ब्रह्मगीता योगवासिष्ठान्तर्गता
Yoga Vasishtha - MokSha-Nirvana Uttarardha Brahmagita - Chs. 173-186 ॥ योगवासिष्ठान्तर्गता ब्रह्मगीता ॥ सर्ग-क्रमांक नाम श्लोकसंख्या १ - १७३ परमार्थोपदेशः ३४ २ - १७४ निर्वाणोपदेशः ३० ३ - १७५ अद्वैतयुक्तिः ७९ ४ - १७६ ब्रह्माण्डोपाख्यानम् २५ ५ - १७७ सत्यवर्णनम् ४४ ६ - १७८ ऐन्दवोपाख्यानम् ६४ ७ - १७९ ब्रह्ममयत्वप्रतिपादनम् २२ ८ - १८० तापसोपाख्यानम् ४१ ९ - १८१ गौर्याश्रमवर्णनम् ३९ १० - १८२ सप्तदीपेश्वर ५३ ११ - १८३ द्वीपसप्काष्टकवर्णनम् ७० १३ - १८५ कुन्ददन्तप्रबोधः २७ १४ - १८६ सर्वं खल्विदं ब्रह्मेति- ९० प्रतिपादनयोगोपदेशः ६१८ ॥ अथ प्रारभ्यते योगवासिष्ठान्तर्गता ब्रह्मगीता ॥ श्रीराम उवाच । सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् । अनंतस्यात्मतत्त्वस्य देहेऽपि किमहंग्रहः ॥ १॥ चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् । इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ॥ २॥ वसिष्ठ उवाच । शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः । सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ॥ ३॥ पादपस्थ यथा पत्रे पत्रतायां यथाग्रहः । सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ॥ ४॥ आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः । सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः॥ ५॥ स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः । सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ॥ ६॥ यथागेन्द्रे दृषद्दृक्षवार्यादौ स तथाग्रहः । तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ॥ ७॥ शरीरस्य यथा केशनखादिषु यथाग्रहः । सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ॥ ८॥ चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता । चिदाकाशस्य सर्गादौ तथैवावयवादिता ॥ ९॥ चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः । नखकेशजलाकाशधर्ममाकारभासुरम् ॥ १०॥ चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः । जंगमं स्थावरमयं किंतु नित्यमनाकृति ॥ ११॥ यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् । स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसंभ्रमः ॥ १२॥ चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता । इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ॥ १३॥ कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च । त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ॥ १४॥ करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः । चित्करोति तथा संज्ञाः सर्गाद्याश्चेतने निजे ॥ १५॥ यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा । तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ॥ १६॥ नाहं तरंगः सलिलमहमित्येव युक्तितः । बुद्धं येन तरंगेण कुतस्तस्य तरंगता ॥ १७॥ ब्रह्मणोऽस्य तरंगत्वमिवाभानं यतस्ततः । तरंगत्वातरंगत्वे ब्राह्म्यौ शक्ती स्थितिं गते ॥ १८॥ चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् । तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ॥ १९॥ एवमाद्यः प्रजानाथो निराकारो निरामयः । चिन्मात्ररूपसंकल्पपुरवत्कारणोज्झितः ॥ २०॥ येनांगदत्वं नास्तीति बुद्धं हेमांगदेन वै । अंगदत्वं कुतस्तस्य तस्य शुद्धेव हेमता ॥ २१॥ अजे संकल्पमात्रात्मचिन्मात्रव्योमदेहिनि । अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ॥ २२॥ चिच्चमत्कृतयो भान्ति याश्चिद्व्योमनि शून्यताः । एतास्ताः सर्गसंहारस्थितिसंरभसंविदः ॥ २३॥ अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् । स्वप्नाभं चित्ततामात्रं स एष प्रपितामहः ॥ २४॥ यथा तरंगस्तेनैव रूपेणान्येन वानिशम् । स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ॥ २५॥ चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् । भवेत्संकल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ॥ २६॥ सर्गः स्वप्नः स्वप्न एव जाग्रद्देहः स एव च । घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ॥ २७॥ तस्य कल्पान्तरजनी शिरोरुहतयोदिता । प्रकाशतमसी कालक्रियाख्याः स्वांगसंधयः ॥ २८॥ तस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । चंद्रार्कौ दृग्दिशौ श्रोत्रे कल्पनेति विजृम्भिता ॥ २९॥ एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः । अस्मत्संकल्पशैलाभो विराट् स्वप्नाकृतिस्थितः ॥ ३०॥ यच्च चेतच्चिदाकाशे स्वयं कचकचायते । तदेतज्जगदित्येवं तेनात्मैवानुभूयते ॥ ३१॥ विराडात्मैवमाकाशं भाति चिन्मयमाततम् । स्वभावस्वप्ननगरं नगनागमयात्मकम् ॥ ३२॥ अनुभवितैवानुभवं सत्यं स्वात्मानमप्यसन्तमिव । अनुभवतीयत्त्वेन स्वप्ननटः स्वप्नदेशमिव ॥ ३३॥ वेदान्तार्हतसांख्यसौगतगुरुत्र्यक्षादिसूक्तादृशो ब्रह्मैव स्फुरितं तथात्मकलयास्तादात्मनित्यं यतः । तेषां चात्मविदोऽनुरूपमखिलं स्वर्गं फलं तद्भव- त्यस्य ब्रह्मण ईदृगेव महिमा सर्वात्म यत्तद्वपुः ॥ ३४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थोपदेशो नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १७३॥ -१-॥ अथ द्वितीयोऽध्याः ॥ ॥ निर्वाणोपदेशः ॥ वसिष्ठ उवाच । सर्गादौ स्वप्नसंवित्या चिदेवाभाति केवला । जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम् ॥ १॥ सर्गास्तरंगा ब्रह्माब्धेस्तेषु संवेदनं द्रवः । सर्गान्तरं सुखाद्यात्म द्वैत्यैक्यादीतरत्कुतः ॥ २॥ यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् । दृश्यादृश्यांशमेकात्म रूपं चिन्नभस्तथा ॥ ३॥ जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् । परिज्ञातं भवेदत्र कथामास्था विवेकिनः ॥ ४॥ सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् । जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत् ॥ ५॥ जाग्रति स्वप्ननगरवासना विविधा यथा । सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा ॥ ६॥ अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् । तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा ॥ ७॥ स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव । कारणं त्वनुमासाध्यं क्वानुमानुभवाधिका ॥ ८॥ दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् । अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत् ॥ ९॥ निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः । ध्यानं तेन समाधानं न संभवति किंचन ॥ १०॥ सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति । मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः ॥ ११॥ न च नामोपलाभेन निर्विकल्पसमाधिना । अन्यदासाद्यते किंचिल्लभ्यते किं स्वनिद्रया ॥ १२॥ तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः । सर्गात्यन्तासंभवतो यो जीवन्मुक्ततोदयः ॥ १३॥ निर्विकल्पं समाधानं तदनन्तमिहोच्यते । यथास्थितमविक्षुब्धमासनं सर्वभासनम् ॥ १४॥ तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् । तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम् ॥ १५॥ सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् । दृश्यात्यन्तासंभवात्म बोधमाहुः परं पदम् ॥ १६॥ तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् । न निर्विकल्पं न च वा सविकल्पं न वाप्यसत् ॥ १७॥ दृश्यात्यन्तासंभवात्म तदेवाद्यं हि वेदनम् । तत्सर्वं तन्न किंचिच्च तद्वदेवांग वेत्ति तत् ॥ १८॥ सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् । यथास्थितमिदं विश्वं तत्रालंप्रलयं गतम् ॥ १९॥ न तत्र नानानाना न न च किंचिन्न किंचन । समस्तसद सद्भावसीमान्तः स उदाहृतः॥ २०॥ अत्यन्तासंभवं दृश्यं यद्वै निर्वाणमासितम् । शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम् ॥ २१॥ स च सम्प्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् । शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना ॥ २२॥ मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् । बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित् ॥ २३॥ न तीर्थेन न दानेन न स्नानेन न विद्यया । न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः ॥ २४॥ भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते । व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदंबरे ॥ २५॥ न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन । तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता ॥ २६॥ भ्रान्तिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् । आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः ॥ २७॥ आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति । अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी ॥ २८॥ सर्गसंहारसंस्थानां भासो भान्ति चिदंबरे । स्पन्दनानीव मरुति द्रवत्वानीव वारिणि ॥ २९॥ द्रव्यस्य हृद्येव चमत्कृतिर्निजा नभस्वतः स्पन्द इवानिशं यथा । यथा स्थिता सृष्टिरियं तथास्तिता लयं नभस्यन्तरनन्यरूपिणी ॥ ३०॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु निर्वाणोपदेशो नाम चतुःसप्तत्यधिकशततमः सर्गः ॥ १७४॥ -२-
॥ अथ तृतीयोऽध्यायः ॥ ॥ अद्वैतयुक्तिः ॥ वसिष्ठ उवाच । स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् । दृश्यान्यता संभवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥ १॥ सर्गादौ स्वप्नसंवित्तिरूपं सर्वं विनानघ । न सर्गो न परो लोको दृश्यमानोऽपि सिध्यति ॥ २॥ असदेवानुभूरित्थमेवेदं भासते जगत् । स्वप्नांगनासंग इव शान्तं चिद्व्योम केवलम् ॥ ३॥ एवं नामास्ति चिद्धातुरनादिनिधनोऽमलः । शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥ ४॥ मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् । कुतः किल परे व्योमन्यनादिनिधने मलः ॥ ५॥ यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् । जगत्तदेव सर्गादौ पृथ्व्यादेः संभवः कुतः ॥ ६॥ चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी । कृता पृथ्व्यादिकलता मनोबुद्ध्यादिता तथा ॥ ७॥ वार्यावर्त इअवाभाति पवनस्पंदवच्च यत् । अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥ ८॥ पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना । कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥ ९॥ स्वयमेव कचत्यच्छाच्छायेयं स्वा महाचितिः । सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥ १०॥ न च किंचन नामांग कचत्यच्छैव सा स्मृता । चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥ ११॥ चिदाकाशश्चिदाकाशे तदिदं स्वमल वपुः । चित्तं दृश्यमिवाभाति स्वप्ने तथा स्थितम् ॥ १२॥ अन्यथानुपपन्यार्थकारणाभावतः स्वतः । सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥ १३॥ स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते । तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥ १४॥ यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् । तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥ १५॥ स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते । नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥ १६॥ ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् । रूपमन्यजदेवाच्छं मनस्तामिव गच्छति ॥ १७॥ इदं सर्वं तनोतीव तच्च खात्मकमेव खम् । भवतीव जगद्रूपं विकारीवाविकार्यपि ॥ १८॥ मन एव स्वयं ब्रह्मा स सर्गम्य हृदि स्थितः । करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥ १९॥ पृथ्वादिरहितो यस्मिन्मनोहृद्यंगवर्जिते । अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥ २०॥ देहरूपजगद्रूपैरहमेकमनाकृति । मनस्तिष्ठाम्यनंतात्मबोधाबोधं पराभवम् ॥ २१॥ नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता । जगत्रया केवलं खं मनः कचकचायते ॥ २२॥ विचार्यदृष्ट्यैतदपि न किंचिदपि विद्यते । केवलं भाति चिन्मात्रमात्मनात्मनि निर्धनम् ॥ २३॥ यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते । व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥ २४॥ अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका । तूष्णींभूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥ २५॥ अबुद्धिपूर्वं द्रवतो यथावर्तादयोंऽभसि । क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥ २६॥ अबुद्धिपूर्वं वातेन क्रियते स्पंदनं यथा । अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥ २७॥ अनन्यदात्मनो वायोर्यथा स्पंदनमव्ययम् । अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥ २८॥ चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति । परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥ २९॥ ब्रह्मोन्मेषनिमेषात्म स्पंदास्पंदात्म वातवत् । निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥ ३०॥ दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् । एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात्॥ ३१॥ निमेषोन्मेषयोरेकरूपमेव परं मतम् । अतोऽस्ति दृश्यं नास्तीति सदसच्च सदाचितिः ॥ ३२॥ निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः । ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥ ३३॥ तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः । अजातमजरं व्योम सौम्यं समसमं जगत् ॥ ३४॥ चिदचित्यात्मकं व्योम रूपं कचकचायते । चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥ ३५॥ न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते । स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥ ३६॥ महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् । अनन्यान्येव भातापि भानुभास इवोष्णता ॥ ३७॥ सुषुप्तं स्वप्नवद्भाति ब्रह्मैव सर्गवत् । सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥ ३८॥ यद्यत्संवेद्यते यादृक्सद्वासद्वा यथा यदा । तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥ ३९॥ अन्यथानुपपत्या चेत्कारणं परिकल्प्यते । तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥ ४०॥ प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः । प्रमातीतमिदं चैव किंचिन्नाभ्युदितं ततः ॥ ४१॥ यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति । ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥ ४२॥ यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा । तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥ ४३॥ ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् । यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥ ४४॥ विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् । व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥ ४५॥ द्वित्वैकत्वादिकलना नेह काचन विद्यते । सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥ ४६॥ अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह । नैवास्ति न च नास्त्येव कर्ता भोक्ताथवा क्वचित् ॥ ४७॥ इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि । ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥ ४८॥ यदेव ब्रह्मबुद्ध्यादि तदेवैतन्निरंजनम् । यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥ ४९॥ केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः । द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥ ५०॥ तथा बुद्ध्यादि देहादि वेदनादि परापरे । अनेकान्यप्यनन्यानि शून्यत्वानि यथांबरे ॥ ५१॥ सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा । सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥ ५२॥ एवमेव कचत्यच्छा छायेयं स्वा महाचितेः । न च किंचन नामांग कचत्यच्छैवमास्थिता ॥ ५३॥ चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः । चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥ ५४॥ अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः । चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥ ५५॥ सर्गादावेव खात्मैव दृश्यं भाति निराकृति । संभ्रमः स्वप्नसंकल्पमिथ्याज्ञानेष्विवाभितः ॥ ५६॥ स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते । विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥ ५७॥ तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् । शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥ ५८॥ दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते । तस्माच्चिद्व्योम चिद्व्योम्नः शून्यत्वं गगनादिव ॥ ५९॥ यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् । तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥ ६० । स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते । पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥ ६१॥ स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा । न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥ ६२॥ तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः । तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥ ६३॥ यथा यत्रैव लहरी वारिण्येति पुनः पुनः । तत्रैवेति तथा तद्वदनन्या खे परे जगत् ॥ ६४॥ विधयः प्रतिषेधाश्च सर्व एव सदैव च । विभक्ताश्च विमिश्राश्च परे सन्ति न सन्ति च ॥ ६५॥ तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते । सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥ ६६॥ भ्रान्तस्य भ्रमणं भूमेर्न भूभ्रान्तैव वा गणैः । न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥ ६७॥ शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः । अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥ ६८॥ न जीवन्नमृतं चित्तं रोधमायाति संसृतेः । अविनाभाविदेहत्वाद्बोधात्त्वेतन्न पश्यति ॥ ६९॥ सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः । इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥ ७०॥ चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः । पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥ ७१॥ कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः । किंचित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥ ७२॥ अबुद्धमुत्तरग्रंथात्पूर्वं पूर्वं हि बुध्यते । ग्रंथं पदपदार्थज्ञः खेदवान्न निवर्तते ॥ ७३॥ उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये । अनन्यसाधारणतां गतमित्यनुभूयते ॥ ७४॥ तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् । भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥ ७५॥ आरुषेयमिदमिति प्रमादाच्चेन्न रोचते । तदन्यदात्मविज्ञानशास्त्रं किंचिद्विचारयेत् ॥ ७६॥ अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् । बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥ ७७॥ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । नीयते तद्वृथा येन प्रमादः सुमहानहो ॥ ७८॥ अनुभूतमपि च नो सदृश्यमिदं द्रष्टृसहितमपि । स्वप्ननिजमरणबांधवरोदनमिव सदिव कचितमपि ॥ ७९॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थगीतासु अद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥ १७५॥ -३-
॥ अथ पंचमोऽध्यायः ॥ ॥ सत्यवर्णनम् ॥ श्रीराम उवाच । अकारणकमेवेदं जगद्ब्रह्म परात्पदात् । यदि प्रवर्तते नाम स्वप्नसंकल्पनादिवत् ॥ १॥ तदकारणतः सिद्धेः संभवेऽन्यदकारणम् । कथं न जायते वस्तु क्वचित्किंचित्कदाचन ॥ २॥ वसिष्ठ उवाच । यद्यथा कल्पितं येन स सम्पश्यति तत्तथा । कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ॥ ३॥ यथेदं कल्पितं दृश्यं मनसा येन तत्तथा । वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ॥ ४॥ कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः । कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ॥ ५॥ अकारणपदार्थत्वं सकारणपदार्थता । ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ॥ ६॥ यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किंचित्कदाचन । तत्कारणविकल्पेन संयोगस्तस्य युज्यते ॥ ७॥ यत्र सर्वमनाद्यन्तं नानानानात्म भासते । ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ॥ ८॥ नेह प्रवर्तते किंचिन्न च नाम निवर्तते । स्थितमेकमनाद्यन्तं ब्रह्मैव ब्रह्म खात्मकम् ॥ ९॥ किं कस्य कारणं केन किमर्थं भवतु क्व वा । किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ॥ १०॥ नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता । विद्यते न महाशून्ये न नेति न न नेति च ॥ ११॥ इदं न किंचित्किंचिद्वा यन्नामास्त्यथ नास्ति वा । सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ॥ १२॥ श्रीराम उवाच । अतज्ञविषये ब्रह्मन्कार्ये कारणसंभवे । किमकारणतात्म स्यात्कथं वेति वद प्रभो ॥ १३॥ वसिष्ठ उवाच । अतज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति । असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ॥ १४॥ एकबोधमयाः शान्तविज्ञानघनरूपिणः । तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ॥ १५॥ अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदंगता । गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम् ॥ १६॥ तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते । प्रयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ॥ १७॥ सन्त्यकारणका एव सन्ति कारणजास्तथा । भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ॥ १८॥ सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् । सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥ १९॥ हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते । यदत्र किंचिदुःस्वादु व्यर्थं वाग्जालमेव तत् ॥ २०॥ अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते । स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥ २१॥ स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् । चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ॥ २२॥ स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः । परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥ २३॥ शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् । कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता ॥ २४॥ अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् । स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥ २५॥ किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् । किं च गंधर्वनगरे पुरे भित्तिषु कारणम् ॥ २६॥ धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् । देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥ २७॥ भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः । किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥ २८॥ स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि । यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पता ॥ २९॥ तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् । अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥ ३०॥ यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः । न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥ ३१॥ सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् । स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥ ३२॥ अन्या न काचित्कलना दृश्यते सोपपत्तिका । अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥ ३३॥ ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा । तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥ ३४॥ स्पन्दावर्तविवर्तादि निर्मले पवने यथा । तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥ ३५॥ यथानन्तत्वसौषिर्यशून्यत्वादि महांबरे । स सन्नासन्नबोधात्म तथा सर्गः परापरः ॥ ३६॥ एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् । भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥ ३७॥ सर्गप्रलयसंस्थानान्येवमात्मनि चिद्घने । सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥ ३८॥ स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा । सर्गात्सर्गान्तराण्यास्ते स्वसत्तायामजस्तथा ॥ ३९॥ पृथ्वादिरहितोऽप्येष ब्रह्माकाशो निरामयः । अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥ ४०॥ स्थिता यथास्यां पश्यन्तां शब्दा घटपटादयः । जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥ ४१॥ पश्यन्तामेव पश्यन्ती यथा भाति तथैव च । यथा शब्दास्तथा सर्गाश्चितैव चितिचिन्मयः ॥ ४२॥ किं शास्त्रकं तत्र कथाविचारै- र्निर्वासनं जीवितमेव मोक्षः । सर्गे त्वसत्येवप्रकारणत्वा- त्सत्येव नास्त्येव न नाम काचित् ॥ ४३॥ एषा च सिद्धेह हि वासनेति सा बोधसत्तैव निरन्तरैका । नानात्वनानारहितैव भाति स्वप्ने चिदेवेह पुरादिरूपा ॥ ४४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु सत्यवर्णनं नाम सप्तसप्तत्यधिकशततमः सर्गः ॥ १७७॥ -५-
॥ अथ षष्ठः सर्गः ॥ ॥ ऐन्दवोपाख्यानम् ॥ श्रीराम उवाच । पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये । यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ॥ १॥ तानिहाप्रतिघानाढुर्नान्योन्यं वेल्लयन्ति ये । तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ॥ २॥ इह सप्रतिघानं तु दृष्टमन्योन्यवेल्लनम् । नत्वप्रतिघरूपाणां केषांचिदपि किंचन ॥ ३॥ तत्र संवेदनं नाम यदिदं चंद्रमण्डले । इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ॥ ४॥ अर्धप्रबुद्धसंकल्पविकल्पाद्वैतकल्पितम् । वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ॥ ५॥ कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः । प्रवेशनिर्गमभयं कथं वा वद मे प्रभो ॥ ६॥ कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् । इमं देहं चालयति भारं भारहरो यथा ॥ ७॥ यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् । कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ॥ ८॥ वसिष्ठ उवाच । विकासमथ संकोचमत्र नाली हृदि स्थिता । यदा याति तदा प्राणश्च्छेदैरायाति याति च ॥ ९॥ बाह्योपस्करभस्रायां यथाकाशास्पदात्मकः । वायुर्यात्यपि चायाति तथात्र स्पंदनं हृदि ॥ १०॥ श्रीराम उवाच । बहिर्भस्रामयस्कारः संकोचनविकासनैः । योजयत्यान्तरं नाडीं कश्चालयति चालकः ॥ ११॥ शतं कथं भवेदेकं कथमेकं शतं भवेत् । कथं सचेतना एते काष्ठलोष्टूपलादयः॥ १२॥ कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् । वस्तु जंगममेवेह स्पन्दिमात्रेव किं वद ॥ १३॥ वसिष्ठ उवाच । अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् । बहिर्भस्रामयस्कार इव लोकेऽनुचेष्टनम् ॥ १४॥ श्रीराम उवाच । वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने । कथमप्रतिघा संविच्चालयेदिति मे वद ॥ १५॥ संविदप्रतिघाकारा यदि सप्रतिघात्मकम् । चालयेदचलिप्यत्तददूरमम्भो यदिच्छया ॥ १६॥ सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः । वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ॥ १७॥ सप्रतिघाप्रतिघयोः शेषो नास्ति बहिर्यथा । तथैवान्तरहं मन्ये शेषं कथय मे मुने ॥ १८॥ अन्तःस्वयं योगिना वा यथैतदनुभूयते । अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ॥ १९॥ वसिष्ठ उवाच । सर्वसंदेहवृक्षाणां मूलकाषमिदं वचः । सर्वैकतानुभूत्यर्थं शृणु श्रवणभूषणम् ॥ २०॥ नेह किंचिन्न नामास्ति वस्तु सप्रतिघं क्वचित् । सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ॥ २१॥ शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् । पदार्थजातं पृथ्व्यादि स्वप्नसंकल्पयोरिव ॥ २२॥ आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् । भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ॥ २३॥ द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः । महता कारणौघेन बोधमप्रतिघं विदुः ॥ २४॥ अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा । सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ॥ २५॥ तत्रैवमैन्दवाख्यानं शृणु श्रवणभूषणम् । मया च पूर्वमुक्तं तत्किंचान्यदभिवर्ण्यते ॥ २६॥ तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु । यथेदं सर्वमद्र्यादि चिदित्येव तु भोत्स्यते ॥ २७ । कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः । तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ॥ २८॥ दश तस्याभवन्पुत्रा जगतो दिक्तटा इव । महाशया महात्मानो महतामास्पदां सतां ॥ २९॥ स तेषां कालवशतः पितान्तर्धिमुपाययौ । दशानां भगवान्रुद्र एकादश इव क्षये ॥ ३०॥ तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः । अनुरक्ता दिनस्येव संध्या ताराविलोचना ॥ ३१॥ तयोस्ते तनया दुःखकलिता विपिनं गताः । कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ॥ ३२॥ धारणानां समस्तानां का स्यादुत्तमसिद्धिदा । धारणा यन्मयाः सन्तः स्यामः सर्वेश्वरा वयम् ॥ ३३॥ इति ते तत्र संचिन्त्य बद्धपद्मासना दश । इदं संचिन्तयामासुर्निर्विघ्ने कंदरोदरे ॥ ३४॥ पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः । भवाम पद्मजोपेतं जगद्रूपमविघ्नतः ॥ ३५॥ इति संचिन्त्य सब्रह्म जगद्धारणया चिरम् । निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ॥ ३६॥ अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः । आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ॥ ३७॥ शुष्काः कंकालतां याताः क्रव्यादैश्चर्वितांगकाः । नाशमभ्याययुस्तत्र छायाभागा इअवातपैः ॥ ३८॥ अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः । इति सम्पश्यतां तेषां दीर्घकालोऽभ्यवर्तत ॥ ३९॥ तानि चित्तान्यदेहानि दशैकध्यानतस्ततः । सम्पन्नानि जगन्त्येव दश देहानि वै पृथक् ॥ ४०॥ इति तेषां चिदिच्छासासम्पन्ना सकलं जगत् । अत्यंतस्वच्छरूपैव स्थिता चाकारवर्जिता ॥ ४१॥ संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् । सर्वं चिदात्मकं विद्धि नो चेदन्यत्किमुच्यताम् ॥ ४२॥ किलयत्त्रिजगज्जालं तेषां किमात्मतत्तथा । संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ॥ ४३॥ विद्यते न यथा किंचित्तरंगः सलिलादृते । संवित्तत्वादृते तद्वद्विद्यते चलनादिकम् ॥ ४४॥ ऐंदवानि यथैतानि चिन्मयानि जगन्ति खे । तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ॥ ४५॥ यथैवैंदवसंकल्पास्ते जगत्त्वमुपागताः । तथैवाब्जजसंकल्पो जगत्त्वमयमागतः ॥ ४६॥ तस्मादिहेमे गिरयो वसुधापादपा घनाः । महाभूतानि सर्वं च चिन्मात्रमयमाततम् ॥ ४७॥ चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः । नाचित्क्वचित्संभवति तेष्वैंदवजगत्स्विव ॥ ४८॥ चिन्मात्रखकुलालेन स्वदेहचलचक्रके । स्वशरीरमृदा सर्गः कुतोऽयं क्रियतेऽनिशम् ॥ ४९॥ संकल्पनिर्मिते सर्गे दृषदश्चेन्नचेतनाः । तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ॥ ५०॥ कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे । प्राङ्मृष्टं कल्पनादीनामन्यैवार्थकलावताम् ॥ ५१॥ तद्धामसंविदो नाम्नि मणिराशौ मणिर्यथा । सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ॥ ५२॥ अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् । स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ॥ ५३॥ यथाप्रवृत्तं चिद्वारि वहत्यावर्ततेव नौ । स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ॥ ५४॥ पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् । चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ॥ ५५॥ अजात्मानिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् । शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ॥ ५६॥ यत्संविन्मयमद्र्यादिसंकल्पं जगति स्थितम् । तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ॥ ५७॥ जगन्त्यात्मेव संकल्पमयान्येतानि वेत्ति खे । खात्मकानि तथेदं च ब्रह्म संकल्पजं जगत् ॥ ५८॥ यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते । तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ॥ ५९॥ यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता । तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ॥ ६०॥ दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् । संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ॥ ६१॥ नेहाकृतिर्न च भवाभवजन्मनाशाः सत्ता न चैव न च नाम तथास्त्यसत्ता । शान्तं परं कचति केवलमात्मनीत्थं ब्रह्माथवा कचनमप्यलमत्र नास्ति ॥ ६२॥ आद्यन्तवर्जितमलभ्यलताग्रमूल- निर्माणमूलपरिवेशमशेषमच्छम् । अन्तस्थनिर्गगनसर्गकपुत्रकौघं नित्यं स्थितं ननु घनं गतजन्मनाशम् ॥ ६३॥ सन्मात्रमन्तरहिताखिलहस्तजातं पर्यन्तहीनगणनाङ्गममुक्तरूपम् । आत्माम्बरात्मकमहं त्विदमेव सर्वं सुस्तम्भरूपमजमौनमलं विकल्पैः ॥ ६४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ऐन्दवो नामाष्टसप्तत्यधिकशततमः सर्गः ॥ १७८॥ -६-
॥ अथ सप्तमः सर्गः ॥ ॥ ब्रह्ममयत्वप्रतिपादनम् ॥ वसिष्ठ उवाच । एवं चिन्मात्रमेवैकं शुद्धं सत्त्वं जगत्त्रयम् । संभवन्तीह भूतानि नाज्ञबुद्धानि कानिचित् ॥ १॥ तस्मात्कुतः शरीरादि वस्तु सप्रतिघं कुतः । यदिदं दृश्यते किंचित्तदप्रतिघमाततम् ॥ २॥ स्थितं चिद्व्योम चिद्व्योम्नि शान्ते शान्तं समं स्थितम् । स्थितमाकाशमाकाशे ज्ञप्तिर्ज्ञप्तौ विजृम्भते ॥ ३॥ सर्वं संविन्मयं शान्तं सत्स्वप्नं इव जाग्रति । स्थितमप्रतिघाकारं क्वासौ सप्रतिघां स्थितिः ॥ ४॥ क्व देह अवयवाः क्वान्त्रवेष्टनी क्वास्थिपंजरम् । व्योमेवाप्रतिघं विद्धि देहं सप्रतिघोषमम् ॥ ५॥ संवित्करौ शिरः संवित्संविदिन्द्रियवृन्दकम् । शान्तमप्रतिघं सर्वं न सप्रतिघमस्ति हि ॥ ६॥ ब्रह्मव्योम्नः स्वप्नरूपस्वभावत्वाज्जगत्स्थितेः । इदं सर्वं संभवति सहेतुकमहेतुकम् ॥ ७॥ न कारणं विना कार्यं भवतीत्युपपद्यते । यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ ८॥ कारणेन विना कार्यं सद्वदित्युपपद्यते । यथा भावितमेवार्थं संविदाप्नोत्यसंशयम् ॥ ९॥ यथा संभवति स्वप्ने सर्वं सर्वत्र सर्वथा । चिन्मयत्वात्तथा जाग्रत्यस्ति सर्वात्मरूपता ॥ १०॥ सर्वात्मनि ब्रह्मपदे नानानात्मनि स्थिता । अस्त्यकारणकार्याणां सत्ता कारणजापि च ॥ ११॥ एकः सहस्रं भवति यथा ह्येते किलैन्दवाः । प्रयाता भूतलक्षत्वं संकल्पजगतां गणैः ॥ १२॥ सहस्रमेकं भवति संविदां च तथा हि यत् । सायुज्ये चक्रपाण्यादेः सर्गैरेकं भवेद्वपुः ॥ १३॥ एक एक भवत्यब्धिः स्रवन्तीनां शतैरपि । एक एक भवेत्काल ऋतुसंवत्सरोत्करैः ॥ १४॥ संविदाकाश एवायं देहः स्वप्न इवोदितः । स्वप्नाद्रिवन्निराकारः स्वानुभूतिस्फुटोऽपि च ॥ १५॥ संवित्तिरेवानुभवात्सैवाननुभवात्मिका । द्रष्टृदृश्यदृशा भाति चिद्व्योमैकमतो जगत् ॥ १६॥ वेदनावेदनात्मैकं निद्रास्वप्नसुषुप्तवत् । वातस्पन्दाविवाभिन्नौ चिद्व्योमैकमतो जगत् ॥ १७॥ द्रष्टा दृश्यं दर्शनं च चिद्भान परमार्थखम् । शून्यस्वप्न इवाभाति चिद्व्योमैकमतो जगत् ॥ १८॥ जगत्त्वमसदेवेशे भ्रान्त्या प्रथमसर्गतः । स्वप्ने भयमिवाशेषं परिज्ञात प्रशाम्यति ॥ १९॥ एकस्याः संविदः स्वप्ने यथा भानमनेकधा । नानापदार्थरूपेण सर्गादौ गगने तथा ॥ २०॥ बहुदीपे गृहे च्छाया बह्व्यो भान्त्येकवद्यथा । सर्वशक्तेस्तथैवैका भाति शक्तिरनेकधा ॥ २१॥ यत्सीकरस्फुरणमम्बुनिधौ शिवाख्य व्योम्नीव वृक्षनिकरस्फुरणं स सर्गः । व्योम्नेष वृक्षनिकरो व्यतिरिक्तरूपो ब्रह्माम्बुधौ न तु मनागपि सर्गबिन्दुः ॥ २२॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ब्रह्ममयत्वप्रतिपादनं नामैकोनाशीत्यधिकशततमः सर्गः ॥ १७९॥ -७-
॥ अथ अष्टमोऽध्यायः ॥ ॥ तापसोपाख्यानम् ॥ श्रीराम उवाच । इमं मे संशयं छिन्धि भगवन्भास्करं तमः । भुवनस्येव भावानां सम्यग्रूपानुभूतये ॥ १॥ कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् । संसदि स्थितवान्यावत्तापसः कश्चिदागतः ॥ २॥ विद्वान् द्विजवरः श्रीमान्विदेहजनमण्डलात् । महातपाः कान्तियुतो दुर्वासा इव दुःसहः ॥ ३॥ स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् । उपविश्यासने तिष्ठन्नस्माभिरभिवादितः ॥ ४॥ वेदान्तसांख्यसिद्धान्तवादान्संहृत्य सत्तमम् । सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम् ॥ ५॥ दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे । वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम् ॥ ६॥ ब्राह्मण उवाच । एवमेतन्महाभाग सुमहायत्नवानहम् । यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम् ॥ ७॥ वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः । स्वर्गस्यास्वरसंस्थस्य प्रतिबिम्बमिवावनौ ॥ ८॥ तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः । कुन्दावदादन्तत्वात्कुन्ददन्त इति श्रुतः ॥ ९॥ अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् । देवद्विजमुनीन्द्राणां संभ्रमाच्छमशान्तये ॥ १०॥ श्रीपर्वतमखण्डेऽहं कदाचित्प्राप्तवानहम् । तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन् ॥ ११॥ तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः । त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम् ॥ १२॥ तत्रास्ति मध्ये विटपि लघुः पेलवपल्लवः । स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान् ॥ १३॥ लम्बते तस्य शाखायां पुरुषः पावनाकृतिः । भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः ॥ १४॥ मौञ्जदामनि बद्धोर्ध्वपादो नित्यमवाक्षिराः । अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः ॥ १५॥ दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् । विचारितो निकटतो वक्षःस्थाञ्जलिसम्पुटः ॥ १६॥ यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः । शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान् ॥ १७॥ अनन्तरमसावेको नोपचर्यमया बहून् । दिवसातपखेदेन विश्रम्भे पातितः शनैः ॥ १८॥ पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः । करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः ॥ १९॥ अथ तेनोक्तमर्थस्ते क इवानेन तापस । अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम् ॥ २०॥ इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया । यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ २१॥ मथुरायामहं जातो वृद्धिं यातः पितुर्गृहे । बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ २२॥ समग्रसुखसंभारकोशो भवति भूमिपः । इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ २३॥ अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः । स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ २४॥ इत्यर्थेन समागत्य देशमित्थमहं स्थितः । अत्र द्वादशवर्षाणि समतीतानि मानद ॥ २५॥ तदकारणमित्रत्वं गच्छेष्टं देशमाशुगः । अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ २६॥ इति तेनेहमुक्तः संस्तमिच्छं प्रोक्तवाञ्छृणु । आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ २७॥ साधो यावत्तया प्राप्तो न नामाभिमतो वरः । त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ २८॥ मयेत्युक्ते स पाषाण मौनवानभमच्छमी । निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ २९॥ तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् । षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ ३०॥ अर्कबिम्बाद्विनिष्क्रम्य तत्प्रदेशान्तरे स्थितम् । एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ ३१॥ स तेन पूज्यते यावन्मनसा कर्मणा मया । उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥ ३२॥ शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस । तपः संहर संहारी गृहाणाभिमतं वरम् ॥ ३३॥ सप्ताब्धिद्वीपवलयां पालयिष्यसि मेदिनीम् । सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ ३४॥ एवं समीहितं दत्वा स द्वितीयो दिवाकरः । गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ ३५॥ तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः । श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ ३६॥ सम्प्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् । तपस्त्यक्त्वा यथा प्राप्तं व्यवहारं समाचर ॥ ३७॥ एवमङ्गीकृतवतः पादौ तस्य मया ततः । मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ ३८॥ स्वातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् । फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ ३९॥ तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः । समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम् ॥ ४०॥ सप्तद्वीपसमुद्रमुद्रितदिशं भोक्तुं समग्रां महीं विप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः । सम्प्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं सार्धं मत्सुहृदा स्वमेव सदनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ताप्सोपाख्यानं नामाशीत्यधिकशततमः सर्गः ॥ १८०॥ -८-
