अक्षर आकार:

श्रीमद्भगवद्गीता अष्टोत्तरशतनामावली

shrImadbhagavadgItA aShTottarashatanAmAvalih

श्रीमद्भगवद्गीता अष्टोत्तरशतनामावली

ॐ गीतायै नमः । ॐ गोविन्दहृद्गङ्गायै नमः । ॐ गुरुगेयायै नमः । ॐ गिरामृतायै नमः । ॐ गायत्र्यै नमः । ॐ गोपितायै नमः । ॐ गूढायै नमः । ॐ गुडाकेशार्तिहारिण्यै नमः । ॐ मधुसूदनमुखाम्भोजसुधायै नमः । ॐ सर्वार्थमञ्जर्यै नमः । १० ॐ महाभारतमध्यस्थायै नमः । ॐ मुकुन्दघनदामिन्यै नमः । ॐ हरिझङ्कृतचिद्वीणायै नमः । ॐ त्रिषट्तन्त्री-वरस्वरायै नमः । ॐ प्रस्थानप्रमुखायै नमः । ॐ प्रत्यग्दीपिकायै नमः । ॐ प्रणवात्मिकायै नमः । ॐ प्रपत्त्यङ्कुरिकायै नमः । ॐ सीतायै नमः । ॐ सत्यायै नमः । २० ॐ कृष्णाब्जशारदायै नमः । ॐ कृष्णापति-समुद्धर्त्र्यै नमः । ॐ कार्पण्याधि-महौषधये नमः । ॐ अम्बायै नमः । ॐ अचिन्त्यपदायै नमः । ॐ अमात्रायै नमः । ॐ चिन्मात्रायै नमः । ॐ आनन्दवर्षिण्यै नमः । ॐ अष्टादशभुजायै नमः । ॐ अनन्तायै नमः । ३० ॐ अध्यात्मशस्त्रास्त्रधारिण्यै नमः । ॐ वरदायै नमः । ॐ अभयदायै नमः । ॐ ज्ञानमुद्रायै नमः । ॐ मन्त्राक्षमालिकायै नमः । ॐ वेणुगानरतायै नमः । ॐ शूल-शङ्ख-चक्र-गदाधरायै नमः । ॐ विद्याकुम्भोलसत्पाणये नमः । ॐ बाणकोदण्डमण्डितायै नमः । ॐ करताल-लयोपेतायै नमः । ४० ॐ पद्मपाशाङ्कुशोज्ज्वलायै नमः । ॐ अनुष्टुप्सङ्कुलायै नमः । ॐ नानाछन्दालङ्कारसुन्दर्यै नमः । ॐ इन्द्रोपेन्द्रसंवलितायै नमः । ॐ उपजाति-सुसज्जितायै नमः । ॐ विपरीतवृत्ति-युक्तायै नमः । ॐ वर्णमङ्गल-विग्रहायै नमः । ॐ व्यासप्रियायै नमः । ॐ सप्तशत्यै नमः । ॐ वासुदेवप्रसादजायै नमः । ५० ॐ विषादघ्न्यै नमः । ॐ विरागिण्यै नमः । ॐ विद्यायै नमः । ॐ व्यामोहनाशिन्यै नमः । ॐ विनेयवत्सलायै नमः । ॐ श्रेयायै नमः । ॐ निश्चितार्थ-प्रकाशिन्यै नमः । ॐ देहीदेहविवेकाढ्यायै नमः । ॐ बुद्धिद्वय-विलासिन्यै नमः । ॐ निर्द्वन्द्वायै नमः । ६० ॐ नित्य-सत्त्वस्थायै नमः । ॐ निःस्पृहायै नमः । ॐ संशयापहायै नमः । ॐ ब्राह्मीस्थित्यै नमः । ॐ स्थितप्रज्ञायै नमः । ॐ ब्रह्मस्पर्श-सुखास्पदायै नमः । ॐ ब्रह्मयोनये नमः । ॐ यज्ञमय्यै नमः । ॐ ब्रह्मनिर्वाणदायिन्यै नमः । ॐ कर्मान्तायै नमः । ७० ॐ कामतायै नमः । ॐ काम्यायै नमः । ॐ सौम्यायै नमः । ॐ योगत्रयाश्रयायै नमः । ॐ धर्मक्षेत्रोद्भवायै नमः । ॐ धर्म्यायै नमः । ॐ ध्यानस्थायै नमः । ॐ भक्तिनिर्झर्यै नमः । ॐ ज्ञानविज्ञानसोपानायै नमः । ॐ दिव्यस्मरणसन्तत्यै नमः । ८० ॐ राजविद्यायै नमः । ॐ राजगुह्यायै नमः । ॐ प्रत्यक्षायै नमः । ॐ सुलभागत्यै नमः । ॐ विभूतिभूषितायै नमः । ॐ अनन्तायै नमः । ॐ विश्वरूपप्रदर्शिन्यै नमः । ॐ अद्वेष्ट्ट्त्वादि-सन्दोहायै नमः । ॐ क्षेत्र-क्षेत्रज्ञ-पालिन्यै नमः । ॐ गुणज्ञायै नमः । ९० ॐ त्रिगुणातीतायै नमः । ॐ क्षराक्षरविमर्शिन्यै नमः । ॐ पुरुषोत्तमपरायै नमः । ॐ पूर्णायै नमः । ॐ कृतकृत्यपदप्रदायै नमः । ॐ दिव्यसम्पत्प्रसवे नमः । ॐ दुर्गायै नमः । ॐ दुराचारविघातिन्यै नमः । ॐ संन्यासरसिकायै नमः । ॐ मुक्तायै नमः । १०० ॐ सर्वपापप्रमोचिन्यै नमः । ॐ श्रीशङ्करादृतायै नमः । ॐ अद्वैतायै नमः । ॐ श्रीनिवासनिवासभुवे नमः । ॐ सर्वशास्त्रमय्यै नमः । ॐ संविदे नमः । ॐ स्मृत्यै नमः । ॐ समरसाकृत्यै नमः । १०८