अक्षर आकार:

काश्यपगीता

kAshyapagItA

काश्यपगीता

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥ १॥ क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । य एतदेव जानाति स सर्व क्षन्तुमर्हति ॥ २॥ क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ ३॥ अतियज्ञविदांलोकान्क्षमिणः प्राप्नुवन्ति च । अतिब्रह्मविदांलोकानतिचापि तपस्विनाम् ॥ ४॥ अन्येवै यजुषां लोकाः कर्मिणामपरे तथा । क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ ५॥ क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥ ६॥ तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् । यस्यां ब्रह्म च सत्यं च यज्ञालोकाश्चधिष्ठिताः ॥ ७॥ क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥ ८॥ क्षमावतामयं लोकः परश्चैव क्षमावताम् । इह सन्मानमृच्छति परत्र च शुभां गतिम् ॥ ९॥ येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा । तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ १०॥ इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् । श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि माक्रुधः ॥ ११॥ पितामहः शान्तनवः क्षमां सम्पूजयिष्यति । कृष्णश्च देवकीपुत्रः क्षमां सम्पूजयिष्यति ॥ १२॥ आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः । कृपश्च संजयश्चैव शममेव वदिष्यतः ॥ १३॥ सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च । पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ १४॥ सुयोधनो नार्हतीति क्षमामेवं न विन्दति । अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥ १५॥ एतदात्मवतां वृत्तमेष धर्मः सनातनः । क्षमाचैवानृशंस्यं च तत्कर्तास्म्यहमंजसा ॥ १६॥ परैस्ताडितस्यापितत्ताडनसमर्थस्य चिते क्षोभानुत्पत्तिः क्षमा ॥ १७॥ ॥ इति काश्यपगीता समाप्ता ॥