नहुषगीता
॥ अथ नहुषगीता ॥अध्याय १७७ वैशम्पायन उवाच । युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् । दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥ १॥ कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् । कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ २॥ स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् । कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥ ३॥ युधिष्ठिर उवाच । देवो वा यदि वा दैत्य उरगो वा भवान्यदि । सत्यं सर्पो वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ ४॥ किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम । किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ ५॥ सर्प उवाच । नहुषो नाम राजाऽहमासं पूर्वस्तवानघ । प्रथितः पञ्चमः सोमादायोःपुत्रो नराधिप ॥ ६॥ क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च । त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥ ७॥ तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा । सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ ८॥ ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् । इमामगस्त्येन दशामानीतः पृथिवीपते ॥ ९॥ न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव । तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ १०॥ षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव । नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥ ११॥ प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम । अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ १२॥ युधिष्ठिर उवाच । ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः । अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥ १३॥ वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् । सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ १४॥ सर्प उवाच । ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर । ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥ १५॥ युधिष्ठिर उवाच । सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा । दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥ १६॥ वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् । यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ १७॥ सर्प उवाच । चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि । शूद्रेष्वपि च सत्यं च दानमक्रोध एव च । आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ १८॥ वेद्यं यच्चाथ निर्दुःखमसुखं च नराधिप । ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ १९॥ युधिष्ठिर उवाच । शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ २०॥ यत्रैतल्लक्ष्यतेसर्प वृत्तं स ब्राह्मणः स्मृतः । यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ २१॥ यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह । ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥ २२॥ एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते । यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ २३॥ एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्व चित् । एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ २४॥ सर्प उवाच । यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः । व्यर्था जातिस्तदाऽऽयुष्मन्कृतिर्यावन्न दृश्यते ॥ २५॥ युधिष्ठिर उवाच । जातिरत्र महासर्प मनुष्यत्वे महामते । सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ २६॥ सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः । वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ २७॥ इदमार्षं प्रमाणं च ये यजामह इत्यपि । तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ २८॥ प्राङ्नाभिर्वर्धनात्पुंसो जातकर्म विधीयते । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २९॥ वृत्त्या शूद्र समो ह्येष यावद्वेदे न जायते । अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३०॥ कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते । सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ ३१॥ यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते । तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ ३२॥ सर्प उवाच । श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर । भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ ३३॥
अध्याय १७८ युधिष्ठिर उवाच । भवानेतादृशो लोके वेदवेदाङ्गपारगः । ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ १॥ सर्प उवाच । पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत । अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ २॥ युधिष्ठिर उवाच । दानाद्वासर्पोवाच ।सत्याद्वा किमतो गुरु दृश्यते । अहिंसा प्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ ३॥ सर्पोवाच । दाने रतत्वं सत्यं च अहिंसा प्रियमेव च । एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ ४॥ कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते । सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते ॥ ५॥ एवमेव महेष्वास प्रियवाक्यान्महीपते । अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ ६॥ एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् । यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ ७॥ युधिष्ठिर उवाच । कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् । अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥ ८॥ सर्प उवाच । तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः । मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ ९॥ तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः । अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ १०॥ विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् । तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ ११॥ कामक्रोधसमायुक्तो हिंसा लोभसमन्वितः । मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ १२॥ तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते । गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥ १३॥ सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् । नित्ये महति चात्मानमवस्थापयते नृप ॥ १४॥ जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् । फलार्थस्तात निष्पृक्तः प्रजा लक्षणभावनः ॥ १५॥ युधिष्ठिर उवाच । शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः । तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥ १६॥ किं न गृह्णासि विषयान्युगपत्त्वं महामते । एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ १७॥ सर्प उवाच । यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् । करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ १८॥ ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ । तस्य भोगाधिकरणे करणानि निबोध मे ॥ १९॥ मनसा तात पर्येति क्रमशो विषयानिमान् । विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥ २०॥ अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते । तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥ २१॥ स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः । द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ॥ २२॥ बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः । एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ २३॥ युधिष्ठिर उवाच । मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् । एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ २४॥ सर्प उवाच । बुद्धिरात्मानुगा तात उत्पातेन विधीयते । तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषिणी भवेत् ॥ २५॥ बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् । बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥ २६॥ एतद्विशेषणं तात मनो बुद्ध्योर्मयेरितम् । त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ॥ २७॥ युधिष्ठिर उवाच । अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव । विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥ २८॥ सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् । एवमद्भुतकर्माणमिति मे संशयो महान् ॥ २९॥ सर्प उवाच । सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् । वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ ३०॥ सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर । पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥ ३१॥ कृतं कार्यं महाराज त्वया मम परन्तप । क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥ ३२॥ अहं हि दिवि दिव्येन विमानेन चरन्पुरा । अभिमानेन मत्तः सन्कं चिन्नान्यमचिन्तयम् ॥ ३३॥ ब्रह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः । करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ ३४॥ चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते । तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥ ३५॥ ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम । स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ ३६॥ तत्र ह्यगस्त्यः पादेन वहन्पृष्टो मया मुनिः । अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ ३७॥ ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युत भूषणः । प्रपतन्बुबुधेऽऽत्मानं व्याली भूतमधोमुखम् ॥ ३८॥ अयाचं तमहं विप्रं शापस्यान्तो भवेदिति । अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥ ३९॥ ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः । युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ ४०॥ अभिमानस्य घोरस्य बलस्य च नराधिप । फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ ४१॥ ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् । ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥ ४२॥ सत्यं दमस्तपोयोगमहिंसा दाननित्यता । साधकानि सदा पुंसां न जातिर्न कुलं नृप ॥ ४३॥ अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः । स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ ४४॥ वैशम्पायन उवाच । इत्युक्त्वाऽऽजगरं देहं त्यक्त्वा स नहुषो नृपः । दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ ४५॥ युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः । धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥ ४६॥ ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् । कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ ४७॥ तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः । आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ ४८॥ ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया । मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ ४९॥ पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् । हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥ ५०॥ ॥ इति नहुषगीता समाप्ता ॥ Mahabharata Vanaparva, adhyAya 177-178