॥ अथ नवमोऽध्यायः ॥ ॥ गौर्याश्रमवर्णनम् ॥ कुन्ददन्त उवाच । आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती । मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव ॥ १॥ प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले । उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम् ॥ २॥ अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः । द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः ॥ ३॥ नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः । तरत्तरङ्गझांकारगायनानन्दिताध्वगाः ॥ ४॥ स्निग्धद्रुमवनच्छायरणन्मृगविहंगमाः । स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः ॥ ५ । जंगलाद्रिपुरग्रामश्वभ्राभूपस्थलावनीः । समुल्लंघ्य दिने तस्मिन्सरित्स्रोतः सरांसि च ॥ ६॥ नीतवन्तौ निशामावां कदलीकानने घने । तुषारशिशिरे श्रान्तौ कदलीदलतल्पके ॥ ७॥ प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् । जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम् ॥ ८॥ तत्र स प्रकृतं मार्गं परित्यज्य वनान्तरम् । प्रविशन्समुवाचेदमकार्यकरणं वचः ॥ ९॥ गच्छावोऽत्राश्रमे गौर्या मुनिमण्डलमण्डिते । भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः ॥ १०॥ भ्रातरोष्टौ वयमिमे जातानेकतया तया । एकसंविन्मया जाता एकसंकल्पनिश्चयाः ॥ ११॥ तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः । स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः ॥ १२॥ तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् । षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः ॥ १३॥ पुष्पखण्ड तरुच्छाया सुप्तमुग्धमृगार्भकः । पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक् ॥ १४॥ तद्ब्रह्मलोकसंकाशमेहि मुन्याश्रमं श्रिये । गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति ॥ १५॥ विदुषामपि धीराणामपि तत्त्वविदामपि । त्वरते हि मनः पुंसामलंबुद्धिविलोकने ॥ १६॥ तेनेत्युक्ते च तावावां प्राप्तौ मुन्याश्रमं च तम् । यावत्तत्र महारण्ये पश्यावश्चान्तरूपिणम् ॥ १७॥ न वृक्षं नोटजं किंचिन्न गुल्मं न च मानवम् । न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम् ॥ १८॥ केवलं शून्यमेवाति तदरण्यमनन्तकम् । तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम् ॥ १९॥ हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ । आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः ॥ २०॥ स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः । तले तस्य समाधाने संस्थितो वृद्धतापसः ॥ २१॥ आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले । उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तते ॥ २२॥ ततश्चिरेण कालेन मयोद्वेगेन चापलात् । उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः ॥ २३॥ शब्देनोच्चैर्मदीयेन सम्प्रबुद्धोऽभवन्मुनिः । सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च ॥ २४॥ कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः । केन वाहमिहानीतः कालोऽयं कश्च वर्तते ॥ २५॥ तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् । न किंचिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम् ॥ २६॥ इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् । ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा ॥ २७॥ मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः । श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ ॥ २८॥ यमिमं पश्यथः साधू कदम्बतरुपुत्रकम् । मदास्पदमरण्यान्याधम्मिल्लमिव पुष्पितम् ॥ २९॥ केनापि कारणेनास्मिन्सती वागीश्वरी सती । अवसद्दशवर्षाणि समस्तर्तुनिषेविता ॥ ३०॥ तदा तेनेहविस्तीर्णमभवद्घनकाननम् । गौरिवनमिति ख्यातं भूषितं कुसुमर्तुभिः ॥ ३१॥ भृङ्गाङ्गनाजनमनोहरहारिगीत- लीलाविलोलकलकण्ठविहंगमङ्ग । पुष्पाम्बुवाहशतचन्द्रनभोवितानं राजीवरेणुकणकीर्णदिगन्तरालम् ॥ ३२॥ मन्दारकुन्दमकरन्दसुगन्धिताशं संसूच्छ्वसत्कुसुमराशिशशाङ्कनिष्ठम् । संतानकस्तबकहासविकासकान्त- मामोदिमारुतसमस्तलताङ्गनौघम् ॥ ३३॥ पुष्काकरस्य नगरं नवगीतभृङ्गं भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् । चन्द्रांशुजालपरिकोमलपुष्पदोला- दोलायमानसुरसिद्धवधूसमूहम् ॥ ३४॥ हारीतहंसशुककोकिलकोककाक- चक्राह्वभासकलविङ्ककुलाकुलाङ्गम् । मेरुण्डकुक्कुटकपिञ्जलहेमचूड- राढामयूरबककल्पितकेलिरम्यम् ॥ ३५॥ गन्धर्वयक्षसुरसिद्धकिरीटघृष्ट- पादाब्जकर्णिककदम्बसरस्वतीकम् । वातायनं कनककोमलचम्पकौघ- ताराम्बराम्बुधरपूरगृहीतगन्धम् ॥ ३६॥ मन्दानिलस्खलितपल्लवबालवल्ली- विन्यासगुप्तदिवसाधिपरश्मिशीतम् । पीतं कदम्बकरवीरकनालिकेर- तालीतमालकुलपुष्पपरागपूरैः ॥ ३७॥ कह्वारकीर्णकुमुदोत्पलपद्मखण्ड- वल्गच्चकोरबककोककदम्बहंसम् । तालीसगुग्गुलकचन्दनपारिभद्र- भद्रद्रुमोदविहारिविचित्रशक्ति ॥ ३८॥ तस्मिन्वने चिरमुवास हरार्धदेहा केनापि कारणवशेन चिराय गौरी । भूत्वा प्रसन्नशशिबिम्बमुखी कदम्ब- वागीश्वरी शशिकलेव शिवस्य मूर्ध्नि ॥ ३९॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्याने गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः सर्गः ॥ १८१॥ -९-
॥ अथ दशमोऽध्यायः ॥ ॥ सप्तदीपेश्वर ॥ वृद्धतापस उवाच । तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश । स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम् ॥ १॥ तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः । उत्सङ्ग इव चासीनो न यात्येव पुराणताम् ॥ २॥ ततो गौर्या प्रयातायां तद्वनं तादृशं महत् । सामान्यवनतां यातं जनवृन्दोपजीवितम् ॥ ३॥ मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः । कदाचित्त्यक्तराज्य श्रीर्मुनीनामाश्रमान्भ्रमन् ॥ ४॥ इमं देशमनुप्राप्त इह चाश्रमवासिभिः । पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः ॥ ५॥ केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह । भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम् ॥ ६॥ तपस्विनोऽष्टाविह ते तथा नाम तदावसन् । यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः ॥ ७॥ कालेनान्तरमसावेकः श्रीपर्वतं गतः । स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः ॥ ८॥ वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् । इहैव ते परे धीराश्चत्वारोऽन्ये परं तपन् ॥ ९॥ सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् । यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः ॥ १०॥ अथ सम्पादितं तेषां सर्वेषामेतदीप्सितम् । तपस्तुष्टाभिरिष्टभिर्देवताभिर्वरैः ॥ ११॥ तपतस्ते ततो याता भ्रातरः सदनं निजम् । भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव ॥ १२॥ तद्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा । इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः ॥ १३॥ देव्यस्माकमिमे सर्वे सप्तद्वीपेश्वरौ स्थितौ । सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः ॥ १४॥ तमिष्टदेवतासार्थमुररीकृत्य सादरम् । तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी ॥ १५॥ ते ततः सदनं यातास्तेषामाश्रमवासिनः । सर्व एव गताः पश्चादेक एवास्मि नो गतः ॥ १६॥ अहं केवलमेकान्ते ध्यानैकगतमानसः । वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत् ॥ १७॥ अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि । इअदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः ॥ १८॥ इदं कदम्बमम्लानं जनताः पूजयन्त्यलम् । वागीश्वरीगृहमिति मां चैवैकसमाधिगम् ॥ १९॥ अथैनं देशमायातौ भवन्तौ दीर्घतापसौ । एतत्त्वत्कथितं सर्वं ध्यानदृष्टं मयाखिलम् ॥ २०॥ तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ । तत्र ते भ्रातरः सर्वे संगता दारबन्धुभिः ॥ २१॥ अष्टानां भवतां भव्यं सदने स्वे भविष्यति । महात्मनां ब्रह्मलोके वसूनामिव संगमः ॥ २२॥ इत्युक्ते तेन स मया पृष्टः परमतापसः । संदेहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम् ॥ २३॥ एकैव सप्तद्वीपास्ति भगवन्भूरियं किल । तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम् ॥ २४॥ कदम्बतापस उवाच । असमंजसमेतावदेव नो यावदुच्यते । इदमन्यदसंबद्धतरं संश्रूयतां मम ॥ २५॥ एतेऽष्टौ भ्रातरस्तत्र तापसा देहसंक्षये । सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे ॥ २६॥ अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु । सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे शृणु ॥ २७॥ अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् । दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम् ॥ २८॥ तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् । बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः ॥ २९॥ दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः । शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती ॥ ३०॥ अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे । देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी ॥ ३१॥ देव्युवाच । भर्त्रर्थमथ चात्मार्थं गृह्यतां बालिके वरः । चिरं क्लिष्टासि तपसा निदाघेनैव मंजरी ॥ ३२॥ इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरंटिका । स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम् ॥ ३३॥ आनन्दमन्थरोवाच वचनं मृदुभाषिणी । आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम् ॥ ३४॥ चिरंटिकोवाच । देवि देवाधिदेवेन यथ ते प्रेमशंभुना । भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः ॥ ३५॥ देव्युवाच । आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते । तपोदानैरतोऽन्यत्वं वरं वरय सुव्रते ॥ ३६॥ चिरंटिकोवाच । अलभ्यमेतन्मे देवि तन्मद्भर्तृर्गृहान्तरात् । मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात् ॥ ३७॥ देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे । तदेतदस्त्विति वरू दीयतामम्बिके मम ॥ ३८॥ देव्युवाच । एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते । भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥ ३९॥ इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे । मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥ ४०॥ देव्यां गतायां भर्तारस्तासां कालेन केनचित् । ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥ ४१॥ अद्यायमपि संयातु भार्याया निकटं पतिः । भ्रातृणां बान्धवानां च भवत्वन्योन्यसंगमः ॥ ४२॥ इदमन्यदथैतेषामसमंजसमाकुलम् । शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥ ४३॥ तप्यतां तप एतेषां पितरौ तौ वधू युतौ । तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥ ४४॥ शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया । गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥ ४५॥ तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् । पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥ ४६॥ धूलीलवमनादृत्य तं जरत्पान्थशंकया । यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥ ४७॥ सवधूक महामूर्ख तीर्थार्थी दारसंयुतः । मां दुर्वाससमुल्लंघ्य गच्छस्यविहितानतिः ॥ ४८॥ वधूनां ते सुतानां च गच्छतस्तपसार्जिताः । विपरीता भविष्यन्ति लब्धा अपि महावराः ॥ ४९॥ इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः । सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययौ ॥ ५०॥ अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ । कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥ ५१॥ अतो वदाम्यहं तेषां नैकं नामासमंजसम् । असमंजसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥ ५२॥ चिद्व्योमसंकल्पमहापुएरेस्मि- न्नित्थं विचित्राण्यसमंजसानि । निःशून्यरूपेऽपि हि संभवन्ति दृश्ये यथा व्योमनि दृश्यजृम्भाः ॥ ५३॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गतसप्तद्वीपेश्वरो सप्तद्वीपेश्वर नाम व्यशीत्यधिकशततमः सर्गः ॥ १८२॥ -१०-
॥ अथ एकादशोऽध्यायः ॥ ॥द्वीपसप्तकाष्टकवर्णनम् ॥ कुन्ददन्त उवाच । ततः पृष्टो मया तत्र स गौर्याश्रमतापसः । तापसंशुष्कदर्भाग्रजराजर्जरमूर्धजः ॥ १॥ एकैव सप्तद्वीपास्ति वसुधा यत्र तत्र ते । सप्तद्वीपेश्वरा अष्टौ भवन्ति कथमुत्तमाः ॥ २॥ यस्य जीवस्य सदनान्नास्ति निर्गमनं बहिः । स करोति कथं सप्तद्वीपेशत्वेन दिग्जयम् ॥ ३॥ यैर्वरा वरदैर्दत्ताः शापैस्ते तद्विरुद्धताम् । कथं गच्छन्ति गच्छन्ति कथं छाया हि तापताम् ॥ ४॥ मिथोऽशक्यां कथं धर्मौ स्थितिमेकत्र गच्छतः । आधार एवाधेयत्वं करोति कथमात्मनि ॥ ५॥ गौर्याश्रमतापस उवाच । सम्पश्यसि किमेतेषां भो साधो शृण्वनन्तरम् । अष्टमेऽस्मिन्सुसम्प्राप्ते तं प्रदेशं सबान्धवम् ॥ ६॥ इतो भवन्तौ तं देशमासाद्य सुखसंस्थितौ । स्वबन्धुसुखसंस्थानौ कंचित्कालं भविष्यतः ॥ ७॥ ततस्तेऽष्टौ मरिष्यन्ति भ्रातरः क्रमशो गृहे । बान्धवोऽथ करिष्यन्ति तेषां देहांस्तदग्निसात् ॥ ८॥ तेषां ते संविदाकाशः पृथक्पृथगवस्थिताः । मुहूर्तमात्रं स्थास्यन्ति सुषुप्तस्था जडा इव ॥ ९॥ एतस्मिन्नन्तरे तेषां तानि कर्माणि धर्मतः । एकत्र संघटिष्यन्ति वरशापात्मकानि खे ॥ १०॥ कर्माणि तान्यधिष्ठातृदेवरूपाणि पेटकम् । वरशापशरीराणि करिष्यन्ति पृथक् पृथक् ॥ ११॥ वरास्तेऽत्र गमिष्यन्ति सुभगाः पद्मपाणयः । ब्रह्मदण्डायुधाश्चन्द्रधवलाङ्गाश्चतुर्भुजाः ॥ १२॥ शापास्तत्र भविष्यन्ति त्रिनेत्राः शूलपाणयः । भीषणाः कृष्णमेघाभा द्विभुजा भ्रुकुटीमुखाः ॥ १३॥ वरा वदिष्यन्ति सुदूरं गम्यतां शापाः कालोऽस्माकमुपागतः । ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १४॥ शापा वदिष्यन्ति गम्यतां हे वरा दूरं कालोऽस्माकमुपागतः । ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १५॥ वरा वदिष्यन्ति कृता भवन्तो मुनिना वयं दिनकृता कृताः । मुनीनां चाधिको देवो भगवन्तं पुरा यतः ॥ १६॥ प्रवदत्सु वरेष्वेवं शापाः क्रुद्धधियो वरान् । विवस्वता कृता यूयं वयं रुद्रांशतः कृताः ॥ १७॥ देवानामधिको रुद्रो रुद्रांशप्रभवो मुनिः । इत्युक्त्वा प्रोद्यता तेषां चक्रुःश्रुङ्गाण्यगा इव ॥ १८॥ अशापेषूद्यतशृङ्गेषु वरा इदमरातिषु । विहसन्तः प्रवक्ष्यन्ति प्रमेयीकृतनिश्चयम् ॥ १९॥ हे शापाः पापतां त्यक्त्वा कार्यस्यान्तो विचार्यताम् । यत्कार्यं कलहस्यान्ते तदेवादौ विचार्यताम् ॥ २०॥ पितामहपुरीं गत्वा कलहान्ते विनिर्णयः । कर्तव्योऽस्माभिरेततत्किमादौ नेह विधीयते ॥ २१॥ शापैर्वरोक्तमाकर्ण्य बाढमित्युररीकृतम् । को न गृह्णाति मूढोऽपि वाक्यं युक्तिसमन्वितम् ॥ २२॥ ततः शापा वरैः सार्धं यास्यन्ति ब्रह्मणः पुरम् । महानुभावा हि गतिः सदा संदेहनशने ॥ २३॥ प्रणामपूर्वं तत्सर्वं यथावृत्तं परस्परम् । ब्रह्मणे कथयिष्यन्ति श्रुत्वा तेषां स वक्ष्यति ॥ २४॥ ब्रह्मोवाच । वरशापाधिपा भोभो येऽन्तः सारा जयन्ति ते । केऽन्तःसारा इति मिथो नूनमन्विष्यतां स्वयम् ॥ २५॥ इति श्रुत्वा प्रविष्टास्ते सारतां समवेक्षितुम् । वराणां हृदयं शापाः शापानां हृदयं वराः ॥ २६॥ ते परस्परमन्विष्य स्वयं हृदयसारताम् । ज्ञात्वा च समवायेन प्रवक्ष्यन्ति पितामहम् ॥ २७॥ शापा वक्ष्यन्ति जिताः प्रजानाथ वयं नान्तःसारा वयं यतः । अन्तःसारा वरा एव वज्रस्तम्भा इवाचलाः ॥ २८॥ वयं किलेमे भगवन्वराः शापाश्च सर्वदा । ननु संविन्मया एव देहोऽन्योऽस्माकमस्ति नो ॥ २९॥ वरदस्य हि या संविद्वरो दत्त इति स्थिता । सैवार्थिनि मया लब्धो वरोऽयमिति तिष्ठति ॥ ३०॥ विज्ञप्तिमात्रवचनं देहं सैव फलं ततः । पश्यत्यनुभवत्यत्ति देशकालशतभ्रमैः ॥ ३१॥ वरदात्मा गृहीतत्वाच्चित्कालान्तरसंभृता । यदा तदान्तःसारासौ दुर्जया न तु शापजा ॥ ३२॥ वरप्रदानं वरदैर्वरदानां वरार्थिभिः । यदा सुचिरमभ्यस्तं वराणां सारता तदा ॥ ३३॥ यदेव सुचिरं संविदभ्यस्यति तदेव सा । सारमेवाशु भवति भवत्याशु च तन्मयी ॥ ३४॥ शुद्धानामतिशुद्धैव संविज्जयति संविदाम् । अशुद्धानां त्वशुद्धैव कालात्साम्यं न विद्यते ॥ ३५॥ क्षणांशेनापि यो ज्येष्ठो न्यायस्तेनावपूर्यते । नार्थे न्यायान्तरं किंचित्कर्तुमुत्सहते मदम् ॥ ३६॥ समेनोभयकोटिस्थं मिश्रं वस्तु भवेत्समम् । वरशापविलासेन क्षीरमिश्रं यथा पयः ॥ ३७॥ समाभ्यां वरशापाभ्यामथवा चिद्द्विरूपताम् । स्वयमेवानुभवति स्वप्नेष्विव पुरात्मिका ॥ ३८॥ शिक्षितं त्वत्त एवेति यत्तदेव तव प्रभो । पुनः प्रतीपं पठितं शीघ्रं यामो नमोऽस्तु ते ॥ ३९॥ इत्युक्त्वा स स्वयंशापः क्वापि शापगणो ययौ । प्रशान्ते तिमिरे दृष्टे व्योम्नि केशोण्ड्रकं यथा ॥ ४०॥ अथान्यो वरपूगोऽत्र गृहनिर्गमरोधकः । स्थानिस्थानमिवादेशः समानार्थोऽभ्यपूरयत् ॥ ४१॥ शापस्थानका वदिष्यन्ति सप्तद्वीपेशजीवानां निर्याणं शवसद्मनः । देवेश विद्मो न वयमन्धकूपादिवाम्भसाम् ॥ ४२॥ सप्तद्वीपेश्वरानेतानिमे द्वीपेषु सद्मसु । कारयन्ति वरा वर्या वीरा दिग्विजयं रणे ॥ ४३॥ तदेवमनिवार्येऽस्मिन्विरोधे विबुधेश्वर । यदनुष्ठेयमस्माभिस्तदादिश शिवाय नः ॥ ४४॥ ब्रह्मोवाच । सप्तद्वीपेश्वरवरा गृहरोधवराश्च हे । कामः सम्पन्न एवेह भवतां भवतामपि ॥ ४५॥ व्रजतैतदपेक्षत्वं यावन्नेष्टावपि क्षणात् । चिरं चिराय सदने सप्तद्वीपेश्वराः स्थिताः ॥ ४६॥ समनन्तरमेवैते देहपातात्स्वसद्मसु । सप्तद्वीपेश्वराः सर्वे सम्पन्नाः परमं वराः ॥ ४७॥ सर्वे वरा वदिष्यन्ति कुतो भूमण्डलान्यष्टौ सप्तद्वीपानि भूतयः । एकमेवेह भूपीठं श्रुतं दृष्टं च नेतरत् ॥ ४८॥ कथं चैतानि तिष्ठन्ति कस्मिंश्चिद्गृहकोशके । पद्माक्षकोशके सूक्ष्मे कथं भान्ति मतंगजाः ॥ ४९॥ ब्रह्मोवाच । युक्तं युष्माभिरस्माभिः सर्वं व्योमात्मकं जगत् । स्थितं चित्परमाण्वन्तरन्तःस्वप्नोऽनुभूयते ॥ ५०॥ भाति यत्परमस्याणोरन्तस्थस्वगृहोदरे । स्फुरितं तत्किमाश्चर्यं कः स्मयः प्रकृतेः क्रमे ॥ ५१॥ मृतेरनन्तरं भाति यथास्थितमिदं जगत् । शून्यात्मैव घनाकारं तस्मिन्नैव क्षणे चितः ॥ ५२॥ अणावपि जगन्माति यत्र तत्र गृहोदरे । सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥ ५३॥ यद्भातीदं च चित्तत्वं जगत्वं जगत्क्वचित् । चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥ ५४॥ इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः । तानाधिभौतिकभ्रान्तिमयान्संत्यज्य देहकान् ॥ ५५॥ प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः । सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥ ५६॥ यावत्ते तत्र सम्पन्ना सप्तद्वीपाधिनायकाः । अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥ ५७ ॥। ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः । अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥ ५८॥ तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः । उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥ ५९॥ शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया । विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥ ६०॥ कुशद्वीपराजधान्यां निराधिः सकलप्रजाः । कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥ ६१॥ शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे । जललीलारतः कश्चित्सहविद्याधरीगणैः ॥ ६२॥ क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते । प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥ ६३॥ उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा । योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥ ६४॥ गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् । समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥ ६५॥ पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः । दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥ ६६॥ प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् । कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥ ६७॥ त्यक्ताभिमानिकाकारा द्विविधास्ते वरास्ततः । तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥ ६८॥ यास्यन्ति ते भविष्यन्ति सम्प्राप्ताभिमताश्चिरम् । सप्तद्वीपेश्वरास्तुष्टा नन्वष्टावपि तुष्टिमत् ॥ ६९॥ इत्येते प्रविकसितोदितक्रियार्थाः प्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः । अन्तर्यत्स्फुरति विदस्तदेव बाह्ये नाप्तं कैस्तदुचितकर्मभिः किलेति ॥ ७०॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत द्वीपसप्तकाष्टकवर्णनं नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १८३॥ -११-
