अक्षर आकार:

श्रीमद्भगवद्गीताष्टोत्तरम्

shrImadbhagavadgItAShTottaram by Svami Tejomayananda

श्रीमद्भगवद्गीताष्टोत्तरम्

ॐ श्रीमद्भगवद्गीतायै नमः । ॐ श्रीकृष्णामृतवाण्यै नमः । ॐ पार्थाय प्रतिबोधितायै नमः । ॐ व्यासेन ग्रथितायै नमः । ॐ सञ्जयवर्णितायै नमः । ॐ महाभारतमध्यस्थितायै नमः । ॐ कुरुक्षेत्रे उपदिष्टायै नमः । ॐ भगवत्यै नमः । ॐ अम्बारूपायै नमः । ॐ अद्वैतामृतवर्षिण्यै नमः । १०। ॐ भवद्वेषिण्यै नमः । ॐ अष्टादशाध्याय्यै नमः । ॐ सर्वोपनिषत्सारायै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ योगशास्त्ररूपायै नमः । ॐ श्रीकृष्णार्जुनसंवादरूपायै नमः । ॐ श्रीकृष्णहृदयायै नमः । ॐ सुन्दर्यै नमः । ॐ मधुरायै नमः । ॐ पुनीतायै नमः । २०। ॐ कर्ममर्मप्रकाशिन्यै नमः । ॐ कामासक्तिहरायै नमः । ॐ तत्त्वज्ञानप्रकाशिन्यै नमः । ॐ निश्चलभक्तिविधायिन्यै नमः । ॐ निर्मलायै नमः । ॐ कलिमलहारिण्यै नमः । ॐ रागद्वेषविदारिण्यै नमः । ॐ मोदकारिण्यै नमः । ॐ भवभयहारिण्यै नमः । ॐ तारिण्यै नमः । ३०। ॐ परमानन्दप्रदायै नमः । ॐ अज्ञाननाशिन्यै नमः । ॐ आसुरभावविनाशिन्यै नमः । ॐ दैवीसम्पत्प्रदायै नमः । ॐ हरिभक्तप्रियायै नमः । ॐ सर्वशास्त्रस्वामिन्यै नमः । ॐ दयासुधावर्षिण्यै नमः । ॐ हरिपदप्रेमप्रदायिन्यै नमः । ॐ श्रीप्रदायै नमः । ॐ विजयप्रदायै नमः । ४०। ॐ भूतिदायै नमः । ॐ नीतिदायै नमः । ॐ सनातन्यै नमः । ॐ सर्वधर्मस्वरूपिण्यै नमः । ॐ समस्तसिद्धिदायै नमः । ॐ सन्मार्गदर्शिकायै नमः । ॐ त्रिलोकीपूज्यायै नमः । ॐ अर्जुनविषादहारिण्यै नमः । ॐ प्रसादप्रदायै नमः । ॐ नित्यात्मस्वरूपदर्शिकायै नमः । ५०। ॐ अनित्यदेहसंसाररूपदर्शिकायै नमः । ॐ पुनर्जन्मरहस्यप्रकटिकायै नमः । ॐ स्वधर्मप्रबोधिन्यै नमः । ॐ स्थितप्रज्ञलक्षणदर्शिकायै नमः । ॐ कर्मयोगप्रकाशिकायै नमः । ॐ यज्ञभावनाप्रकाशिन्यै नमः । ॐ विविधयज्ञप्रदर्शिकायै नमः । ॐ चित्तशुद्धिदायै नमः । ॐ कामनाशोपायबोधिकायै नमः । ॐ अवतारतत्त्वविचारिण्यै नमः । ६०। ॐ ज्ञानप्राप्तिसाधनोपदेशिकायै नमः । ॐ ध्यानयोगबोधिन्यै नमः । ॐ मनोनिग्रहमार्गप्रदीपिकायै नमः । ॐ सर्वविधसाधकहितकारिण्यै नमः । ॐ ज्ञानविज्ञानप्रकाशिकायै नमः । ॐ परापरप्रकृतिबोधिकायै नमः । ॐ सृष्टिरहस्यप्रकटिकायै नमः । ॐ चतुर्विधभक्तलक्षणदर्शिकायै नमः । ॐ भुक्तिमुक्तिदायै नमः । ॐ जीवजगदीश्वरस्वरूपबोधिकायै नमः । ७०। ॐ प्रणवध्यानोपदेशिकायै नमः । ॐ कर्मोपासनफलदर्शिकायै नमः । ॐ राजविद्यायै नमः । ॐ राजगुह्यायै नमः । ॐ प्रत्यक्षावगमायै नमः । ॐ धर्म्यायै नमः । ॐ सुलभायै नमः । ॐ योगक्षेमकारिण्यै नमः । ॐ भगवद्विभूतिविस्तारिकायै नमः । ॐ विश्वरूपदर्शनयोगयुक्तायै नमः । ८०। ॐ भगवदैश्वर्यप्रदर्शिकायै नमः । ॐ भक्तिदायै नमः । ॐ भक्तिविवर्धिन्यै नमः । ॐ भक्तलक्षणबोधिकायै नमः । ॐ सगुणनिर्गुणप्रकाशिन्यै नमः । ॐ क्षेत्रक्षेत्रज्ञविवेककारिण्यै नमः । ॐ दृढवैराग्यकारिण्यै नमः । ॐ गुणत्रयविभागदर्शिकायै नमः । ॐ गुणातीतपुरुषलक्षणदर्शिकायै नमः । ॐ अश्वत्थवृक्षवर्णनकारिण्यै नमः । ९०। ॐ संसारवृक्षच्छेदनोपायबोधिन्यै नमः । ॐ त्रिविधश्रद्धास्वरूपप्रकाशिकायै नमः । ॐ त्यागसंन्यासतत्त्वदर्शिकायै नमः९३। ॐ यज्ञदानतपःस्वरूपबोधिन्यै नमः । ॐ ज्ञानकर्मकर्तृस्वरूपबोधिकायै नमः । ॐ शरणागतिरहस्यप्रदर्शिकायै नमः । ॐ आश्चर्यरूपायै नमः । ॐ विस्मयकारिण्यै नमः । ॐ आह्लादकारिण्यै नमः । ॐ भक्तिहीनजनागम्यायै नमः । १००। ॐ जगत उद्धारिण्यै नमः । ॐ दिव्यदृष्टिप्रदायै नमः । ॐ धर्मसंस्थापिकायै नमः । ॐ भक्तजनसेव्यायै नमः । ॐ सर्वदेवस्तुतायै नमः । ॐ ज्ञानगङ्गायै नमः । ॐ श्रीकृष्णप्रियतमायै नमः । ॐ सर्वमङ्गलायै नमः । १०८। ॥ इति स्वामीतेजोमयानन्दरचिता श्रीमद्भगवद्गीताष्टोत्तरशतनामावली ॥ From Holy Gita Ready Reference, Chinmaya International Foundation, www.chinfo.org