अक्षर आकार:

श्रीमद् गीतासारः अग्निपुराणान्तर्गतः

Shrimad Gitasara from Agni Purana 381

श्रीमद् गीतासारः अग्निपुराणान्तर्गतः

अग्निरुवाच -- गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमम् । कृष्णोऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदम् ॥ ३८१.१ ॥ श्रीभगवानुवाच -- गतासुरगतासुर्वा न शोच्यो देहवानजः । आत्माऽजरोऽमरोऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥ ३८१.२ ॥ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥ ३८१.३ ॥ सम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति । दुःसङ्गहानिः सत्सङ्गान्मोक्षकामी च कामनुत् ॥ ३८१.४ ॥ कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते । या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥ ३८१.५ ॥ यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३८१.६ ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । तत्त्ववित्तु महावाहो गुणकर्मविभागयोः ॥ ३८१.७ ॥ गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥ ३८१.८ ॥ ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन । ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ॥ ३८१.९ ॥ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । सर्वभूतेषु चात्मानां सर्वभूतानि चात्मनि ॥ ३८१.११ ॥ ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ३८१.११ ॥ न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति । दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३८१.१२ ॥ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ३८१.१३ ॥ चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः । अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥ ३८१.१४ ॥ भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥ ३८१.१५ ॥ अधियज्ञोऽहमेवात्र देहे देहभृतां वर । अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥ ३८१.१६ ॥ यं यं भावं स्मरन्नन्ते त्यजेद्देहं तमाप्नुयात् । प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥ ३८१.१७ ॥ ओमित्येकाक्षरं ब्रह्म वदन् देहं त्यजन् तथा । ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ॥ ३८१.१८ ॥ श्रीमन्तश्चोर्जिताः सर्वे ममांशाः प्राणिनः स्मृताः । अहमेको विश्वरुप इति ज्ञात्वा विमुच्यते ॥ ३८१.१९ ॥ क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकीर्तितः । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३८१.२१ ॥ महाभूतान्यहङ्गारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशौकञ्च पञ्च चेन्द्रियगोचराः ॥ ३८१.२१ ॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ३८१.२२ ॥ अमानित्वमदम्भित्वमहिसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ३८१.२३ ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ३८१.२४ ॥ आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥ ३८१.२५ ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ३८१.२६ ॥ अध्यात्मज्ञाननिष्ठत्वन् तत्त्वज्ञानानुदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ३८१.२७ ॥ ज्ञेयं यत्तत् प्रवक्ष्यामि यत् ज्ञात्वाऽमृतमश्नुते । अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥ ३८१.२८ ॥ सर्वतः पाणिपादां तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३८१.२९ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्दियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ ३८१.३१ ॥ बहिरन्तश्च भूतानामचरञ्चरमेव च । सूक्षमत्वात्तदविज्ञेयं दूरस्थञ्चान्तिकेऽपि यत् ॥ ३८१.३१ ॥ अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ३८१.३२ ॥ ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य घिष्ठितम् ॥ ३८१.३३ ॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ ३८१.३४ ॥ अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते । तेऽपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ३८१.३५ ॥ BG 13.25 चातितर सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ३८१.३६ ॥ गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते । मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥ ३८१.३७ ॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ३८१.३८ ॥ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणाम् ॥ ३८१.३९ ॥ न शौचं नापि वाचारो ह्यासुरीसम्पदोद्भवः । नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् ॥ ३८१.४१ ॥ यज्ञस्तपस्तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् । आयुः सत्त्वबलारोग्यसुखायान्नन्तु सात्त्विकम् ॥ ३८१.४१ ॥ दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसम् । अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकम् ॥ ३८१.४२ ॥ यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः । यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥ ३८१.४३ ॥ var दम्भार्थं श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते । देवादिपूजाऽहिंसादि वाङ्मयं तप उच्यते ॥ ३८१.४४ ॥ अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः । मानसं चित्तसंशुद्धेर्मौनमात्मविनिग्रहः ॥ ३८१.४५ ॥ सात्त्विकञ्च तपोऽकामं फलाद्यर्थन्तु राजसम् । तामसं परपीडायै सात्त्विकं दानमुच्यते ॥ ३८१.४६ ॥ देशादौ चैव दातव्यमुपकाराय राजसम् । अदेशादाववज्ञातं तामसं दानमीरितम् ॥ ३८१.४७ ॥ ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । यज्ञदानादिकं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ३८१.४८ ॥ अनिष्टमिष्टं मिश्रञ्च त्रिविंधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ ३८१.४९ ॥ तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् । राजसः सात्त्विकोऽकामात् पञ्चैते कर्महेतवः ॥ ३८१.५१ ॥ अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् । त्रिविधाश्च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमम् ॥ ३८१.५१ ॥ एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसम् । अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकम् ॥ ३८१.५२ ॥ कामाय राजसं कर्म मोहात् कर्म तु तामसम् । सिद्ध्यसिद्ध्योः समः कर्ता सात्त्विको राजसोऽत्यपि ॥ ३८१.५३ ॥ शठोऽलसस्तामसः स्यात् कार्यादिधीश्च सात्त्विकी । कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥ ३८१.५४ ॥ मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी । तामसी तु प्रशोकादौ सुखं सत्त्वात्तदन्तगम् ॥ ३८१.५५ ॥ सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसम् । अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततम् ॥ ३८१.५६ ॥ स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ ३८१.५७ ॥ ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः । सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवम् ॥ ३८१.५८ ॥ इत्यादिमहापुराणे आग्नेये गीतासारो नामैकाशीत्यधिकत्रिशततमोऽध्यायः ॥ Agnipurana Chapter 381 From sa.wikisource.org