॥ अथ द्वादशोऽध्यायः ॥ ॥ कुन्ददन्तोपदेशः ॥ कुन्ददन्त उवाच । इत्युक्तवानसौ पृष्टः कदम्बतलतापसः । सप्तद्वीपा भुवोऽष्टौ ताः कथं भ्राता गृहेष्विति ॥ १॥ कदम्बतापस उवाच । चिद्धातुरीदृगेवायं यदेश व्योमरूप्यपि । सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥ २॥ आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् । परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥ ३॥ कुन्ददन्त उवाच । एकस्मिन्विमले शान्ते शिवे परमकारणे । कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥ ४॥ कदम्बतापस उवाच । सर्वं शान्तं चिदाकाशं नानास्तीह न किंचन । दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥ ५॥ असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् । चित्खं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥ ६॥ सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः । यथा स्वप्नेषु चिद्भावःस्वभोऽर्थगतस्तथा ॥ ७॥ न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते । सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥ ८॥ न च नाम परं रूपं कचनाकचनात्मकम् । द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥ ९॥ एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् । गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥ १०॥ यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते । तत्तेनैव तदाकारं जगदित्यनुभूयते ॥ ११॥ असत्यपि यथा वह्नावुष्णसंविद्धि भासते । संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥ १२॥ असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः । तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥ १३॥ आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च । चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥ १४॥ पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः । सर्व सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥ १५॥ परमार्थाम्बराम्भोधावापः सर्ग परंपरा । परमार्थ महाकाशे शून्यता सर्गसंविदः ॥ १६॥ परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् । बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥ १७॥ परमार्थो जगच्चेदकमित्येव निश्चयः । अध्यात्मशास्त्रबोधेन भवेत्सैषा हि मुक्तता ॥ १८॥ संकल्पस्य वपुर्ब्रह्म संकल्पकचिदाकृतेः । तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥ १९॥ यतो वाचो निवर्तन्ते न निवर्तन्त एव वा । विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥ २०॥ अमौनमौनं जीवात्म यत्पाषाणवदासनम् । यत्सदेवासदाभासां तद्ब्रह्माभिधमुच्यते ॥ २१॥ सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये । का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥ २२॥ एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः । यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥ २३॥ एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः । बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥ २४॥ द्रव्ये द्रव्यान्तरश्लिष्टं यत्कार्यान्तरमाक्षिपेत् । तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥ २५॥ सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा । यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥ २६ । चिन्मात्रैकात्मसारत्वाद्यथासंवेदनं स्थिताः । निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥ २७॥ अविद्यमानमेवेदं दृश्यतेऽथानुभूयते । जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥ २८॥ विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः । हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥ २९॥ स्वभाववाताधूतस्य जगज्जालचमत्कृतेः । हा चिन्मरीचिपांश्वभ्रनीहारस्य विसारिता ॥ ३०॥ यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः । तथैवेयं जगद्भान्तिर्भात्यनात्मविदोऽम्बरे ॥ ३१॥ यावत्संकल्पितं तावद्यथा संकल्पितं तथा । यथा संकल्पनगरं कचतीदं जगत्तथा ॥ ३२॥ संकल्पनगरे यावत्संकल्पसकला स्थितिः । भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥ ३३॥ प्रवहत्येव नियतिर्नियतार्थप्रदायिनी । स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥ ३४॥ जायते जङ्गमं जीवात्स्थावरं स्थावरादपि । नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥ ३५॥ वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च । वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥ ३६॥ ज्योतिर्मयं निवृत्तं तु धारासाराम्बरीकृतम् । युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥ ३७॥ भूतलैकान्तराब्ध्यद्रिसंनिवेशः स्थितायते । भावाभावोग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥ ३८॥ कुन्ददन्त उवाच । प्राग्दृष्टं स्मृतिमायाति तत्स्वसंकल्पनान्यतः । भाति प्रथमसर्गे तु कस्य प्राग्दृष्टभासनम् ॥ ३९॥ तापस उवाच । अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणं यथा । प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥ ४०॥ चित्त्वाच्चिद्व्योम्नि कचति जगत्संकल्पपत्तनम् । न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥ ४१॥ चित्प्रसादेन संकल्पस्वप्नाद्यद्यानुभूयते । शुद्धं चिद्व्योम संकल्पपुरं मा स्मर्यतां कथम् ॥ ४२॥ हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च । प्रकृतेनैव मार्गेण ज्ञश्चक्रैरिव गम्यते ॥ ४३॥ निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ । चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥ ४४॥ संविदाभासमात्रं यज्जगदित्यभिशब्दितम् । तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥ ४५॥ यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् । सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥ ४६॥ यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति । यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥ ४७॥ उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मं भृङ्गाविवाभिमतमाशु विधीयतां स्वम् । तिष्ठामि दुःखमलमस्तसमाधिसंस्थं भूयः समाधिमहमङ्ग चिरं विशामि ॥ ४८॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत कुन्ददन्तोपदेशो नाम चतुःशीत्यधिकशततमः सर्गः ॥ १८४॥ -१२-
॥ अथ त्रयोदशोऽध्यायः ॥ ॥ कुन्ददन्तप्रबोधः ॥ कुन्ददन्त उवाच । जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः । आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ॥ १॥ आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः । वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ॥ २॥ आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ । दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ॥ ३॥ अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरंतनीः । स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ॥ ४॥ क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव । मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ॥ ५॥ ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः । अहं दुःखप्रीतात्मा परं वैधुर्यमागतः ॥ ६॥ ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् । गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ॥ ७॥ तत्र मासत्रयेणासौ समाधिविरतोऽभवत् । प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ॥ ८॥ कदम्बतापस उवाच । अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् । समाधिमेव प्रविश्याम्यहमाशु कृतत्वरः ॥ ९॥ परमार्थोपदेशस्ते नाभ्यासेन विनानघ । लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु ॥ १०॥ अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः । नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ॥ ११॥ सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल । वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ॥ १२॥ मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज । विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ॥ १३॥ इत्युक्त्वा स समाधानरसायनमहार्णवम् । विंवशाहमिमं देशं त्वत्सकाशमुपागतः ॥ १४॥ एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् । यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ॥ १५॥ श्रीराम उवाच । सकुन्ददन्त इत्यादिकथाकथनकोविदः । स्थितस्ततः प्रभृत्येव मत्समीपगतः सदा ॥ १६॥ स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः । श्रुतवान्संहितामेतां मोक्षोपायाभिधामिह ॥ १७॥ स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विजः । अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ॥ १८॥ श्रीवाल्मीकिरुवाच । इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः । स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ॥ १९॥ श्रीवसिष्ठ उवाच । कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ । बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ॥ २०॥ कुन्ददन्त उवाच । सर्वसंशयविच्छेदि चेत एव जयाय मे । सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ॥ २१॥ ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् । प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ॥ २२॥ बुद्धेयं त्वदिदं सर्वं परमार्थघनं घनम् । अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ॥ २३॥ सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः । सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम् ॥ २४॥ संभवन्ति जगत्यन्तः सिद्धार्थकणकोटरे । न संभवन्ति च यथा ज्ञानमेतदशेषतः ॥ २५॥ गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुंधरा । गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ॥ २६॥ यद्यद्यदा वस्तु यथोदितात्म भातीह भूतैरनुभूयते च । तत्तत्तदा सर्वघनस्तथास्ते ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ॥ २७॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत कुन्ददन्तप्रबोधो सप्तद्वीपेश्वर नाम पञ्चाशीत्यधिकशततमः सर्गः ॥ १८५॥ -१३-
