अक्षर आकार:

गर्भगीता

garbhagItA

गर्भगीता

वन्दे कृष्णं सुरेन्द्रं स्थितिलयजनने कारणं सर्वजन्तोः स्वेच्छाचारं कृपालुं गुणगणरहितं योगिनां योगगम्यम् । द्वन्द्वातीतं च सत्यं हरमुखविबुधैः सेवितं ज्ञानरूपं भक्ताधीनं तुरीयं नवघनरुचिरं देवकीनन्दनं तम् ॥ अर्जुन उवाच -- गर्भवासं जरामृत्युं किमर्थं भ्रमते नरः । कथं वा वहितं जन्म ब्रूहि देव जनार्दन ॥ १॥ श्रीभगवानुवाच -- मानवो मूढ अन्धश्च संसारेऽस्मिन् विलिप्यते । आशास्तथा न जहाति प्राणानां जनसम्पदाम् ॥ २॥ अर्जुन उवाच -- आशा केन जिता लोकैः संसारविषयौ तथा । केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥ ३॥ कामः क्रोधश्च लोभश्च मदमात्सर्यमेव च । एते मनसि वर्तन्ते कर्मपाशं कथम् त्यजेत् ॥ ४॥ श्रीभगवानुवाच -- ज्ञानाग्निर्दहते कर्म भूयोऽपि तेन लिप्यते । विशुद्धात्मा हि लोकः सः पुनर्जन्म न भुञ्जते ॥ ५॥ जितं सर्वकृतं कर्म विष्णुश्रीगुरुचिन्तनम् । विकल्पो नास्ति सङ्कल्पः पुनर्जन्म न विद्यते ॥ ६॥ नानाशास्त्रं पठेल्लोको नानादैवतपूजनम् । आत्मज्ञानं विना पार्थ सर्वकर्म निरर्थकम् ॥ ७॥ आचारः क्रियते कोटि दानं च गिरिकाञ्चनम् । आत्मतत्त्वं न जानाति मुक्तिर्नास्ति न संशयः ॥ ८॥ कोटियज्ञकृतं पुण्यं कोटिदानं हयो गजः । गोदानं च सहस्राणि मुक्तिर्नास्ति न वा शुचिः ॥ ९॥ न मोक्षं भ्रमते तीर्थं न मोक्षं भस्मलेपनम् । न मोक्षं ब्रह्मचर्यं हि मोक्षं नेन्द्रियनिग्रहः ॥ १०॥ न मोक्षं कोटियज्ञं च न मोक्षं दानकाञ्चनम् । न मोक्षं वनवासेन न मोक्षं भोजनं विना ॥ ११॥ न मोक्षं मन्दमौनेन न मोक्षं देहताडनम् । न मोक्षं गायने गीतं न मोक्षं शिल्पनिग्रहम् ॥ १२॥ न मोक्षं कर्मकर्मेषु न मोक्षं मुक्तिभावने । न मोक्षं सुजटाभारं निर्जनसेवनस्तथा ॥ १३॥ न मोक्षं धारणाध्यानं न मोक्षं वायुरोधनम् । न मोक्षं कन्दभक्षेण न मोक्षं सर्वरोधनम् ॥ १४॥ यावद्बुद्धिविकारेण आत्मतत्त्वं न विन्दति । यावद्योगं च संन्यासं तावच्चित्तं न हि स्थिरम् ॥ १५॥ अभ्यन्तरं भवेत् शुद्धं चिद्भावस्य विकारजम् । न क्षालितं मनोमाल्यं किं भवेत् तपकोटिषु ॥ १६॥ अर्जुन उवाच -- अभ्यन्तरं कथं शुद्धं चिद्भावस्य पृथक् कृतम् । मनोमाल्यं सदा कृष्ण कथं तन्निर्मलं भवेत् ॥ १७॥ श्रीभगवानुवाच -- प्रशुद्धात्मा तपोनिष्ठो ज्ञानाग्निदग्धकल्मषः । तत्परो गुरुवाक्ये च पुनर्जन्म न भुञ्जते ॥ १८॥ अर्जुन उवाच -- कर्माकर्मद्वयं बीजं लोके हि दृढबन्धनम् । केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥ १९॥ श्रीभगवानुवाच -- कर्माकर्मद्वयं साधो ज्ञानाभ्याससुयोगतः । ब्रह्माग्निर्भुञ्जते बीजं अबीजं मुक्तिसाधकम् ॥ २०॥ योगिनां सहजानन्दः जन्ममृत्युविनाशकम् । निषेधविधिरहितं अबीजं चित्स्वरूपकम् ॥ २१॥ तस्मात् सर्वान् पृथक् कृत्य आत्मनैव वसेत् सदा । मिथ्याभूतं जगत् त्यक्त्वा सदानन्दं लभेत् सुधीः ॥ २२॥ इति श्रीगर्भगीता समाप्ता ।