जीवन्मुक्ति गीता
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतंगमय ॥ सर्वभूतान्तरस्थ्याय नित्यमुक्तचिदात्मने । प्रत्यच्चैतन्यरूपाय मह्यमेव नमो नमः ॥ सर्वभूतानर्वर्तिने नित्यमुक्तचिद्स्वरूपिणे सर्वसाक्षिणे मह्यमेव स्वात्मन एव नमः । नम इति द्विरुक्तिः आदरार्थम् ॥ जीवन्मुक्तिश् फ़्ootnoteमुक्तो - खच या मुक्तिः सा मुक्तिः पिण्डपातने । या मुक्तिः पिण्डपातने सा मुक्तिः शुनिशूकरे फ़्ootnoteसूकरे - क॥ १॥ जीवन्मुक्तिरिति या मुक्तिरुच्यते सा यदि पिण्डपातन परा तर्हि सा मुक्तिः सूकरादिष्वपि प्रसक्ता भवतीत्यर्थः । पिण्डपातनं न जीवन्मुक्तिरिति भावः ॥ जीवः शिवः सर्वमेव भूतेष्वेवं फ़्ootnoteभूते भूते - ख व्यवस्थितः । एवमेवाभिपश्यन् हि फ़्ootnoteएवमेव पश्यति यो - ख जीवन्मुक्तः स उच्यते ॥ २॥ जीव इति यः सः सर्वभूतेष्वपि शिवत्वेनैव व्यवस्थितः शिव एव । तज्ज्ञानी जीवन्मुक्त इत्यर्थः ॥ एवं ब्रह्म जगत्सर्वमखिलं भासते रविः । संस्थितं सर्वभूतानां जीवन्मुक्तः स उच्यते ॥ ३॥ यथा रविः सर्वं जगद्भासते एवं ब्रह्म सर्वभूतानामात्मत्वेन संस्थितं सदखिलं भासते प्रकाश्यति । एवमेवान्हिपश्यन् इत्यनुवर्तते । सः तादृशः ज्ञानी जीवन्मुक्त इत्युच्यते इत्यर्थः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । आत्मज्ञानी तथैवैको जीवन्मुक्तः स उच्यते ॥ ४॥ जलचन्द्रवज्जले चन्द्रः यथानेकधा दृश्यते तथैव एकः आत्म । उपाधिभेदेन इत्यध्याहारः.... एकधा बहुधा चैव दृश्यते । एवमात्मानं यो जानाति सः आत्मज्ञानी जीवन्मुक्त इत्युच्यते ॥ सर्वभूते स्थितं ब्रह्म भेदाभेदो न विद्यते । एकमेवाभिपश्यंश्च फ़्ootnoteपश्यति - खजीवन्मुक्तः स उच्यते ॥ ५॥ ब्रह्म सर्वभूतस्थितम् । यत्र भेदोऽभेदः भेदाभेदो न विद्यते । तदेकमेव । एवमभिपश्यंश्च यः स जीवन्मुक्त इत्युच्यते ॥ तत्त्वं क्षेत्रं व्योमातीतमहं क्षेत्रज्ञ उच्यते । अहं कर्ता च भोक्ता च फ़्ootnoteअहं कर्ता अहं भोक्ता - ख जीवन्मुक्तः स उच्यते ॥ ६॥ तत्त्वस्वरूपमेवास्ति । क्षेत्रमाकाशातीतं, परमात्म क्षेत्रज्ञः । कर्तृत्वं भोक्तृत्वं च तस्यैव । एवं यो विजानाति सः जीवन्मुक्त उच्यते ॥ कर्मेन्द्रियपरित्यागी ध्यानवर्जितचेतसः फ़्ootnoteचेतसम् - ख। अत्मज्ञानी तथैवेको जीवन्मुक्तः स उच्यते ॥ ७॥ कर्मेन्द्रियपरित्यागी स्वस्वव्यापाररहितानि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि चकुर्वन् तानि परित्यजतीत्यर्थः । तथ्हा चेतोऽपि विषयध्यानवर्जितं करोत्येवमद्वयं जानाति यः सः जीवन्मुक्तः ॥ तत्त्वं केवलं कर्म फ़्ootnoteकर्मो - खशोकमोहादिवर्जितम् । शुभाशुभपरित्यागी जीवन्मुक्तः स उच्यते ॥ ८॥ ज्ञानिना यत्कर्म क्रियते तच्छोकमोहादिवर्जितम् । तच्च केवलं शारीरपरिरक्षणायैव । एवं तेन शुभाशुभादिकं परित्यक्तं भवति । स जीवन्मुक्त उच्यते ॥ कर्मसर्वत्र आदिष्टं न जानामि च किंचन । कर्म ब्रह्म विजानाति जीवन्मुक्तः स उच्यते ॥ ९॥ यः आदिष्टं विध्युक्तम् कर्म न जानाति कर्तृत्वारोपेण कर्मन करोतीत्यर्थः । अत एव कर्म ब्रह्मस्वरूपमेवेति विजानाति सः जीवन्मुक्तः ॥ चिन्मयं व्यापितं सर्वमाकाशं जगदीश्वरम् । सहितं फ़्ootnoteसंस्थितम् - ख सर्वभूतानां जीवन्मुक्तः स उच्यते ॥ १०॥ यः जगदीश्वरं चित्स्वरूपमित्याकाशव्यापिनमिति सर्वभूतसहितमित्यपि जानाति सः जीवन्मुक्त उच्यते ॥ अनादिवर्ति भूतानां फ़्ootnoteअनाद्य व्यक्तभूतानां - ख जीवः शिवो न हन्यते । निर्वैरः सर्वभूतेषु फ़्ootnoteसर्वभूतानां - ख जीवन्मुक्तः स उच्यते ॥ ११॥ सर्वेषु भूतेषु यः अनादिः जीवः सः शिव एव । अत एव सः न हन्यते । अतः सर्वेषु भूतेषु निर्वैरो यः जीवन्मुक्त उच्यते ॥ आत्मा गुरुस्त्वं विश्वं फ़्ootnoteगुरुस्त्वद्विश्वं च चिदाकाशो न लिप्यते । गतागतं फ़्ootnoteयतागतः - ख द्वयोर्नास्ति जीवन्मुक्तः स उच्यते ॥ १२॥ यः गुरुः आत्मा सः त्वं एव । स एव निर्लिप्तः चिदाकाशः । तद् एव सर्वम् । अत एव तस्य गतागतं गतमागतमागतं गतं वा न विद्यते । एवं यः आत्मानं सः जीवन्मुक्त इत्युच्यते ॥ गर्भ फ़्ootnoteअन्तर् - ख ध्यानेन पश्यन्ति ज्ञानीनां मन उच्यते । सोऽहं मनो विलीयन्ते जीवन्मुक्तः स उच्यते ॥ १३॥ गर्भध्यानेन अन्तर्ध्यानेन इत्यर्थः । एतादृशध्यानेन ज्ञानिनः यत्पश्यन्ति तदेव ज्ञानिनां मन उच्यते । इदमेव सोऽहं मनः । एतादृशमनोविशिष्टाः ज्ञानिनः । चिदाकाश इत्यनुवर्तते । तत्र विलीयन्ते । ते तत्र विलयं यान्तीत्यर्थः । एवं स्थितस्य आत्मतत्त्वस्य ज्ञानीत्यनुवर्तते । सः जीवन्मुक्त इत्युच्यते ॥ ऊर्ध्वध्यानेन पश्यन्ति विज्ञानं मन उच्यते । शून्यं लयं च विलयं जीवन्मुक्तः स उच्यते ॥ १४॥ ज्ञानिनः ऊर्ध्वध्यानेन समाधिना यत्पश्यन्ति तद्विज्ञानम् । तत्तेषां मन उच्यते । तदेव शून्यं लयम् । तदेव विज्ञानम् । तथात्मज्ञान्यात्मानं जानाति यः सः जीवन्मुक्त उच्यते ॥ अभ्यासे फ़्ootnoteआभाषे - ख रमते नित्यं मनो ध्यानलयं गतम् । बन्धमोक्षद्वयं नास्ति जीवन्मुक्तः स उच्यते ॥ १५॥ यस्य ज्ञानिनः मनः नित्यमभ्यासे श्रवणमनननिदिध्यासनाख्यतपसि रमते क्रीडति । यस्य मनः ध्यानलयं ध्ह्याने लयं गतं; यस्य बन्धमोक्षद्वन्द्वं नास्ति सः जिवन्मुक्त उच्यते ॥ एककी रमते नित्यं स्वभावगुणवर्जितम् । ब्रह्मज्ञानरसास्वादी फ़्ootnoteरसास्वादो - ख जीवन्मुक्तः स उच्यते ॥ १६॥ यस्य ज्ञानिनः मनः इत्यनुवर्तते । नित्यं स्वभावगुणवर्जितं प्रकृति गुणातीतं, सः ज्ञानी एकाकी रमते आत्मन्येव क्रीडति । ब्रह्मज्ञानरसास्वादी ब्रह्माख्यज्ञानरसास्वादी सः जीवन्मुक्त इत्युच्यते ॥ हृदि ध्यानेन पश्यन्ति प्रकाशं क्रियते मनः । सोऽहं हंसेति पश्यन्ति जीवन्मुक्तः स उच्यते ॥ १७॥ ये ज्ञानिनः हृदि ध्यानेन प्रकाशं पश्यन्ति तैः मनः क्रियते तेषां मनोऽभिव्यक्तं भवतीति यावत् । तदा ते सोऽहं हंसः इति पश्यन्ति । एवमात्मतत्त्वं पश्यन् जीवन्मुक्त इत्युच्यते ॥ शिवशक्तिसमात्मानं पिण्डब्रह्माण्डम् फ़्ootnoteशिवशक्तिर्ममात्मानो पिण्डनि ब्रह्माण्डम् - ख एव च । चिदाकाशं हृदं मोहं फ़्ootnoteकृतं सोऽहं - ख जीवन्मुक्तः स उच्यते ॥ १८॥ ज्ञानिनः शिवशक्तिसमात्मानं शिवशक्तिसमः यः आत्मा तमात्मानं महात्मानम् । पिण्डः शारीरम् । तेन सहितं ब्रह्माण्डं हृदं हृत्स्थं बन्धकं मोहं च चिदाकाशमिति चैतन्यमेव पश्यन्ति, य एवमात्मतत्त्वज्ञानी सः जीवन्मुक्त इत्युच्यते ॥ जाग्रत्स्वप्नसुषुप्तिं च तुरीयावस्थितं सदा । सोऽहं मनो विलीयेत फ़्ootnoteविलीयते - ख जीवन्मुक्तः स उच्यते ॥ १९॥ यस्य ज्ञानिनः सोऽहं मनः सोऽहमिति ध्यानैकापरं मनः जाग्रत्स्वप्नसुषुप्तिमतीत्य सदा तुरीयावस्थितं सच्चिदाकाशपरमात्मनि विलीयेत सः ज्ञानी जीवन्मुक्त इत्युच्यते ॥ सोऽहं स्थितं ज्ञानमिदं सूत्रेषु मणिवत्परम् फ़्ootnoteज्योतिरूपं निर्मलं - ख सूत्रमभित उत्तरम् - ग। सोऽहं ब्रह्म निराकारं जीवन्मुक्तः स उच्यते ॥ २०॥ इदं सोऽहं स्थितं ज्ञानं सूत्रेषु मणिवच्चिदाकाशे स्थितमित्यन्वयः । सोऽहं परं ब्रह्म निराकारम् । एवमात्मज्ञानी यः सः जीवन्मुक्त इत्युच्यते ॥ मन एव मनुष्याणां भेदाभेदस्य कारणम् । विकल्पनैव संकल्पं फ़्ootnoteसंकल्पो - ख जीवन्मुक्तः स उच्यते ॥ २१॥ विकल्पना इदमित्थमेवेत्यादि तत्त्वविरुद्धा कल्पना स एव संकल्प इति प्रसिद्धः । तदेव मनोरूपं सन्मनुष्यानामहं ममेत्यादि भेदाभेदव्यवहारकारणम् । एवं यो जानाति ज्ञानफलं च संकल्पराहित्यं तथा च यः सर्वथा संकल्परहितः । सः जीवन्मुक्त इत्युच्यते ॥ मन एव विदुः प्राज्ञाः सिद्धसिद्धान्त फ़्ootnoteविदुःप्राज्ञासिद्धसिद्धान्त - ख एव च । यदा फ़्ootnoteसदा - क दृढं तदा मोक्षो फ़्ootnoteमोक्ष - ख जीवन्मुक्तः स उच्यते ॥ २२॥ यत्प्राज्ञाः ज्ञानिनः विदुः किमिति । यदा मनः सदा दृढं भवति तदैव मोक्ष इति । स एव च सिद्धसिद्धान्तः । य एवं सिद्धान्तं वेद सः जीवन्मुक्त उच्यते ॥ योगाभ्यासी मनः श्रेष्ठोऽन्तस्त्यागी बहिर्जडः । अन्तस्त्यागी बहिस्त्यागी जीवन्मुक्तः स उच्यते ॥ २३॥ यो यो योगाभ्यासी योगमभ्यसति स सो मनः श्रेष्ठः मनसा श्रेष्ठः । एवं विधोऽयमन्तस्त्यागी अन्तस्थं सर्वमपि मायासंभूतं त्यजतीत्यन्तस्त्यागी । अत एव सः बहिः जडवदाचरति । एवं च सोऽन्तस्त्यागी बहिस्त्यागी च । स एव जीवन्मुक्त इत्युच्यते ॥ इति वेदान्तकेसरिणा श्रीदत्तात्रेय विरचिता जीवन्मुक्तगीता समाप्ता ॥ इति श्रीजयचामराजेन्द्रविरचिता जीवन्मुक्तगीताव्याख्या समाप्ता ॥There are three sources used for the tekSht. Variation in them is marked in the footnote: क -- which seems to be the oldest version, along with a sanskrit commentary by Mysore Jayacamarajendra (see the colofon); ख -- Satcakra, collection of gitas, bengali script, with some different readings and reduplication of some consonants, ग -- a edition in Bengali from Vidyaratna by Kaliprasana Bhattacarya घ -- collection of gitas, bengali script. This tekSht is part of a volume of ``Bibliotheca Indica᳚, Romanian review, dedicated to Rishi Dattatreya as sanskrit source for ``Works of Dattatreya᳚ foreword, introduction and translation (from Sanskrit to Romanian) by Vlad Sovarel, book published by Herald Publishing House, Bucharest, Romania. The ``sanskrit source᳚ contains: