अनुगीता
अध्यायः १६ जनमेजय उवाच सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः । केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ १॥ वैशम्पायन उवाच कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् । तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ २॥ ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप । यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ ३॥ ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः । निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ ४॥ विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते । माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ॥ ५॥ यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ ६॥ मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो । भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ ७॥ वैशन्पायन उवाच एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत । परिष्वज्य महातेजा वचनं वदतां वरः ॥ ८॥ वासुदेव उवाच श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् । धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ ९॥ अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् । नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ १०॥ स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने । न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ ११॥ परं हि ब्रह्म कथितं योगयुक्तेन तन्मया । इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १२॥ यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि । शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ १३॥ आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम । ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ १४॥ अस्माभिः परिपृष्टश्च यदाह भरतर्षभ । दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १५॥ ब्राह्मण उवाच मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि । भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥ १६॥ तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन । शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ १७॥ कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः । आससाद द्विजं कं चिद्धर्माणामागतागमम् ॥ १८॥ गतागते सुबहुशो ज्ञानविज्ञानपारगम् । लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः ॥ १९॥ जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः । द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ २०॥ चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् । दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ २१॥ अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः । तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ २२॥ सम्भाषमाणमेकान्ते समासीनं च तैः सह । यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ २३॥ तं समासाद्य मेधावी स तदा द्विजसत्तमः । चरणौ धर्मकामो वै तपस्वी सुसमाहितः । प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ २४॥ विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् । परिचारेण महता गुरुं वैद्यमतोषयत् ॥ २५॥ प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः । भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥ २६॥ तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः । सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ २७॥ सिद्ध उवाच विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः । गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ २८॥ न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः । स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ २९॥ अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् । काममन्युपरीतेन तृष्णया मोहितेन च ॥ ३०॥ पुनः पुनश्च मरणं जन्म चैव पुनः पुनः । आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ ३१॥ मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः । सुखानि च विचित्राणि दुःखानि च मयानघ ॥ ३२॥ प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह । धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ ३३॥ अवमानाः सुकष्टाश्च परतः स्वजनात्तथा । शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ ३४॥ प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः । पतनं निरये चैव यातनाश्च यमक्षये ॥ ३५॥ जरा रोगाश्च सततं वासनानि च भूरिशः । लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥ ३६॥ ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च । लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया । ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ ३७॥ नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् । आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा ॥ ३८॥ उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा । इतः परं गमिष्यामि ततः परतरं पुनः । ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः ॥ ३९॥ नाहं पुनरिहागन्ता मर्त्यलोके परन्तप । प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ ४०॥ यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः । अभिजाने च तदहं यदर्थं मा त्वमागतः । अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ ४१॥ भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण । परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ ४२॥ बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च । येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ४३॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः ॥अध्यायः १७ वासुदेव उवाच ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् । पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ १॥ काश्यप उवाच कथं शरीरं च्यवते कथं चैवोपपद्यते । कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ २॥ आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति । शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ ३॥ कथं शुभाशुभे चायं कर्मणी स्वकृते नरः । उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ ४॥ ब्राह्मण उवाच एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत । आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ ५॥ सिद्ध उवाच आयुः कीर्तिकराणीह यानि कर्माणि सेवते । शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ ६॥ आयुः क्षयपरीतात्मा विपरीतानि सेवते । बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ ७॥ सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा । अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ ८॥ यदायमतिकष्टानि सर्वाण्युपनिषेवते । अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ॥ ९॥ दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च । गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ १०॥ व्यायाममतिमात्रं वा व्यवायं चोपसेवते । सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् ॥ ११॥ रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते । अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ १२॥ स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् । अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥ १३॥ तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा । जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४॥ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ १५॥ अत्यर्थं बलवानूष्मा शरीरे परिकोपितः । भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च ॥ १६॥ ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् । शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु । वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १७॥ जातीमरणसंविग्नाः सततं सर्वजन्तवः । दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥ १८॥ गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे । तादृशीमेव लभते वेदनां मानवः पुनः ॥ १९॥ भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः । यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति । शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ २०॥ यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः । स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ २१॥ शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते । निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ २२॥ ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः । स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् । तैरेव न विजानाति प्राणमाहारसम्भवम् ॥ २३॥ तत्रैव कुरुते काये यः स जीवः सनातनः । तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् । तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ २४॥ तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् । आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै । ततः स चेतनो जन्तुर्नाभिजानाति किं चन ॥ २५॥ तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु । स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ २६॥ ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् । निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ २७॥ स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः । अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ २८॥ ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः । इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ २९॥ यथान्ध कारे खद्योतं लीयमानं ततस्ततः । चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ ३०॥ पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा । च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ ३१॥ तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः । कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ ३२॥ ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः । इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ ३३॥ इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः । अवाक्स निरये पापो मानवः पच्यते भृशम् । तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ ३४॥ ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः । कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे । तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् ॥ ३५॥ तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् । यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् । स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ ३६॥ कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः । तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ ३७॥ न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् । इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ ३८॥ उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् । यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ३९॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः ॥
