अवधूत गीता
अथ प्रथमोऽध्यायः ॥ ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महद्भयपरित्राणाद्विप्राणामुपजायते ॥ १॥ येनेदं पूरितं सर्वमात्मनैवात्मनात्मनि । निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ॥ २॥ पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् । कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः ॥ ३॥ आत्मैव केवलं सर्वं भेदाभेदो न विद्यते । अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे ॥ ४॥ वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च । अहमात्मा निराकारः सर्वव्यापी स्वभावतः ॥ ५॥ यो वै सर्वात्मको देवो निष्कलो गगनोपमः । स्वभावनिर्मलः शुद्धः स एवायं न संशयः ॥ ६॥ अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः । सुखं दुःखं न जानामि कथं कस्यापि वर्तते ॥ ७॥ न मानसं कर्म शुभाशुभं मे न कायिकं कर्म शुभाशुभं मे । न वाचिकं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ॥ ८॥ मनो वै गगनाकारं मनो वै सर्वतोमुखम् । मनोऽतीतं मनः सर्वं न मनः परमार्थतः ॥ ९॥ अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् । पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् ॥ १०॥ त्वमेवमेकं हि कथं न बुध्यसे समं हि सर्वेषु विमृष्टमव्ययम् । सदोदितोऽसि त्वमखण्डितः प्रभो दिवा च नक्तं च कथं हि मन्यसे ॥ ११॥ आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम् । अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् ॥ १२॥ न जातो न मृतोऽसि त्वं न ते देहः कदाचन । सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः ॥ १३॥ स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा । इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ॥ १४॥ संयोगश्च वियोगश्च वर्तते न च ते न मे । न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् ॥ १५॥ शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः । त्वमेव परमं तत्त्वमतः किं परितप्यसे ॥ १६॥ जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ । कथं रोदिषि रे वत्स नामरूपं न ते न मे ॥ १७॥ अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत् । अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ॥ १८॥ त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम् । न ते च रागो ह्यथवा विरागः कथं हि सन्तप्यसि कामकामतः ॥ १९॥ वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् । अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः ॥ २०॥ साकारमनृतं विद्धि निराकारं निरन्तरम् । एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥ २१॥ एकमेव समं तत्त्वं वदन्ति हि विपश्चितः । रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते ॥ २२॥ अनात्मरूपं च कथं समाधि- रात्मस्वरूपं च कथं समाधिः । अस्तीति नास्तीति कथं समाधि- र्मोक्षस्वरूपं यदि सर्वमेकम् ॥ २३॥ विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः । जानामीह न जानामीत्यात्मानं मन्यसे कथम् ॥ २४॥ तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः । नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ॥ २५॥ आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम् । ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम् ॥ २६॥ शिवं न जानामि कथं वदामि शिवं न जानामि कथं भजामि । अहं शिवश्चेत्परमार्थतत्त्वं समस्वरूपं गगनोपमं च ॥ २७॥ नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम् । ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत् ॥ २८॥ अनन्तरूपं न हि वस्तु किंचि- त्तत्त्वस्वरूपं न हि वस्तु किंचित् । आत्मैकरूपं परमार्थतत्त्वं न हिंसको वापि न चाप्यहिंसा ॥ २९॥ विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम् । विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः ॥ ३०॥ घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् । शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे ॥ ३१॥ न घटो न घटाकाशो न जीवो जीवविग्रहः । केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम् ॥ ३२॥ सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम् । सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः ॥ ३३॥ वेदा न लोका न सुरा न यज्ञा वर्णाश्रमो नैव कुलं न जातिः । न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ॥ ३४॥ व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि । प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम् ॥ ३५॥ अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ॥ ३६॥ श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् । कथयन्ति कथं तत्त्वं मनोवाचामगोचरम् ॥ ३७॥ यदाऽनृतमिदं सर्वं देहादिगगनोपमम् । तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा ॥ ३८॥ परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे । व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत् ॥ ३९॥ यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् । एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः ॥ ४०॥ सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम् । सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ॥ ४१॥ तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः । असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् ॥ ४२॥ मायाऽमाया कथं तात छायाऽछाया न विद्यते । तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ॥ ४३॥ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः ॥ ४४॥ महदादि जगत्सर्वं न किंचित्प्रतिभाति मे । ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः ॥ ४५॥ जानामि सर्वथा सर्वमहमेको निरन्तरम् । निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम् ॥ ४६॥ न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना । सानन्दो वा निरानन्दमात्मानं मन्यसे कथम् ॥ ४७॥ षडङ्गयोगान्न तु नैव शुद्धं मनोविनाशान्न तु नैव शुद्धम् । गुरूपदेशान्न तु नैव शुद्धं स्वयं च तत्त्वं स्वयमेव बुद्धम् ॥ ४८॥ न हि पञ्चात्मको देहो विदेहो वर्तते न हि । आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम् ॥ ४९॥ न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् । न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः ॥ ५०॥ यथा जलं जले न्यस्तं सलिलं भेदवर्जितम् । प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे ॥ ५१॥ यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन । साकारं च निराकारमात्मानं मन्यसे कथम् ॥ ५२॥ जानामि ते परं रूपं प्रत्यक्षं गगनोपमम् । यथा परं हि रूपं यन्मरीचिजलसन्निभम् ॥ ५३॥ न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया । विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः ॥ ५४॥ विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम् । अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे ॥ ५५॥ कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव । पिब वत्स कलातीतमद्वैतं परमामृतम् ॥ ५६॥ नैव बोधो न चाबोधो न बोधाबोध एव च । यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत् ॥ ५७॥ ज्ञानं न तर्को न समाधियोगो न देशकालौ न गुरूपदेशः । स्वभावसंवित्तरहं च तत्त्व- माकाशकल्पं सहजं ध्रुवं च ॥ ५८॥ न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम् । विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम ॥ ५९॥ यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः । अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम् ॥ ६०॥ स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम् । अहो मायामहामोहो द्वैताद्वैतविकल्पना ॥ ६१॥ साकारं च निराकारं नेति नेतीति सर्वदा । भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः ॥ ६२॥ न ते च माता च पिता च बन्धुः न ते च पत्नी न सुतश्च मित्रम् । न पक्षपाती न विपक्षपातः कथं हि संतप्तिरियं हि चित्ते ॥ ६३॥ दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि । विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः ॥ ६४॥ नाविभक्तं विभक्तं च न हि दुःखसुखादि च । न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ॥ ६५॥ नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना । न मे देहो विदेहो वा निर्ममेति ममेति किम् ॥ ६६॥ न मे रागादिको दोषो दुःखं देहादिकं न मे । आत्मानं विद्धि मामेकं विशालं गगनोपमम् ॥ ६७॥ सखे मनः किं बहुजल्पितेन सखे मनः सर्वमिदं वितर्क्यम् । यत्सारभूतं कथितं मया ते त्वमेव तत्त्वं गगनोपमोऽसि ॥ ६८॥ येन केनापि भावेन यत्र कुत्र मृता अपि । योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ॥ ६९॥ तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन् । समकाले तनुं मुक्तः कैवल्यव्यापको भवेत् ॥ ७०॥ धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम् । मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम् ॥ ७१॥ अतीतानागतं कर्म वर्तमानं तथैव च । न करोमि न भुञ्जामि इति मे निश्चला मतिः ॥ ७२॥ शून्यागारे समरसपूत- स्तिष्ठन्नेकः सुखमवधूतः । चरति हि नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम् ॥ ७३॥ त्रितयतुरीयं नहि नहि यत्र विन्दति केवलमात्मनि तत्र । धर्माधर्मौ नहि नहि यत्र बद्धो मुक्तः कथमिह तत्र ॥ ७४॥ विन्दति विन्दति नहि नहि मन्त्रं छन्दोलक्षणं नहि नहि तन्त्रम् । समरसमग्नो भावितपूतः प्रलपितमेतत्परमवधूतः ॥ ७५॥ सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते । स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम् ॥ ७६॥ इति प्रथमोऽध्यायः ॥ १॥अथ द्वितीयोऽध्यायः ॥ बालस्य वा विषयभोगरतस्य वापि मूर्खस्य सेवकजनस्य गृहस्थितस्य । एतद्गुरोः किमपि नैव न चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ॥ १॥ नैवात्र काव्यगुण एव तु चिन्तनीयो ग्राह्यः परं गुणवता खलु सार एव । सिन्दूरचित्ररहिता भुवि रूपशून्या पारं न किं नयति नौरिह गन्तुकामान् ॥ २॥ प्रयत्नेन विना येन निश्चलेन चलाचलम् । ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ॥ ३॥ अयत्नाछालयेद्यस्तु एकमेव चराचरम् । सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ॥ ४॥ अहमेव परं यस्मात्सारात्सारतरं शिवम् । गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥ ५॥ सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम् । सम्पूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम् ॥ ६॥ प्रमादेन न सन्देहः किं करिष्यामि वृत्तिमान् । उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले ॥ ७॥ महदादीनि भूतानि समाप्यैवं सदैव हि । मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च ॥ ८॥ कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले । प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ॥ ९॥ सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् । मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ॥ १०॥ ईदृशं सहजं यत्र अहं तत्र कथं भवेत् । त्वमेव हि कथं तत्र कथं तत्र चराचरम् ॥ ११॥ गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् । चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च ॥ १२॥ पृथिव्यां चरितं नैव मारुतेन च वाहितम् । वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ॥ १३॥ आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित् । स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम् ॥ १४॥ सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः । आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ॥ १५॥ सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् । तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ॥ १६॥ विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च । एकमेव विनाशाय ह्यमोघं सहजामृतम् ॥ १७॥ भावगम्यं निराकारं साकारं दृष्टिगोचरम् । भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ॥ १८॥ बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते । अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ॥ १९॥ भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं च मध्यगम् । मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ॥ २०॥ पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः । तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः ॥ २१॥ अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः । दाता च धीरतामेति गीयते नामकोटिभिः ॥ २२॥ गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः । यस्तु सम्बुध्यते तत्त्वं विरक्तो भवसागरात् ॥ २३॥ रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः । दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ॥ २४॥ घटे भिन्ने घटाकाश आकाशे लीयते यथा । देहाभावे तथा योगी स्वरूपे परमात्मनि ॥ २५॥ उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः । न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ॥ २६॥ या गतिः कर्मयुक्तानां सा च वागिन्द्रियाद्वदेत् । योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता ॥ २७॥ एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् । विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ॥ २८॥ तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा । न योगी पश्यते गर्भं परे ब्रह्मणि लीयते ॥ २९॥ सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेष्टं लिप्यते नैव दोषैः । सकृदपि तदभावात्कर्म किंचिन्नकुर्यात् तदपि न च विबद्धः संयमी वा तपस्वी ॥ ३०॥ निरामयं निष्प्रतिमं निराकृतिं निराश्रयं निर्वपुषं निराशिषम् । निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम् ॥ ३१॥ वेदो न दीक्षा न च मुण्डनक्रिया गुरुर्न शिष्यो न च यन्त्रसम्पदः । मुद्रादिकं चापि न यत्र भासते तमीशमात्मानमुपैति शाश्वतम् ॥ ३२॥ न शाम्भवं शाक्तिकमानवं न वा पिण्डं च रूपं च पदादिकं न वा । आरम्भनिष्पत्तिघटादिकं च नो तमीशमात्मानमुपैति शाश्वतम् ॥ ३३॥ यस्य स्वरूपात्सचराचरं जग- दुत्पद्यते तिष्ठति लीयतेऽपि वा । पयोविकारादिव फेनबुद्बुदा- स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३४॥ नासानिरोधो न च दृष्टिरासनं बोधोऽप्यबोधोऽपि न यत्र भासते । नाडीप्रचारोऽपि न यत्र किञ्चि- त्तमीशमात्मानमुपैति शाश्वतम् ॥ ३५॥ नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता । मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम् ॥ ३६॥ सुसंयमी वा यदि वा न संयमी सुसंग्रही वा यदि वा न संग्रही । निष्कर्मको वा यदि वा सकर्मक- स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३७॥ मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि न भूतपञ्चकम् । अहंकृतिश्चापि वियत्स्वरूपकं तमीशमात्मानमुपैति शाश्वतम् ॥ ३८॥ विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते । शौचं न वाशौचमलिङ्गभावना सर्वं विधेयं यदि वा निषिध्यते ॥ ३९॥ मनो वचो यत्र न शक्तमीरितुं नूनं कथं तत्र गुरूपदेशता । इमां कथामुक्तवतो गुरोस्त- द्युक्तस्य तत्त्वं हि समं प्रकाशते ॥ ४०॥ इति द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ॥ गुणविगुणविभागो वर्तते नैव किञ्चित् रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम् । गुणविगुणविहीनं व्यापकं विश्वरूपं कथमहमिह वन्दे व्योमरूपं शिवं वै ॥ १॥ श्वेतादिवर्णरहितो नियतं शिवश्च कार्यं हि कारणमिदं हि परं शिवश्च । एवं विकल्परहितोऽहमलं शिवश्च स्वात्मानमात्मनि सुमित्र कथं नमामि ॥ २॥ निर्मूलमूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहम् । निर्दीपदीपरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३॥ निष्कामकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि । निःसारसाररहितं च कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४॥ अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि । नित्यं त्वनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ५॥ स्थूलं हि नो नहि कृशं न गतागतं हि आद्यन्तमध्यरहितं न परापरं हि । सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ६॥ संविद्धि सर्वकरणानि नभोनिभानि संविद्धि सर्वविषयांश्च नभोनिभांश्च । संविद्धि चैकममलं न हि बन्धमुक्तं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ७॥ दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात । आसन्नरूपगहनो न भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ८॥ निष्कर्मकर्मदहनो ज्वलनो भवामि निर्दुःखदुःखदहनो ज्वलनो भवामि । निर्देहदेहदहनो ज्वलनो भवामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ९॥ निष्पापपापदहनो हि हुताशनोऽहं निर्धर्मधर्मदहनो हि हुताशनोऽहम् । निर्बन्धबन्धदहनो हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १०॥ निर्भावभावरहितो न भवामि वत्स निर्योगयोगरहितो न भवामि वत्स । निश्चित्तचित्तरहितो न भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ११॥ निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः । निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १२॥ संसारसन्ततिलता न च मे कदाचित् सन्तोषसन्ततिसुखो न च मे कदाचित् । अज्ञानबन्धनमिदं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १३॥ संसारसन्ततिरजो न च मे विकारः सन्तापसन्ततितमो न च मे विकारः । सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १४॥ सन्तापदुःखजनको न विधिः कदाचित् सन्तापयोगजनितं न मनः कदाचित् । यस्मादहङ्कृतिरियं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १५॥ निष्कम्पकम्पनिधनं न विकल्पकल्पं स्वप्नप्रबोधनिधनं न हिताहितं हि । निःसारसारनिधनं न चराचरं हि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १६॥ नो वेद्यवेदकमिदं न च हेतुतर्क्यं वाचामगोचरमिदं न मनो न बुद्धिः । एवं कथं हि भवतः कथयामि तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १७॥ निर्भिन्नभिन्नरहितं परमार्थतत्त्व- मन्तर्बहिर्न हि कथं परमार्थतत्त्वम् । प्राक्सम्भवं न च रतं नहि वस्तु किञ्चित् ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १८॥ रागादिदोषरहितं त्वहमेव तत्त्वं दैवादिदोषरहितं त्वहमेव तत्त्वम् । संसारशोकरहितं त्वहमेव तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १९॥ स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयं यदि च नेति कथं दिशश्च । शान्तं पदं हि परमं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २०॥ दीर्घो लघुः पुनरितीह नमे विभागो विस्तारसंकटमितीह न मे विभागः । कोणं हि वर्तुलमितीह न मे विभागो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २१॥ मातापितादि तनयादि न मे कदाचित् जातं मृतं न च मनो न च मे कदाचित् । निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २२॥ शुद्धं विशुद्धमविचारमनन्तरूपं निर्लेपलेपमविचारमनन्तरूपम् । निष्खण्डखण्डमविचारमनन्तरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २३॥ ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति । यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २४॥ निर्नेति नेति विमलो हि कथं वदामि निःशेषशेषविमलो हि कथं वदामि । निर्लिङ्गलिङ्गविमलो हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २५॥ निष्कर्मकर्मपरमं सततं करोमि निःसङ्गसङ्गरहितं परमं विनोदम् । निर्देहदेहरहितं सततं विनोदं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २६॥ मायाप्रपञ्चरचना न च मे विकारः । कौटिल्यदम्भरचना न च मे विकारः । सत्यानृतेति रचना न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २७॥ सन्ध्यादिकालरहितं न च मे वियोगो- ह्यन्तः प्रबोधरहितं बधिरो न मूकः । एवं विकल्परहितं न च भावशुद्धं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २८॥ निर्नाथनाथरहितं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै । संविद्धि सर्वविगतं हि निराकुलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २९॥ कान्तारमन्दिरमिदं हि कथं वदामि संसिद्धसंशयमिदं हि कथं वदामि । एवं निरन्तरसमं हि निराकुलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३०॥ निर्जीवजीवरहितं सततं विभाति निर्बीजबीजरहितं सततं विभाति । निर्वाणबन्धरहितं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३१॥ सम्भूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति । संहारवर्जितमिदं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३२॥ उल्लेखमात्रमपि ते न च नामरूपं निर्भिन्नभिन्नमपि ते न हि वस्तु किञ्चित् । निर्लज्जमानस करोषि कथं विषादं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३३॥ किं नाम रोदिषि सखे न जरा न मृत्युः किं नाम रोदिषि सखे न च जन्म दुःखम् । किं नाम रोदिषि सखे न च ते विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३४॥ किं नाम रोदिषि सखे न च ते स्वरूपं किं नाम रोदिषि सखे न च ते विरूपम् । किं नाम रोदिषि सखे न च ते वयांसि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३५॥ किं नाम रोदिषि सखे न च ते वयांसि किं नाम रोदिषि सखे न च ते मनांसि । किं नाम रोदिषि सखे न तवेन्द्रियाणि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३६॥ किं नाम रोदिषि सखे न च तेऽस्ति कामः किं नाम रोदिषि सखे न च ते प्रलोभः । किं नाम रोदिषि सखे न च ते विमोहो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३७॥ ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते हि पत्नी । ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३८॥ लिङ्गप्रपञ्चजनुषी न च ते न मे च निर्लज्जमानसमिदं च विभाति भिन्नम् । निर्भेदभेदरहितं न च ते न मे च ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३९॥ नो वाणुमात्रमपि ते हि विरागरूपं नो वाणुमात्रमपि ते हि सरागरूपम् । नो वाणुमात्रमपि ते हि सकामरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४०॥ ध्याता न ते हि हृदये न च ते समाधि- र्ध्यानं न ते हि हृदये न बहिः प्रदेशः । ध्येयं न चेति हृदये न हि वस्तु कालो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४१॥ यत्सारभूतमखिलं कथितं मया ते न त्वं न मे न महतो न गुरुर्न न शिष्यः । स्वच्छन्दरूपसहजं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४२॥ कथमिह परमार्थं तत्त्वमानन्दरूपं कथमिह परमार्थं नैवमानन्दरूपम् । कथमिह परमार्थं ज्ञानविज्ञानरूपं यदि परमहमेकं वर्तते व्योमरूपम् ॥ ४३॥ दहनपवनहीनं विद्धि विज्ञानमेक- मवनिजलविहीनं विद्धि विज्ञानरूपम् । समगमनविहीनं विद्धि विज्ञानमेकं गगनमिव विशालं विद्धि विज्ञानमेकम् ॥ ४४॥ न शून्यरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम् । रूपं विरूपं न भवामि किञ्चित् स्वरूपरूपं परमार्थतत्त्वम् ॥ ४५॥ मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा । त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम् ॥ ४६॥ इति तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ॥ नावाहनं नैव विसर्जनं वा पुष्पाणि पत्राणि कथं भवन्ति । ध्यानानि मन्त्राणि कथं भवन्ति समासमं चैव शिवार्चनं च ॥ १॥ न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः । न केवलं योगवियोगमुक्तः स वै विमुक्तो गगनोपमोऽहम् ॥ २॥ सञ्जायते सर्वमिदं हि तथ्यं सञ्जायते सर्वमिदं वितथ्यम् । एवं विकल्पो मम नैव जातः स्वरूपनिर्वाणमनामयोऽहम् ॥ ३॥ न साञ्जनं चैव निरञ्जनं वा न चान्तरं वापि निरन्तरं वा । अन्तर्विभन्नं न हि मे विभाति स्वरूपनिर्वाणमनामयोऽहम् ॥ ४॥ अबोधबोधो मम नैव जातो बोधस्वरूपं मम नैव जातम् । निर्बोधबोधं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ ५॥ न धर्मयुक्तो न च पापयुक्तो न बन्धयुक्तो न च मोक्षयुक्तः । युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनामयोऽहम् ॥ ६॥ परापरं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रम् । हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ ७॥ नोपासको नैवमुपास्यरूपं न चोपदेशो न च मे क्रिया च । संवित्स्वरूपं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ ८॥ नो व्यापकं व्याप्यमिहास्ति किञ्चित् न चालयं वापि निरालयं वा । अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ ९॥ न ग्राहको ग्राह्यकमेव किञ्चित् न कारणं वा मम नैव कार्यम् । अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १०॥ न भेदकं वापि न चैव भेद्यं न वेदकं वा मम नैव वेद्यम् । गतागतं तात कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ ११॥ न चास्ति देहो न च मे विदेहो बुद्धिर्मनो मे न हि चेन्द्रियाणि । रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १२॥ उल्लेखमात्रं न हि भिन्नमुच्चै- रुल्लेखमात्रं न तिरोहितं वै । समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १३॥ जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो न जातः । जयाजयौ मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १४॥ अमूर्तमूर्तिर्न च मे कदाचि- दाद्यन्तमध्यं न च मे कदाचित् । बलाबलं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १५॥ मृतामृतं वापि विषाविषं च सञ्जायते तात न मे कदाचित् । अशुद्धशुद्धं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १६॥ स्वप्नः प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित् । अतुर्यतुर्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १७॥ संविद्धि मां सर्वविसर्वमुक्तं माया विमाया न च मे कदाचित् । सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १८॥ संविद्धि मां सर्वसमाधियुक्तं संविद्धि मां लक्ष्यविलक्ष्यमुक्तम् । योगं वियोगं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ १९॥ मूर्खोऽपि नाहं न च पण्डितोऽहं मौनं विमौनं न च मे कदाचित् । तर्कं वितर्कं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ २०॥ पिता च माता च कुलं न जाति- र्जन्मादि मृत्युर्न च मे कदाचित् । स्नेहं विमोहं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ २१॥ अस्तं गतो नैव सदोदितोऽहं तेजोवितेजो न च मे कदाचित् । सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ २२॥ असंशयं विद्धि निराकुलं मां असंशयं विद्धि निरन्तरं माम् । असंशयं विद्धि निरञ्जनं मां स्वरूपनिर्वाणमनामयोऽहम् ॥ २३॥ ध्यानानि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति । त्यागामृतं तात पिबन्ति धीराः स्वरूपनिर्वाणमनामयोऽहम् ॥ २४॥ विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र । समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ॥ २५॥ इति चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोध्यायः ॥ ॐ इति गदितं गगनसमं तत् न परापरसारविचार इति । अविलासविलासनिराकरणं कथमक्षरबिन्दुसमुच्चरणम् ॥ १॥ इति तत्त्वमसिप्रभृतिश्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि । त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ॥ २॥ अध ऊर्ध्वविवर्जितसर्वसमं बहिरन्तरवर्जितसर्वसमम् । यदि चैकविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ॥ ३॥ न हि कल्पितकल्पविचार इति न हि कारणकार्यविचार इति । पदसन्धिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ॥ ४॥ न हि बोधविबोधसमाधिरिति न हि देशविदेशसमाधिरिति । न हि कालविकालसमाधिरिति किमु रोदिषि मानसि सर्वसमम् ॥ ५॥ न हि कुम्भनभो न हि कुम्भ इति न हि जीववपुर्न हि जीव इति । न हि कारणकार्यविभाग इति किमु रोदिषि मानसि सर्वसमम् ॥ ६॥ इह सर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति । न हि वर्तुलकोणविभाग इति किमु रोदिषि मानसि सर्वसमम् ॥ ७॥ इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति । इह सर्वविसर्वविहीन इति किमु रोदिषि मानसि सर्वसमम् ॥ ८॥ न हि भिन्नविभिन्नविचार इति बहिरन्तरसन्धिविचार इति । अरिमित्रविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ॥ ९॥ न हि शिष्यविशिष्यस्वरूप इति न चराचरभेदविचार इति । इह सर्वनिरन्तरमोक्षपदं किमु रोदिषि मानसि सर्वसमम् ॥ १०॥ ननु रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति । ननु सर्गविसर्गविहीन इति किमु रोदिषि मानसि सर्वसमम् ॥ ११॥ न गुणागुणपाशनिबन्ध इति मृतजीवनकर्म करोमि कथम् । इति शुद्धनिरञ्जनसर्वसमं किमु रोदिषि मानसि सर्वसमम् ॥ १२॥ इह भावविभावविहीन इति इह कामविकामविहीन इति । इह बोधतमं खलु मोक्षसमं किमु रोदिषि मानसि सर्वसमम् ॥ १३॥ इह तत्त्वनिरन्तरतत्त्वमिति न हि सन्धिविसन्धिविहीन इति । यदि सर्वविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ॥ १४॥ अनिकेतकुटी परिवारसमं इहसङ्गविसङ्गविहीनपरम् । इह बोधविबोधविहीनपरं किमु रोदिषि मानसि सर्वसमम् ॥ १५॥ अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति । यदि केवलमात्मनि सत्यमिति किमु रोदिषि मानसि सर्वसमम् ॥ १६॥ इह सर्वसमं खलु जीव इति इह सर्वनिरन्तरजीव इति । इह केवलनिश्चलजीव इति किमु रोदिषि मानसि सर्वसमम् ॥ १७॥ अविवेकविवेकमबोध इति अविकल्पविकल्पमबोध इति । यदि चैकनिरन्तरबोध इति किमु रोदिषि मानसि सर्वसमम् ॥ १८॥ न हि मोक्षपदं न हि बन्धपदं न हि पुण्यपदं न हि पापपदम् । न हि पूर्णपदं न हि रिक्तपदं किमु रोदिषि मानसि सर्वसमम् ॥ १९॥ यदि वर्णविवर्णविहीनसमं यदि कारणकार्यविहीनसमम् । यदिभेदविभेदविहीनसमं किमु रोदिषि मानसि सर्वसमम् ॥ २०॥ इह सर्वनिरन्तरसर्वचिते इह केवलनिश्चलसर्वचिते । द्विपदादिविवर्जितसर्वचिते किमु रोदिषि मानसि सर्वसमम् ॥ २१॥ अतिसर्वनिरन्तरसर्वगतं अतिनिर्मलनिश्चलसर्वगतम् । दिनरात्रिविवर्जितसर्वगतं किमु रोदिषि मानसि सर्वसमम् ॥ २२॥ न हि बन्धविबन्धसमागमनं न हि योगवियोगसमागमनम् । न हि तर्कवितर्कसमागमनं किमु रोदिषि मानसि सर्वसमम् ॥ २३॥ इह कालविकालनिराकरणं अणुमात्रकृशानुनिराकरणम् । न हि केवलसत्यनिराकरणं किमु रोदिषि मानसि सर्वसमम् ॥ २४॥ इह देहविदेहविहीन इति ननु स्वप्नसुषुप्तिविहीनपरम् । अभिधानविधानविहीनपरं किमु रोदिषि मानसि सर्वसमम् ॥ २५॥ गगनोपमशुद्धविशालसमं अतिसर्वविवर्जितसर्वसमम् । गतसारविसारविकारसमं किमु रोदिषि मानसि सर्वसमम् ॥ २६॥ इह धर्मविधर्मविरागतर- मिह वस्तुविवस्तुविरागतरम् । इह कामविकामविरागतरं किमु रोदिषि मानसि सर्वसमम् ॥ २७॥ सुखदुःखविवर्जितसर्वसम- मिह शोकविशोकविहीनपरम् । गुरुशिष्यविवर्जिततत्त्वपरं किमु रोदिषि मानसि सर्वसमम् ॥ २८॥ न किलाङ्कुरसारविसार इति न चलाचलसाम्यविसाम्यमिति । अविचारविचारविहीनमिति किमु रोदिषि मानसि सर्वसमम् ॥ २९॥ इह सारसमुच्चयसारमिति । कथितं निजभावविभेद इति । विषये करणत्वमसत्यमिति किमु रोदिषि मानसि सर्वसमम् ॥ ३०॥ बहुधा श्रुतयः प्रवदन्ति यतो वियदादिरिदं मृगतोयसमम् । यदि चैकनिरन्तरसर्वसमं किमु रोदिषि मानसि सर्वसमम् ॥ ३१॥ विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र । समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ॥ ३२॥ इति पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठमोऽध्यायः ॥ बहुधा श्रुतयः प्रवदन्ति वयं वियदादिरिदं मृगतोयसमम् । यदि चैकनिरन्तरसर्वशिव- मुपमेयमथोह्युपमा च कथम् ॥ १॥ अविभक्तिविभक्तिविहीनपरं ननु कार्यविकार्यविहीनपरम् । यदि चैकनिरन्तरसर्वशिवं यजनं च कथं तपनं च कथम् ॥ २॥ मन एव निरन्तरसर्वगतं ह्यविशालविशालविहीनपरम् । मन एव निरन्तरसर्वशिवं मनसापि कथं वचसा च कथम् ॥ ३॥ दिनरात्रिविभेदनिराकरण- मुदितानुदितस्य निराकरणम् । यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ॥ ४॥ गतकामविकामविभेद इति गतचेष्टविचेष्टविभेद इति । यदि चैकनिरन्तरसर्वशिवं बहिरन्तरभिन्नमतिश्च कथम् ॥ ५॥ यदि सारविसारविहीन इति यदि शून्यविशून्यविहीन इति । यदि चैकनिरन्तरसर्वशिवं प्रथमं च कथं चरमं च कथम् ॥ ६॥ यदिभेदविभेदनिराकरणं यदि वेदकवेद्यनिराकरणम् । यदि चैकनिरन्तरसर्वशिवं तृतीयं च कथं तुरीयं च कथम् ॥ ७॥ गदिताविदितं न हि सत्यमिति विदिताविदितं नहि सत्यमिति । यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनांसि कथम् ॥ ८॥ गगनं पवनो न हि सत्यमिति धरणी दहनो न हि सत्यमिति । यदि चैकनिरन्तरसर्वशिवं जलदश्च कथं सलिलं च कथम् ॥ ९॥ यदि कल्पितलोकनिराकरणं यदि कल्पितदेवनिराकरणम् । यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारमतिश्च कथम् ॥ १०॥ मरणामरणं हि निराकरणं करणाकरणं हि निराकरणम् । यदि चैकनिरन्तरसर्वशिवं गमनागमनं हि कथं वदति ॥ ११॥ प्रकृतिः पुरुषो न हि भेद इति न हि कारणकार्यविभेद इति । यदि चैकनिरन्तरसर्वशिवं पुरुषापुरुषं च कथं वदति ॥ १२॥ तृतीयं न हि दुःखसमागमनं न गुणाद्द्वितीयस्य समागमनम् । यदि चैकनिरन्तरसर्वशिवं स्थविरश्च युवा च शिशुश्च कथम् ॥ १३॥ ननु आश्रमवर्णविहीनपरं ननु कारणकर्तृविहीनपरम् । यदि चैकनिरन्तरसर्वशिव- मविनष्टविनष्टमतिश्च कथम् ॥ १४॥ ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति । यदि चैकनिरन्तरसर्वशिव- मविनाशि विनाशि कथं हि भवेत् ॥ १५॥ पुरुषापुरुषस्य विनष्टमिति वनितावनितस्य विनष्टमिति । यदि चैकनिरन्तरसर्वशिव- मविनोदविनोदमतिश्च कथम् ॥ १६॥ यदि मोहविषादविहीनपरो यदि संशयशोकविहीनपरः । यदि चैकनिरन्तरसर्वशिव- महमत्र ममेति कथं च पुनः ॥ १७॥ महमेति ननु धर्मविधर्मविनाश इति ननु बन्धविबन्धविनाश इति । यदि चैकनिरन्तरसर्वशिवं- मिहदुःखविदुःखमतिश्च कथम् ॥ १८॥ न हि याज्ञिकयज्ञविभाग इति न हुताशनवस्तुविभाग इति । यदि चैकनिरन्तरसर्वशिवं वद कर्मफलानि भवन्ति कथम् ॥ १९॥ ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति । यदि चैकनिरन्तरसर्वशिवं ननु रागविरागमतिश्च कथम् ॥ २०॥ न हि मोहविमोहविकार इति न हि लोभविलोभविकार इति । यदि चैकनिरन्तरसर्वशिवं ह्यविवेकविवेकमतिश्च कथम् ॥ २१॥ त्वमहं न हि हन्त कदाचिदपि कुलजातिविचारमसत्यमिति । अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ॥ २२॥ गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्ण इति । अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ॥ २३॥ न हि कल्पितदेहविभाग इति न हि कल्पितलोकविभाग इति । अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ॥ २४॥ सरजो विरजो न कदाचिदपि ननु निर्मलनिश्चलशुद्ध इति । अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ॥ २५॥ न हि देहविदेहविकल्प इति अनृतं चरितं न हि सत्यमिति । अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ॥ २६॥ विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र । समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ॥ २७॥ इति षष्ठमोऽध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः ॥ रथ्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः । शून्यागारे तिष्ठति नग्नो शुद्धनिरञ्जनसमरसमग्नः ॥ १॥ लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः । केवलतत्त्वनिरञ्जनपूतो वादविवादः कथमवधूतः ॥ २॥ आशापाशविबन्धनमुक्ताः शौचाचारविवर्जितयुक्ताः । एवं सर्वविवर्जितशान्ता- स्तत्त्वं शुद्धनिरञ्जनवन्तः ॥ ३॥ कथमिह देहविदेहविचारः कथमिह रागविरागविचारः । निर्मलनिश्चलगगनाकारं स्वयमिह तत्त्वं सहजाकारम् ॥ ४॥ कथमिह तत्त्वं विन्दति यत्र रूपमरूपं कथमिह तत्र । गगनाकारः परमो यत्र विषयीकरणं कथमिह तत्र ॥ ५॥ गगनाकारनिरन्तरहंस- स्तत्त्वविशुद्धनिरञ्जनहंसः । एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविभिन्नम् ॥ ६॥ केवलतत्त्वनिरन्तरसर्वं योगवियोगौ कथमिह गर्वम् । एवं परमनिरन्तरसर्व- मेवं कथमिह सारविसारम् ॥ ७॥ केवलतत्त्वनिरञ्जनसर्वं गगनाकारनिरन्तरशुद्धम् । एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम् ॥ ८॥ योगवियोगै रहितो योगी भोगविभोगै रहितो भोगी । एवं चरति हि मन्दं मन्दं मनसा कल्पितसहजानन्दम् ॥ ९॥ बोधविबोधैः सततं युक्तो द्वैताद्वैतैः कथमिह मुक्तः । सहजो विरजः कथमिह योगी शुद्धनिरञ्जनसमरसभोगी ॥ १०॥ भग्नाभग्नविवर्जितभग्नो लग्नालग्नविवर्जितलग्नः । एवं कथमिह सारविसारः समरसतत्त्वं गगनाकारः ॥ ११॥ सततं सर्वविवर्जितयुक्तः सर्वं तत्त्वविवर्जितमुक्तः । एवं कथमिह जीवितमरणं ध्यानाध्यानैः कथमिह करणम् ॥ १२॥ इन्द्रजालमिदं सर्वं यथा मरुमरीचिका । अखण्डितमनाकारो वर्तते केवलः शिवः ॥ १३॥ धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम् । कथं रागविरागैश्च कल्पयन्ति विपश्चितः ॥ १४॥ विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र । समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ॥ १५॥ इति सप्तमोऽध्यायः ॥ ७॥
अथ अष्टमोऽध्यायः ॥ त्वद्यात्रया व्यापकता हता ते ध्यानेन चेतःपरता हता ते । स्तुत्या मया वाक्परता हता ते क्षमस्व नित्यं त्रिविधापराधान् ॥ १॥ कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥ २॥ अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः । अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ॥ ३॥ कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् । सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥ ४॥ अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः । वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः ॥ ५॥ आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः । आनन्दे वर्तते नित्यमकारं तस्य लक्षणम् ॥ ६॥ वासना वर्जिता येन वक्तव्यं च निरामयम् । वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् ॥ ७॥ धूलिधूसरगात्राणि धूतचित्तो निरामयः । धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम् ॥ ८॥ तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः । तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम् ॥ ९॥ दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा । ये पठन्ति च शृण्वन्ति तेषां नैव पुनर्भवः ॥ १०॥ इति अष्टमोऽध्यायः ॥ ८॥ इति अवधूतगीता समाप्ता ॥
As an observation, the composer has used his licence numerous times to fit the meter - eg he has used mAnasi 30 times; prefix vi- to indicate absence or negative of words such as - -mokSha, -shUnya, -mAyA, -maunam, -sarva, -bodha, -kAma, -bhoga, -lobha etc.