अक्षर आकार:

बोध्यगीता

bodhyagItA

बोध्यगीता

भीम उवाच । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गीतं विदेहराजेन जनकेन प्रशाम्यता ॥ १॥ अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन । मिथिलायां प्रदीप्तायां न मे दह्यति किं चन ॥ २॥ अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् । निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ॥ ३॥ बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत । निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञान तर्पितम् ॥ ४॥ उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे । कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥ ५॥ बोध्य उवाच । उपदेशेन वर्तामि नानुशास्मीह कञ्चन । लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम् ॥ ६॥ पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने । इषुकारः कुमारी च षडेते गुरवो मम॥ ७॥ भीम उवाच । आशा बलवती राजन्नैराश्यं परमं सुखम् । आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ ८॥ सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः । आमिषस्य परित्यागात् कुररः सुखमेधते ॥ ९॥ गृहारम्भो हि दुःखाय न सुखाय कदाचन । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १०॥ सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः । अद्रोहेनैव भूतानां सारङ्गा इव पक्षिणः ॥ ११॥ इषुकारो नरः कश्चिदिषावासक्तमानसः । समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥ १२॥ बहूनां कलहो नित्यं द्वयोः संकथनं भवेत् । एकाकी विचरिष्यामि कुमारीशंखको यथा ॥ १३ ॥ इति बोद्ध्यगीता समाप्ता ॥ From Mahabharata