्ति रात्रौ च कृष्णं पुनरुत्थिता ये । ते भिन्नदेहाः प्रविशन्ति कृष्णे हविर्यथा मन्त्रहुतं हुताशे ॥ ११॥ द्रौपदी उवाच । कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र यत्र । जातस्य मे भवतु केशव त्वत्प्रसादात् त्वय्येव भक्तिरचलाऽव्यभिचारिणी च ॥ १२॥ सुभद्रा उवाच । एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ १३॥ अभिमन्युरुवाच । गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण गोविन्द गोविन्द रथाङ्गपाणे । गोविन्द गोविन्द नमामि नित्यम् ॥ १४॥ धृष्टद्युम्न उवाच । श्रीराम नारायण वासुदेव गोविन्द वैकुण्ठ मुकुन्द कृष्ण । श्रीकेशवानन्त नृसिंह विष्णो मां त्राहि संसारभुजङ्गदष्टम् ॥ १५॥ सात्यकिरुवाच । अप्रमेय हरे विष्णो कृष्ण दामोदराऽच्युत । गोविन्दानन्त सर्वेश वासुदेव नमोऽस्तु ते ॥ १६॥ उद्धव उवाच । वासुदेवं परित्यज्य योऽन्यं देवमुपासते । तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ १७॥ धौम्य उवाच । अपां समीपे शयनासनस्थिते दिवा च रात्रौ च यथाधिगच्छता । यद्यस्ति किञ्चित् सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु ॥ १८॥ सञ्जय उवाच । आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु व्याघ्रादिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ १९॥ अक्रूर उवाच । अहं तु नारायणदासदास- दासस्य दासस्य च दासदासः । अन्यो न हीशो जगतो नराणां तस्मादहं धन्यतरोऽस्मि लोके ॥ २०॥ विराट उवाच । वासुदेवस्य ये भक्ताः शान्तास्तद्गतचेतसः । तेषां दासस्य दासोऽहं भवेयं जन्मजन्मनि ॥ २१॥ भीष्म उवाच । विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु । त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ २२॥ द्रोण उवाच । ये ये हताश्चक्रधरेण दैत्यां- स्त्रैलोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरीं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः ॥ २३॥ कृपाचार्य उवाच । मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २४॥ अश्वत्थाम उवाच । गोविन्द केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप । श्रीपद्मनाभ पुरुषोत्तम देहि दास्यं नारायणाच्युत नृसिंह नमो नमस्ते ॥ २५॥ कर्ण उवाच । नान्यं वदामि न श‍ृणोमि न चिन्तयामि नान्यं स्मरामि न भजामि न चाश्रयामि । भक्त्या त्वदीयचरणाम्बुजमादरेण श्रीश्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ २६॥ धृतराष्ट्र उवाच । नमो नमः कारणवामनाय नारायणायामितविक्रमाय । श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २७॥ गान्धारी उवाच । त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ २८॥ द्रुपद उवाच । यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ २९॥ जयद्रथ उवाच । नमः कृष्णाय देवाय ब्रह्मणेऽनन्तशक्तये । योगेश्वराय योगाय त्वामहं शरणं गतः ॥ ३०॥ विकर्ण उवाच । कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३१॥ विराट उवाच । नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ३२॥ शल्य उवाच । अतसीपुष्पसङ्काशं पीतवाससमच्युतम् । ये नमस्यन्ति गोविन्दं तेषां न विद्यते भयम् ॥ ३३॥ बलभद्र उवाच । कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव । संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ ३४॥ श्रीकृष्ण उवाच । कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ ३५॥ श्रीकृष्ण उवाच । नित्यं वदामि मनुजाः स्वयमूर्ध्वबाहु- र्यो मां मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ ३६॥ ईश्वर उवाच । सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् । गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ ३७॥ सूत उवाच । तत्रैव गङ्गा यमुना च तत्र गोदावरी सिन्धु सरस्वती च । सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदार कथाप्रसङ्गः ॥ ३८॥ यम उवाच । नरके पच्यमानं तु यमेनं परिभाषितम् । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ ३५॥ नारद उवाच । जन्मान्तरसहस्रेण तपोध्यानसमाधिना । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ४०॥ प्रह्लाद उवाच । नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वचला भक्तिरच्युताऽस्तु सदा त्वयि ॥ ४१॥ या प्रीतिरविवेकनां विषयेष्वनपायिनि । त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ ४२॥ विश्वामित्र उवाच । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ ४३॥ जमदग्निरुवाच । नित्योत्सवो भवेत्तेषां नित्यं नित्यं च मङ्गलम् । येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥ ४४॥ भरद्वाज उवाच । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः ॥ ४५॥ गौतम उवाच । गोकोटिदानं ग्रहणेषु काशी- प्रयागगङ्गायुतकल्पवासः । यज्ञायुतं मेरुसुवर्णदानं गोविन्दनामस्मरणेन तुल्यम् ॥ ४६॥ अग्निरुवाच । गोविन्देति सदा स्नानं गोविन्देति सदा जपः । गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम् ॥ ४७॥ त्र्यक्षरं परमं ब्रह्म गोविन्द त्र्यक्षरं परम् । तस्मादुच्चारितं येन ब्रह्मभूयाय कल्पते ॥ ४८॥ वेदव्यास उवाच । अच्युतः कल्पवृक्षोऽसावनन्तः कामधेनु वै । चिन्तामणिस्तु गोविन्दो हरेर्नाम विचिन्तयेत् ॥ ४९॥ इन्द्र उवाच । जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ ५०॥ पिप्पलायन उवाच । श्रीमन्नृसिंहविभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । कृष्णाय वृश्चिकजलाग्निभुजङ्गरोग- क्लेशव्ययाय हरये गुरवे नमस्ते ॥ ५१॥ आविर्होत्र उवाच । कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ५२॥ विदुर उवाच । हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ ५३॥ वसिष्ठ उवाच । कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति तस्याशु महापातककोटयः ॥ ५४॥ अरुन्धत्युवाच । कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ ५५॥ कश्यप उवाच । कृष्णानुस्मरणादेव पापसङ्घट्टपञ्जरम् । शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५६॥ दुर्योधन उवाच । जानामि धर्मं न च मे प्रवृत्ति- र्जानामि पापं न च मे निवृत्तिः । केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ५७॥ यन्त्रस्य मम दोषेण क्षम्यतां मधुसूदन । अहं यन्त्रं भवान् यन्त्री मम दोषो न दीयताम् ॥ ५८॥ भृगुरुवाच । नामैव तव गोविन्द नाम त्वत्तः शताधिकम् । ददात्त्युच्चारणान्मुक्तिः भवानष्टाङ्गयोगतः ॥ ५९॥ लोमश उवाच । नमामि नारायण पादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ६०॥ शौनक उवाच । स्मृतेः सकलकल्याणं भजनं यस्य जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ ६१॥ गर्ग उवाच । नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्यद्भुतं महत् ॥ ६२॥ दाल्भ्य उवाच । किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधाके ॥ ६३॥ वैशम्पायन उवाच । यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ६४॥ अग्निरुवाच । हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ ६५॥ परमेश्वर उवाच । सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । लब्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ ६६॥ पुलस्त्य उवाच । हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये । नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥ ६७॥ व्यास उवाच । सत्यं सत्यं पुनः सत्यं सत्यं सत्यं वदाम्यहम् । नास्ति वेदात्परं शास्त्रं न देवः केशवात्परः ॥ ६८॥ धन्वन्तरिरुवाच । अच्युतानन्त गोविन्द नामोच्चारणभेषजात् । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ६९॥ मार्कण्डेय उवाच । स्वर्गदं मोक्षदं देवं सुखदं जगतो गुरुम् । कथं मुहुर्तमपि तं वासुदेवं न चिन्तयेत् ॥ ७०॥ अगस्त्य उवाच । निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् । तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वरम् ॥ ७१॥ वामदेव उवाच । निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् । कल्पकोटिसहस्राणि लभते वाञ्च्छितं फलम् ॥ ७२॥ शुक उवाच । आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ७३॥ श्रीमहादेव उवाच । शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ ७४॥ शौनक उवाच । भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः । योऽसौ विश्वम्भरो देवः स किं भक्तानुपेक्षते ॥ ७५॥ सनत्कुमार उवाच । यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् । शङ्खचक्रगदापद्मी स मे विष्णुः प्रसीदतु ॥ ७६॥ एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयन्ति सुरश्रेष्ठमेवं नारायणं विभुम् ॥ ७७॥ इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम् । दुःस्वप्ननाशनं स्तोत्रं पाण्डवैः परिकीर्तितम् ॥ ७८॥ यः पठेत्प्रातरुत्थाय शुचिस्तद्गतमानसः । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ ७९॥ तत्फलं समवाप्नोति यः पठेदिति संस्तवम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८०॥ गङ्गा गीता च गायत्री गोविन्दो गरुडध्वजः । गकारैः पञ्चभिर्युक्तः पुनर्जन्म न विद्यते ॥ ८१॥ गीतां यः पठते नित्यं श्लोकार्धं श्लोकमेव वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८२॥ इति पाण्डवगीता अथवा प्रपन्नगीता समाप्ता । ॐ तत्सत् । Reference - Anthology compiled from Mahabharata, Bhagavata, and Vishnu Purana by an Anonymous writer. Publ.: V. Rajagopal Bhat - 1970; Publications Committee, Shri Chitrapur Math, Shirali http://www.chitrapurmath.net/bookstm