अक्षर आकार:

गायत्री गीता

Gayatri Gita

गायत्री गीता

ओमित्येव सुनामधेयमनघं विश्वात्मनो ब्रह्मणः सर्वेष्वेव हि तस्य नामसु वसोरेतत्प्रधानं मतम् ॥ यं वेदा निगदन्ति न्यायनिरतं श्रीसच्चिदानन्दकं लोकेशं समदर्शिनं नियमनं चाकारहीनं प्रभुम् ॥ १॥ भूर्वै प्राण इति ब्रुवन्ति मुनयो वेदान्तपारं गताः प्राणः सर्वविचेतनेषु प्रसृतः सामान्यरूपेण च । एतेनैव विसिद्ध्यते हि सकलं नूनं समानं जगत् । द्रष्टव्यः सकलेषु जन्तुषु जनैर्नित्यं ह्यसुश्चात्मवत् ॥ २॥ भुवर्नाशो लोके सकलविपदां वै निगदितः कृतं कार्यं कर्तव्यमिति मनसा चास्य करणं । फलाशां मर्त्या ये विदधति न वै कर्मनिरताः लभन्ते नित्यं ते जगति हि प्रसादं सुमनसाम् ॥ ३॥ स्वरेषो वै शब्दो निगदति मनःस्थैर्यकरणं तथा सौख्यं स्वास्थ्यं ह्युपदिशति चित्तस्य चलतः । निमग्नत्वं सत्यव्रतसरसि चाचक्षति उत । त्रिधां शान्तिं ह्येतां भुवि च लभते संयमरतः ॥ ४॥ ततो वै निष्पत्तिः स भुवि मतिमान् पण्डितवरः विजानन् गुह्यं यो मरणजीवनयोस्तदखिलम् । अनन्ते संसारे विचरति भयासक्तिरहित- स्तथा निर्माणं वै निजगतिविधीनां प्रकुरुते ॥ ५॥ सवितुस्तु पदं वितनोति ध्रुवं मनुजो बलवान् सवितेव भवेत् । विषया अनुभूतिपरिस्थितय- स्तु सदात्मन एव गणेदिति सः ॥ ६॥ वरेण्यञ्चैतद्वै प्रकटयति श्रेष्ठत्वमनिशं सदा पश्येच्छ्रेष्ठं मननपि श्रेष्ठस्य विदधेत् । तथा लोके श्रेष्ठं सरलमनसा कर्म च भजेत् तदित्थं श्रेष्ठत्वं व्रजति मनुजः शोभितगुणैः ॥ ७॥ भर्गो व्याहरते पदं हि नितरां लोकः सुलोको भवेत् पापे पाप-विनाशने त्वविरतं दत्तावधानो वसेत् । दृष्ट्वा दुष्कृतिदुर्विपाक-निचयं तेभ्यो जुगुप्सेद्धि च तन्नाशाय विधीयतां च सततं सङ्घर्षमेभिः सह ॥ ८॥ देवस्येति तु व्याकरोत्यमरतां मर्त्योऽपि सम्प्राप्यते देवानामिव शुद्धदृष्टिकरणात् सेवोपचाराद् भुवि । निःस्वार्थं परमार्थ-कर्मकरणात् दीनाय दानात्तथा बाह्याभ्यन्तरमस्य देवभुवनं संसृज्यते चैव हि ॥ ९॥ धीमहि सर्वविधं शुचिमेव शक्तिचय वयमितुपदिष्टाः । नो मनुजो लभते सुखशान्ति- मनेन विनेति वदन्ति हि वेदाः ॥ १०॥ धियो मत्योन्मथ्यागमनिगममन्त्रान् सुमतिमान् विजानीयात्तत्त्वं विमलनवनीतं परमिव । यतोऽस्मिन् लोके वै संशयगत-विचार-स्थलशते मतिः शुद्धैवाच्छा प्रकटयति सत्यं सुमनसे ॥ ११॥ योनो वास्ति तु शक्तिसाधनचयो न्यूनाधिकश्चाथवा भागं न्यूनतमं हि तस्य विदधेमात्मप्रसादाय च । यत्पश्चादवशिष्टभागमखिलं त्यक्त्वा फलाशं हृदि तद्धीनेष्वभिलाषवत्सु वितरेद् ये शक्तिहीनाः स्वयम् ॥ १२॥ प्रचोदयात् स्वं त्वितरांश्च मानवान् नरः प्रयाणाय च सत्यवर्त्मनि । कृतं हि कर्माखिलमित्थमङ्गिना वदन्ति धर्मं इति हि विपश्चितः ॥ १३॥ गायत्री-गीतां ह्येतां यो नरो वेत्ति तत्त्वतः । स मुक्त्वा सर्वदुःखेभ्यः सदानन्दे निमज्जति ॥ १४॥ From the book Superscience of Gayatri : Gayatri Mahavigyan Pandit Sriram Sharma Acharya at www.awgp.org Translation (pages 103-111) http://literature.awgp.org/englishbook/GayatriYagya/SuperScienceofGayatri.103