अक्षर आकार:

अजगरगीता

ajagaragItA

अजगरगीता

भीष्मेण युधिष्ठिरम्प्रति प्रपञ्चस्यानित्यत्वादिज्ञानपूर्वकविरक्तेः सुखहेतुतायां प्रमाणतया प्रह्लादाजगरमुनिसंवादानुवादः ॥ १॥ युधिष्ठिर उवाच । ० केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् । किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥ १ भीष्म उवाच । २ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ २ चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् । पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥ ३ प्रह्लाद उवाच । ४ स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः । सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ ४ नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि । नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥ ५ स्रोतसा ह्रियमाणासु प्रजासु विमना इव । धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ ६ नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे । इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ ७ का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने । क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ ८ भीष्म उवाच । ९ अनुयुक्तः स मेधावी लोकधर्मविधानवित् । उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥ ९ पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः । ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ १० (७२१०२) स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः । स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥ ११ पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् । सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ १२ अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः । उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये। १३ जलजानामपि ह्यन्तं पर्यायेणोपलक्षये । महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ १४ जङ्गमस्थावराणां च भूतानामसुराधिप । पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ १५ अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम् । उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥ १६ दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च । ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥ १७ इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना । सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ १८ सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया । शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ १९ आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु । पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥ २० कणं कदाचित्खादामि पिण्याकमपि च ग्रसे । भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ २१ शये कदाचित्पर्यङ्के भूमावपि पुनः शये । प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥ २२ धारयामि च चीराणि शाणक्षौमाजिनानि च । महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ २३ न सन्निपतितं धर्म्यमुपभोगं यदृच्छया । प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ २४ अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते प्रविष्टम् । अनभिमतमसेवितं विमूढै र्व्रतमिदमाजगरं शुचिश्चरामि ॥ २५ अचलितमतिरच्युतः स्वधर्मा त्परिमितसंसरणः परावरज्ञः । विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥ २६ अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् । हृदयसुखमसेवितं कदर्यै र्व्रतमिदमाजगरं सुचिश्चरामि ॥ २७ इदमिदमिति तृष्णयाऽभिभूतं जनमनवाप्तधनं विषीदमानम् । निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥ २८ बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयं तम् । उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥ २९ सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च । विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३० अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः । उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥ ३१ अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः । अपगतफलसञ्चयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥ ३२ अपगतमसुखार्थमीहनार्थै रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् । तृपितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३३ न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च । तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३४ बहु कथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम् । इदमिदमिति तत्रतत्र हन्त स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ ३५ तदिदमनुनिशाम्य विप्रपातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः । अनवसितमनन्तदोषपारं नृपु विहरामि विनीतदोषतृष्णः ॥ ३६ भीष्म उवाच । ३७ अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः । अपगतभयलोभमोहमन्युः स खलु सुखी विचरेदिमं विहारम् ॥ ॥ ३७ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ १७७.। Mahabharata - Shanti Parva - Chapter Footnotes २ आजगरस्याऽजगरवृत्त्या जीवतः ॥ ४ निर्विधित्सो निरारम्भः ॥ ६ स्रोतसा कामादिवेगेन । कूटस्थो निर्व्यापारः ॥ ७ इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि तन्निर्वाहमात्रार्थी अश्नासि ॥ ८ प्रज्ञा तत्त्वदर्शनम् । श्रुतं तन्मूलभूतं शास्त्रम्। वृत्तिस्तदर्थानुष्ठानम्। श्रेयो ममेति शेषः ॥ ९ अनुयुक्तः पृष्टः । लोकस्य धर्मो जन्मजरादिस्तस्य विधानं कारणं तदभिज्ञः लोकधर्मविधानवित् ॥ १० अनिमित्ततः कारणहीनाद्ब्रह्मणः । पश्य आलोचय ॥ १२ तस्मादहं मनो न क्वचिद्विषये विदधे धारयामि तद्विनाशे शोकोत्पत्तिं जानन् ॥ १५ पार्थिवानां पृथिवीस्थानाम् ॥ १९ आजगरीं वृत्तिं प्रपञ्चयति सुमहान्तमित्यादिना ॥ २० आशयन्ति भोजयन्ति ॥ २६ कषायः रागद्वेषादिः ॥ २८ धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया निशाम्यालोच्य ॥ २९ अर्थहेतोरनार्यं नीचम् । अर्यं स्वामिनगाश्रयति यः कृपणो दीनजनस्तमनुदृश्योपशमरुचिः। आत्मवान् जितचित्तः ॥ ३० विधिनियतं दैवाधीनम् ॥ ३१ मतिरालोचनम् । बुद्धिर्निश्चयः। उपगतं समीपागतं फलं प्रियं येषां तान् भोगिनः सर्पान् अजगरान् निशाम्य दृष्ट्वा। फलभोगिन इति मध्यमपदलोपः ॥ ३२ प्रकृत्या दमादियुक्तः अपगतफलसञ्चयस्त्यक्तयोगफलसमूहः ॥ ३३ एषणाविषयैः पुत्रवित्तादिर्भिर्हेतुभिः । असुखार्थं परिणामे दुःखार्थम्। अपगतमात्मनः पराङ्भुखं तृषितमनियतं च मनोऽवेक्ष्य। उपगतबुद्धिर्लव्धालोकः। आत्मसंस्थमात्मनि संस्था समाप्तिर्यस्य तत्तथा तुं व्रतं चरामि ॥ shAntiparva (12), adhyAya 177 (adhyAya number defers in the scanned file.) httpsH//archive.org/details/in.ernet.dli.2015.345584