अध्यायः १८ ब्राह्मण उवाच शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् । प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ १॥ यथा प्रसूयमानस्तु फली दद्यात्फलं बहु । तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ २॥ पापं चापि तथैव स्यात्पापेन मनसा कृतम् । पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ ३॥ यथा कत्म समादिष्टं काममन्युसमावृतः । नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ ४॥ शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् । क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ ५॥ सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते । सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् । तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ ६॥ स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः । दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः । ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ ७॥ यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् । उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् ॥ ८॥ लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् । तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ ९॥ यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् । एवमेव शरीराणि प्रकाशयति चेतना ॥ १०॥ यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् । पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ ११॥ ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते । यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १२॥ तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै । आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ १३॥ दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् । दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४॥ संयमश्चानृशंस्यं च परस्वादान वर्जनम् । व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ १५॥ मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् । गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ १६॥ प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते । ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १७॥ एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः । आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १८॥ तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः । यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १९॥ अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु । यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ २०॥ वर्तमानस्य धर्मेण पुरुषस्य यथातथा । संसारतारणं ह्यस्य कालेन महता भवेत् ॥ २१॥ एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते । सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ २२॥ शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् । इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ २३॥ शरीरमात्मनः कृत्वा सर्वभूतपितामहः । त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ २४॥ ततः प्रधानमसृजच्चेतना सा शरीरिणाम् । यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ २५॥ इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् । त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ २६॥ असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः । स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ २७॥ तस्य कालपरीमाणमकरोत्स पितामहः । भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ २८॥ यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि । यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ २९॥ सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति । कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् ॥ ३०॥ यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् । संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ ३१॥ जाती मरणरोगैश्च समाविष्टः प्रधानवित् । चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ ३२॥ निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् । तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ ३३॥ शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् । प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ३४॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षोडषोऽश्द्यायः ॥
अध्यायः १९ ब्राह्मण उवाच यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् । पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १॥ सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः । व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ २॥ आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः । अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ ३॥ जीवितं मरणं चोभे सुखदुःखे तथैव च । लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते ॥ ४॥ न कस्य चित्स्पृहयते नावजानाति किं चन । निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ ५॥ अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् । त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ ६॥ नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः । धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ॥ ७॥ अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् । अस्वस्थमवशं नित्यं जन्म संसारमोहितम् ॥ ८॥ वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः । आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ ९॥ अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् । अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ १०॥ पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् । अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ ११॥ विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् । शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १२॥ विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् । परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ १३॥ अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४॥ तस्योपदेशं पश्यामि यथावत्तन्निबोध मे । यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १५॥ इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ १६॥ तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः । मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १७॥ स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि । तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ १८॥ संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ १९॥ यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति । तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ २०॥ इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् । योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ ॥ २१॥ मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् । एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ २२॥ यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् । तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ २३॥ अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते । विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ २४॥ देवानामपि देवत्वं युक्तः कारयते वशी । ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ २५॥ विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते । क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् ॥ २६॥ दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः । न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ॥ २७॥ नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते । नातः सुखतरं किं चिल्लोके क्व चन विद्यते ॥ २८॥ सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति । तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ २९॥ निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन । योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ ३०॥ दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे । पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः ॥ ३१॥ पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् । तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः ॥ ३२॥ प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते । तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः ॥ ३३॥ संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने । कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ ३४॥ दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च । हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ ३५॥ इत्युक्तः स मया शिष्यो मेधावी मधुसूदन । पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ ३६॥ भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते । कथं रसत्वं व्रजति शोणितं जायते कथम् । तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ ३७॥ कथमेतानि सर्वाणि शरीराणि शरीरिणाम् । वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् । निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ ३८॥ कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः । कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ ३९॥ जीवः कायं वहति चेच्चेष्टयानः कलेवरम् । किं वर्णं कीदृशं चैव निवेशयति वै मनः । याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥ ४०॥ इति सम्परिपृष्टोऽहं तेन विप्रेण माधव । प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम ॥ ४१॥ यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् । तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः । आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ ४२॥ एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव । आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ ४३॥ न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः । मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ ४४॥ सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् । जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥ ४५॥ स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् । आत्मानमालोकयति मनसा प्रहसन्निव ॥ ४६॥ इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम । आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् ॥ ४७॥ इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः । अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ ४८॥ वासुदेव उवाच इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः । मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ ४९॥ कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा । तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ ५०॥ नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः । नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना ॥ ५१॥ सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ । कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् ॥ ५२॥ न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ । नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ ५३॥ क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः । न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ ५४॥ परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् । यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ ५५॥ एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ५६॥ किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः । स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ ५७॥ हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने । सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः । अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ ५८॥ श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव । यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् । एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ ५९॥ एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन । षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ६०॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनविंषोऽध्यायः ॥ ॥ इति अनुगीता समाप्ता ॥ Adhyaya numbers 16-19 in Ashvamedhika, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 16-19.