अक्षर आकार:

हारीतगीता

hArItagItA

हारीतगीता

अध्यायः २६९ युधिष्ठिर उवाच किं शीलः किं समाचारः किं विद्यः किं परायनः । प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १॥ भीष्म उवाच मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः । प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ २॥ स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः । समुपोधेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ३॥ न चक्षुषा न मनसा न वाचा दूसयेदपि । न प्रत्यक्षं परोक्षं वा दूसनं व्याहरेत्क्व चित् ॥ ४॥ न हिंस्यात्सर्वभूतानि मैत्रायण गतिश् चरेत् । नेदं जीवितमासाद्य वैरं कुर्वीत केन चित् ॥ ५॥ अतिवादांस्तितिक्षेत नाभिमन्येत्कथं चन । क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ ६॥ प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् । भैक्ष चर्यामनापन्नो न गच्छेत्पूर्वकेतितः ॥ ७॥ अविकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् । मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः ॥ ८॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने । अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः ॥ ९॥ अनुयात्रिकमर्थस्य मात्रा लाभेष्वनादृतः । अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥ १०॥ लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः । अभिपूजित लाभं हि जुगुप्सेतैव तादृशः ॥ ११॥ न चान्न दोषान्निन्देत न गुणानभिपूजयेत् । शयासने विविक्ते च नित्यमेवाभिपूजयेत् ॥ १२॥ शून्यागरं वृक्षमूलमरण्यमथ वा गुहाम् । अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् ॥ १३॥ अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः । सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥ १४॥ नित्यतृप्तः सुसंतुष्टः प्रसन्नवदनेन्द्रियः । विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः ॥ १५॥ अभ्यस्तं भौतिकं पश्यन् भूतानामागतीं गतिम् । निस्पृहः समदर्शी च पक्वापक्वेन वर्तयन् । आत्मना यः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः ॥ १६॥ वाचो वेगं मनसः क्रोधवेगं विवित्सा वेगमुदरोपस्थ वेगम् । एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात् ॥ १७॥ मध्यस्थ एव तिष्ठेत प्रशंसा निन्दयोः समः । एतत्पवित्रं परमं परिव्राजक आश्रमे ॥ १८॥ महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः । अपूर्व चारकः सौम्यो अनिकेतः समाहितः ॥ १९॥ वान प्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित् । अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् ॥ २०॥ विजानतां मोक्ष एष श्रमः स्यादविजानताम् । मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥ २१॥ अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् । लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते ॥ २२॥ ॥ इति श्री महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि हारीतगीतायां अष्टसप्तत्यधिकद्विशततमोऽस्ध्याय ॥ Adhyaya number 269 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI) does not include verses 15-16. In Kinjavadekar's edition the adhyAya is 278.