॥ अथ चतुर्दशोऽध्यायः ॥ ॥ सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशः ॥ श्रीवाल्मीकिरुवाच । कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः । उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ॥ १॥ श्रीवसिष्ठ उवाच । बत विज्ञानविश्रान्तिरस्य जाता महात्मनः । करामलकवद्विश्वं ब्रह्मेति परिपश्यति ॥ २॥ किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् । भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ॥ ३॥ यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः । तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ॥ ४॥ शिवं शान्तमजं मौनममौनमजरं ततम् । सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ॥ ५॥ यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः । सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ॥ ६॥ परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तः स्थितो यतः । परमाणुरेव ब्रह्माण्डमन्तः स्थितजगद्यतः ॥ ७॥ तस्माच्चिदाकाशमनादिमध्य- मखण्डितं सौम्यमिदं समस्तम् । निर्वाणमस्तं गतजातिबन्धो यथास्थितं तिष्ठ निरामयात्मा ॥ ८॥ स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् । स्वयं किंचिन्न किंचिच्च ब्रह्मात्मन्येव संस्थितम् ॥ ९॥ यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि । स्वरूपमजहच्छान्तं यत्र सम्पद्यते तथा ॥ १०॥ ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् । एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ॥ ११॥ दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता । एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ॥ १२॥ यादृक्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः । संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्म्यः ॥ १३॥ संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोऽभवत् । जडीभूता तथैवास्ते संवित्स्थावरनामिका ॥ १४॥ स्थावरत्वाज्जडाच्चित्त्वं जंगमात्म प्रयाति चित् । जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ॥ १५॥ आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले । खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ॥ १६॥ चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा । चिनोति जडतां चित्त्वं न नाम जडतावशात् ॥ १७॥ चिता वेदन वेत्तारं स्थावरं क्रियते वपुः । चिता वेदन वेत्तारं जङ्गमं क्रियते वपुः ॥ १८॥ यथा पुंसो नखाः पादवेकमेव शरीरकम् । तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ॥ १९॥ आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् । चितो रूपं जगदिति तत्तथैवान्त उच्यते ॥ २०॥ तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् । न प्रथामागतं किंचिन्नासीदप्रथितं हितम् ॥ २१॥ अयमादिरयं चान्तः सर्गस्येत्यवभासते । चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ॥ २२॥ स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः । प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ॥ २३॥ प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते । एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ॥ २४॥ कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते । नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ॥ २५॥ विभागहीनयाप्येष भागश्चिद्धननिद्रया । सुषुप्तान्मुच्यते मोक्ष इति स्वप्नस्तु चित्तकम् ॥ २६॥ प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् । भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥ २७॥ चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् । तदेव मुच्यते भूतं जीवो देवससुरादिदृक् ॥ २८॥ एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् । यदा तदा मोक्ष इति प्रोच्यते मोक्षकांक्षिभिः ॥ २९॥ श्रीराम उवाच । चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् । कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥ ३०॥ श्रीवसिष्ठ उवाच । विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् । नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥ ३१॥ प्रमाणं तस्य चानन्तं विद्धि यद्यत्र रेणुताम् । आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥ ३२॥ यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् । एतच्चितं भूतमेतदपर्यन्तामलाकृति ॥ ३३॥ एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः । यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥ ३४॥ चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् । खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥ ३५॥ निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च । सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥ ३६॥ अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः । शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥ ३७॥ जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः । सदेव च पुमांस्तस्मात्पुंसामन्तः स्थितं जगत् ॥ ३८॥ यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव । तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥ ३९॥ चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता । व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥ ४०॥ यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् । ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥ ४१॥ यथा द्रवत्वमम्भोधावापो जठरकोशगाः । स्फुरन्त्येवंविदाऽनन्याः पदार्थौघास्तथापरे ॥ ४२॥ यथा स्थितजगच्छालभञ्जिकाकाशरूपधृक् । चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥ ४३॥ यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् । स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥ ४४॥ समता सत्यता सत्ता चैकता निर्विकारिता । आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥ ४५॥ स्वप्नसंकल्पसंसारवरशापदृशामिह । सरोब्धिसरिदम्बूनामिअवान्यत्वं न वाथवा ॥ ४६॥ श्रीराम उवाच । वरशापार्थसंवित्तौ कार्यकारणता कथम् । उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥ ४७॥ श्रीवसिष्ठ उवाच । स्ववदातचिदाकाशकचनं जगदुच्यते । स्फुरणे पयसामब्धावावर्तचलनं यथा ॥ ४८॥ ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः । संकल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥ ४९॥ कालेनाभ्यासयोगेन विचारेण समेन च । जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥ ५०॥ सम्यग्ज्ञानवतो ज्ञस्य यथा भूतार्थदर्शिनः । बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥ ५१॥ निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी । संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥ ५२॥ सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् । स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥ ५३॥ अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् । यथासंकल्पनगरं यथा स्वप्नमहापुरम् ॥ ५४॥ आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा । यद्यथा संकल्पयति तथा भवति तस्य तत् ॥ ५५॥ संकल्पनगरे बालः शिलाप्रोड्डयनं यथा । सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥ ५६॥ स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये । वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥ ५७॥ स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् । कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः ॥ ५८॥ अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः । ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥ ५९॥ या यथा कलना रूढा तावत्साद्यापि संस्थिता । न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥ ६०॥ ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे । यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥ ६१॥ श्रीराम उवाच । अनिरावरणाज्ञानात्केवलं धर्मचारिणः । शापादीन्सम्प्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥ ६२॥ वसिष्ठ उवाच । संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि । तत्तदेवानुभवति यस्मात्तत्तास्ति नेतरत् ॥ ६३॥ ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः । स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥ ६४॥ संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः । तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥ ६५॥ निराधारं निरालम्बं व्योमात्म व्योम्नि भासते । दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥ ६६॥ संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः । वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥ ६७॥ तपस्विनोऽथ वादैश्च यद्ध्युरविलम्बितम् । यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥ ६८॥ इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता । द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥ ६९॥ चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति । तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥ ७०॥ यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् । स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥ ७१॥ शिलानृतं यथा सत्यं संकल्पनगरे तथा । जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥ ७२॥ चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् । तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥ ७३॥ अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् । स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥ ७४॥ सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् । द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥ ७५॥ एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः । तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥ ७६॥ वाय्वङ्गगस्पन्दनवज्जलाङ्गद्रवभाववत् । यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गगं जगत् ॥ ७७॥ ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् । भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥ ७८॥ यथा प्रपाते पयसो विचित्राः कणपङ्क्तयः । विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥ ७९॥ निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः । आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ॥ ८०॥ तांभि स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः । कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥ ८१॥ तदेवं जगदित्यस्ति दुर्बोधेन मम त्विदम् । अकारणकमद्वैतमजातं कर्म केवलम् ॥ ८२॥ अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयतेः । उपलादौ जडा सत्ता तादृशी परमात्मनः ॥ ८३॥ यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ । तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥ ८४॥ सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा । एकस्यामेव निद्रायां सर्गासर्गो तथा परे ॥ ८५॥ यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् । परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥ ८६॥ अङ्गष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति । योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥ ८७॥ व्योमोपलजलादीनां यथा देहानुभूतयः । तथास्माकमचित्तानामद्य नानानुभूतयः ॥ ८८॥ काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः । तथाऽसंख्याः परे भान्ति सर्गसंहारसंविदः ॥ ८९॥ आलोकरूपमननानुभवैषणेच्छा मुक्तात्मनि स्फुरति वारिघने स्वभावात् । आवर्तवीचिवलयादि यथा तथायं शान्ते परे स्फुरति संहृतिसर्गपूगः ॥ ९० । इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः ॥ १८६॥ -१४-