श्रीमद्भागवतान्तर्गतम् भ्रमरगीतम्
श्रीशुक उवाच । तं वीक्ष्य कृषानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् । पीताम्बरं पुष्करमालिनं लसन् मुखारविन्दं परिमृष्टकुण्डलम् ॥ १०.४७.१॥ सुविस्मिताः कोऽयमपीव्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः । इति स्म सर्वाः परिवव्रुरुत्सुकास् तमुत्तमःश्लोकपदाम्बुजाश्रयम् ॥ १०.४७.२॥ तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः । रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ॥ १०.४७.३॥ जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् । भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ॥ १०.४७.४॥ अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे । स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ १०.४७.५॥ अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् । पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥ १०.४७.६॥ निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः । अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ॥ १०.४७.७॥ खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् । दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ॥ १०.४७.८॥ इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः । कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ॥ १०.४७.९॥ गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः । तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ १०.४७.१०॥ काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् । प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ १०.४७.११॥गोप्युवाच । मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः । वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १०.४७.१२॥ सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक् । परिचरति कथं तत्पादपद्मं नु पद्मा ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः ॥ १०.४७.१३॥ किमिह बहु षडङ्घ्रे गायसि त्वं यदूनां अधिपतिमगृहाणामग्रतो नः पुराणम् । विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १०.४७.१४॥ दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः । चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे ह्युत्तमःश्लोकशब्दः ॥ १०.४७.१५॥ विसृज शिरसि पादं वेद्म्यहं चातुकारैर् अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् । स्वकृत इह विषृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १०.४७.१६॥ मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् । बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस् तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १०.४७.१७॥ यदनुचरितलीलाकर्णपीयूषविप्रुट् सकृददनविधूतद्वन्द्वधर्मा विनष्टाः । सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १०.४७.१८॥ वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः । ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता ॥ १०.४७.१९॥ प्रियसख पुनरागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग । नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ १०.४७.२०॥ अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान् । क्वचिदपि स कथा नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ १०.४७.२१॥
श्रीशुक उवाच । अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः । सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत ॥ १०.४७.२२॥ श्रीउद्धव उवाच । अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः । वासुदेवे भगवति यासामित्यर्पितं मनः ॥ १०.४७.२३॥ दानव्रततपोहोम जपस्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ १०.४७.२४॥ भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा । भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥ १०.४७.२५॥ दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च । हित्वावृनीत यूयं यत्कृष्णाख्यं पुरुषं परम् ॥ १०.४७.२६॥ सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे । विरहेण महाभागा महान्मेऽनुग्रहः कृतः ॥ १०.४७.२७॥ श्रूयतां प्रियसन्देशो भवतीनां सुखावहः । यमादायागतो भद्रा अहं भर्तू रहस्करः ॥ १०.४७.२८॥ श्रीभगवानुवाच । भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् । यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः ॥ १०.४७.२९॥ आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये । आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ १०.४७.३०॥ आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः । सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ १०.४७.३१॥ येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः । तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ १०.४७.३२॥ एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् । त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ १०.४७.३३॥ यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ १०.४७.३४॥ यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ १०.४७.३५॥ मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ १०.४७.३६॥ या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥ १०.४७.३७॥ श्रीशुक उवाच । एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः । ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥ १०.४७.३८॥ गोप्य ऊचुः । दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत् । दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ॥ १०.४७.३९॥ कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम् । प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः ॥ १०.४७.४०॥ कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम् । नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ॥ १०.४७.४१॥ अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् । गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे ॥ १०.४७.४२॥ ताः किं निशाः स्मरति यासु तदा प्रियाभिर् वृन्दावने कुमुदकुन्दशशाङ्करम्ये । रेमे क्वणच्चरणनूपुररासगोष्ठ्याम् अस्माभिरीडितमनोज्ञकथः कदाचित् ॥ १०.४७.४३॥ अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा । सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥ १०.४७.४४॥ कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः । नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ॥ १०.४७.४५॥ किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः । श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ॥ १०.४७.४६॥ परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला । तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥ १०.४७.४७॥ क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम् । अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ॥ १०.४७.४८॥ सरिच्छैलवनोद्देशा गावो वेणुरवा इमे । सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ॥ १०.४७.४९॥ पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत । श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ॥ १०.४७.५०॥ गत्या ललितयोदार हासलीलावलोकनैः । माध्व्या गिरा हृतधियः कथं तं विस्मराम हे ॥ १०.४७.५१॥ हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ १०.४७.५२॥ श्रीशुक उवाच । ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः । उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ १०.४७.५३॥ उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः । कृष्णलीलाकथां गायन्रमयामास गोकुलम् ॥ १०.४७.५४॥ यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः । व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया ॥ १०.४७.५५॥ सरिद्वनगिरिद्रोणीर्वीक्षन्कुसुमितान्द्रुमान् । कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् ॥ १०.४७.५६॥ दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् । उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥ १०.४७.५७॥ एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ १०.४७.५८॥ क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः कृष्णे क्व चैष परमात्मनि रूढभावः । । नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच् छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥ १०.४७.५९॥ नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः । रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥ १०.४७.६०॥ आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ १०.४७.६१॥ या वै श्रियार्चितमजादिभिराप्तकामैर् योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् । कृष्णस्य तद्भगवतः चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ १०.४७.६२॥ वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः । यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ १०.४७.६३॥ श्रीशुक उवाच । अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च । गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ १०.४७.६४॥ तं निर्गतं समासाद्य नानोपायनपाणयः । नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥ १०.४७.६५॥ मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः । वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥ १०.४७.६६॥ कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया । मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥ १०.४७.६७॥ एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप । उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ॥ १०.४७.६८॥ कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् । वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥ १०.४७.६९॥ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिशोऽध्यायान्तर्गतं भ्रमरगीतं समाप्तम् ॥ १०.४७॥ Bhagavatam skandha 10 adhyAya 47