अक्षर आकार:

धर्मव्याधगीता

dharmavyAdhagItA

धर्मव्याधगीता

॥ अथ धर्मव्याधगीता ॥ व्याध उवाच - विज्ञानार्थं मनुष्याणां मनः पूर्व प्रवर्तते । तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ १॥ ततस्तदर्थं यतते कर्म चारभते महत् । इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ २॥ ततो रागः प्रभवति द्वेषश्च तदनन्तरम् । ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ ३॥ ततो लोभाभिभूतस्य रागद्वेषहतस्य च । न धर्मे जायते बुद्धिर्व्याजाद्धर्म करोति च ॥ ४॥ व्याजेन चरते धर्ममर्थं व्याजेन रोचते । व्याजेन सिद्धमानेषु धनेषु द्विजसत्तम ॥ ५॥ तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति । सुत्दृद्भिःर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥ ६॥ उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम् । अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥ ७॥ पापं चिन्तयते चैव बवीति च करोति च । तस्याधर्मप्रवृत्तस्य गुण नश्यन्ति साधवः ॥ ८॥ एकाशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः । सतेन दुःखमाप्नोति परत्र च विपद्यते ॥ ९॥ पापात्मा भवति ह्येवं धर्मलाभं तु मे श्रुणु । यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥ १०॥ कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते । तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते ॥ ११॥ इदं विश्वं जगत्सर्वमजय्यं चापि नित्यशः । महाभूतात्मकं ब्रह्म नातः परतरं भवेत् ॥ १२॥ ब्राह्मण उवाच - सत्त्वस्य रजसश्चैव तमसश्च यथातथम् । गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ १३॥ व्याध उवाच - हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । एषां गुणान् पृथक्त्वेन निबोध गदतो मम ॥ १४॥ मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् । प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥ १५॥ अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः । दुर्त्दृषीकस्ततोध्यस्तः सक्रोधस्तामसोऽलसः ॥ १६॥ प्रवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनसूयकः । विधित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ १७॥ प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः । अक्रोधनो नरो धीमान् दान्त्रश्चैव स सात्त्विकः ॥ १८॥ इति धर्मव्याधगीता समाप्ता ॥ Vana Parva of Mahabharata, Ch. 198-207 in BORI edn., and Ch. 207-216 in Kinjawadekar edn., though the latter only has the ending as brAhmaNa-vyAdha sa.nvAda