अक्षर आकार:

हंसगीता

hansagItA

हंसगीता

युधिष्ठिर उवाच । सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह । विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥ १॥ भीष्म उवाच । अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् । साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥ २॥ हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः । स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥ ३॥ साध्या ऊचुः । शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे । पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥ ४॥ श्रुतोऽसि नः पण्डितो धीरवादी साधुशब्दश्चरते ते पतत्रिन् । किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥ ५॥ तन्नः कार्यं पक्षिवर प्रशाधि यत्कर्मणां मन्यसे श्रेष्ठमेकम् । यत्कृत्वा वै पुरुषः सर्वबन्धैर्- विमुच्यते विहगेन्द्रेह शीघ्रम् ॥ ६॥ हंस उवाच । इदं कार्यममृताशाः श‍ृणोमि तपो दमः सत्यमात्माभिगुप्तिः । ग्रन्थीन् विमुच्य हृदयस्य सर्वान् प्रियाप्रिये स्वं वशमानयीत ॥ ७॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत न तां वदेद्रुषतीं पापलोक्याम् ॥ ८॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि । परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत्परेषु ॥ ९॥ परश्चेदेनमति वादबानैर्- भृशं विध्येच्छम एवेह कार्यः । संरोष्यमाणः प्रतिहृष्यते यः स आदत्ते सुकृतं वै परस्य ॥ १०॥ क्षेपाभिमानादभिषङ्गव्यलीकं var क्षेपायमाणमभिषङ्ग निगृह्णाति ज्वलितं यश्च मन्युम् । अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥ ११॥ आक्रुश्यमानो न वदामि किंचित् क्षमाम्यहं ताड्यमानश्च नित्यम् । श्रेष्ठं ह्येतत् यत् क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥ १२॥ वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः । दमस्योपनिषन्मोक्षं एतत्सर्वानुशासनम् ॥ १३॥ वाचो वेगं मनसः क्रोधवेगं विवित्सा वेगमुदरोपस्थ वेगम् । एतान् वेगान् यो विषहदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥ १४॥ अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषान्मानुषो वै विशिष्टस् तथा ज्ञानाज्ज्ञानवान्वै प्रधानः ॥ १५॥ var ज्ञानविद्वै विशिष्टः आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । var नाक्रुश्येत् मन्युरेनं आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ १६॥ यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् । पापं च यो नेच्छति तस्य हन्तुस्- तस्मै देवाः स्पृहयन्ते सदैव ॥ १७॥ var तस्येह देवाः स्पृहयन्ति नित्यम् । पापीयसः क्षमेतैव श्रेयसः सदृशस्य च । विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ॥ १८॥ सदाहमार्यान्निभृतोऽप्युपासे न मे विवित्सा न चमेऽस्ति रोषः । var विवित्सोत्सहते न रोषः न चाप्यहं लिप्समानः परैमि न चैव किंचिद्विषयेण यामि ॥ १९॥ नाहं शप्तः प्रतिशपामि किंचिद् दमं द्वारं ह्यमृतस्येह वेद्मि । गुह्यं ब्रह्म तदिदं वा ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥ २०॥ विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः । विरजाः कालमाकाङ्क्षन् धीरो धैर्येण सिध्यति ॥ २१॥ यः सर्वेषां भवति ह्यर्चनीय उत्सेधनस्तम्भ इवाभिजातः । यस्मै वाचं सुप्रशस्तां वदन्ति var तस्मै वाचं सुप्रसन्नां स वै देवान्गच्छति संयतात्मा ॥ २२॥ न तथा वक्तुमिच्छन्ति कल्याणान् पुरुषे गुणान् । यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥ २३॥ यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा । वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥ २४॥ आक्रोशनावमानाभ्यां नाबुधान् गर्हयेद् बुधः । var बोधयेद् बुधः तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥ २५॥ अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः । var पण्डितः । सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ २६॥ यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति । वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति हि क्रोधनस्य ॥ २७॥ चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः । उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥ २८॥ सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः । var तितिक्षां च संसेवमानः स्वाध्यायनित्योऽस्पृहयन्परेषाम् var युक्तोऽस्पृहयन् परेषाम् एकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥ २९॥ सर्वानेताननुचरन् वत्सवच्चतुरः स्तनान् । var सर्वांश्चैनाननुचरन् न पावनतमं किंचित्सत्यादध्यगमं क्वचित् ॥ ३०॥ आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ३१॥ यादृशैः संनिवसति यादृशांश्चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ ३२॥ यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव । वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ ३३॥ सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् । नेन्दुः समः स्यादसमो हि वायुर्- उच्चावचं विषयं यः स वेद ॥ ३४॥ अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे । तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥ ३५॥ शिश्नोदरे येऽभिरताः सदैव var ये निरताः स्तेना नरा वाक्परुषाश्च नित्यम् । अपेतदोषानिति तान् विदित्वा दूराद्देवाः सम्परिवर्जयन्ति ॥ ३६॥ न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा । सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते ॥ ३७॥ अव्याहृतं व्याकृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् । धर्मं वदेद्व्याहृतं तत्तृतीयं प्रियंवदेद्व्याहृतं तच्चतुर्थम् ॥ ३८॥ साध्या ऊचुः । केनायमावृतो लोकः केन वा न प्रकाशते । केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ३९॥ हंस उवाच । अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ४०॥ साध्या ऊचुः । कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते । कः स्विदेको बलवान् दुर्बलोऽपि कः स्विदेषां कलहं नान्ववैति ॥ ४१॥ हंस उवाच । प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते । प्राज्ञ एको बलवान् दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति ॥ ४२॥ साध्या ऊचुः । किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते । असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥ ४३॥ हंस उवाच । स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते । असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥ ४४॥ भीष्म उवाच । संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः । क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ ४५॥ var इत्युक्त्वा परमो देव भगवान् नित्य अव्ययः । साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥ ४५॥ एतद् यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् । दर्शितं देवदेवेन परमेणाव्ययेन च ॥ ४६॥ ॥ इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि हंसगीता समाप्ता ॥ mahAbhArata shAntiparva mokShadharmaparva adhyAyaH 288 in critical edition, 289 in Kinjavadekar edition.