ऋषभगीता
अध्यायः १२४ य् इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि । धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥ १॥ यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर । श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ २॥ कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत । किं लक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ ३॥ भ् पुरा दुर्योधनेनेह धृतराष्ट्राय मानद । आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥ ४॥ इन्द्रप्रस्थे महाराज तव स भ्रातृकस्य ह । सभायां चावहसनं तत्सर्वं शृणु भारत ॥ ५॥ भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् । दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ॥ ६॥ श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधन वचस्तदा । अब्रवीत्कर्ण सहितं दुर्योधनमिदं वचः ॥ ७॥ किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः । श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ॥ ८॥ यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय । किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा ॥ ९॥ आच्छादयसि प्रावारानश्नासि पिशितौदनम् । आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ॥ १०॥ द् दश तानि सहस्राणि स्नातकानां महात्मनाम् । भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने ॥ ११॥ दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् । अश्वांस्तित्तिर कल्माषान्रत्नानि विविधानि च ॥ १२॥ दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् । अमित्राणां सुमहतीमनुशोचामि मानद ॥ १३॥ ध् यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे । विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ॥ १४॥ शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः । न हि किं चिदसाध्यं वै लोके शीलवतां भवेत् ॥ १५॥ एकरात्रेण मान्धाता त्र्यहेण जनमेजयः । सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ १६॥ एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः । अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ॥ १७॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ॥ १८॥ प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः । शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ॥ १९॥ ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः । उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ २०॥ ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् । कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ २१॥ एतावच्छ्रेय इत्येव बृहस्पतिरभाषत । इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ॥ २२॥ ब् विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः । तत्रागमय भद्रं ते भूय एव पुरन्दर ॥ २३॥ ध् आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः । ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ २४॥ तेनापि समनुज्ञातो भागवेण महात्मना । श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ॥ २५॥ भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः । ज्ञानमस्ति विशेषेण ततो हृष्टश् च सोऽभवत् ॥ २६॥ स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः । सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥ २७॥ प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ । त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ॥ २८॥ ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् । ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ॥ २९॥ ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने । तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ॥ ३०॥ ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् । चकार सर्वभावेन यद्वत्स मनसेच्छति ॥ ३१॥ पृष्ठश्च तेन बहुशः प्राप्तं कथमरिन्दम । त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ॥ ३२॥ प् नासूयामि द्विजश्रेष्ठ राजास्मीति कदा चन । कव्यानि वदतां तात संयच्छामि वहामि च ॥ ३३॥ ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा । ते मा कव्य पदे सक्तं शुश्रूषुमनसूयकम् ॥ ३४॥ धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् । समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ३५॥ सोऽहं वागग्रपिष्टानां रसानामवलेहिता । स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ ३६॥ एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् । यद्ब्राह्मण मुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ॥ ३७॥ ध् एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् । शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ ३८॥ यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम । वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥ ३९॥ कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः । प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ ४०॥ ब्र् यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् । भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥ ४१॥ ध् ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् । वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥ ४२॥ एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा । उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ ४३॥ दत्ते वरे गते विप्रे चिन्तासीन्महती ततः । प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ॥ ४४॥ तस्य चिन्तयतस्तात छाया भूतं महाद्युते । तेजो विग्रहवत्तात शरीरमजहात्तदा ॥ ४५॥ तमपृच्छन्महाकायं प्रह्रादः को भवानिति । प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥ ४६॥ तस्मिन्द्विज वरे राजन्वत्स्याम्यहमनिन्दितम् । योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः । इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ॥ ४७॥ तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः । शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ॥ ४८॥ धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः । तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ ४९॥ ततोऽपरो महाराज प्रज्वजन्निव तेजसा । शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ॥ ५०॥ को भवानिति पृष्टश्च तमाह स महाद्युतिः । सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ॥ ५१॥ तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः । निश्चक्राम ततस्तस्मात्पृष्ठश्चाह महात्मना । वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ॥ ५२॥ तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ । पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः । इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ॥ ५३॥ ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ । तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ॥ ५४॥ उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे । त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ॥ ५५॥ ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः । अपृच्छत च तां भूयः क्व यासि कमलालये ॥ ५६॥ त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी । कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ ५७॥ ज़्री स शक्रो ब्रह्म चारी च यस्त्वया चोपशिक्षितः । त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥ ५८॥ शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः । तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ॥ ५९॥ धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् । शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ ६०॥ भ् एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर । दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ॥ ६१॥ शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन । प्राप्यते च यथा शीलं तमुपायं वदस्व मे ॥ ६२॥ ध् सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना । सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप ॥ ६३॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ ६४॥ यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् । अपत्रपेत वा येन न तत्कुर्यात्कथं चन ॥ ६५॥ तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि । एतच्छीलं समासेन कथितं कुरुसत्तम ॥ ६६॥ यद्यप्यशीला नृपते प्राप्नुवन्ति क्व चिच्छ्रियम् । न भुञ्जते चिरं तात स मूलाश् च पतन्ति ते ॥ ६७॥ एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक । यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ॥ ६८॥ भ् एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप । एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ ६९॥अध्यायः १२५ य् शीलं प्रधानं पुरुषे कथितं ते पितामह । कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥ १॥ संशयो मे महानेष समुत्पन्नः पितामह । छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥ २॥ पितामहाशा महती ममासीद्धि सुयोधने । प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥ ३॥ सर्वस्याशा सुमहती पुरुषस्योपजायते । तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥ ४॥ सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना । धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ ५॥ आशां महत्तरां मन्ये पर्वतादपि स द्रुमात् । आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥ ६॥ एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा । दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ ७॥ भ् अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् । इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ ८॥ सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः । ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥ ९॥ स मृगो बाणमादाय ययावमितविक्रमः । स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥ १०॥ ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः । मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥ ११॥ ततः स राजा तारुण्यादौरसेन बलेन च । ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥ १२॥ तीर्त्वा नदान्नदींश्चैव पल्वलानि वनानि च । अतिक्रम्याभ्यतिक्रम्य ससारैव वनेचरन् ॥ १३॥ स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् । पुनरभ्येति जवनो जवेन महता ततः ॥ १४॥ स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः । प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १५॥ पुनश्च जवमास्थाय जवनो मृगयूथपः । अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १६॥ तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः । समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥ १७॥ ततो गव्यूति मात्रेण मृगयूथप यूथपः । तस्य बान पथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥ १८॥ तस्मिन्निपतिते बाणे भूमौ प्रजलिते ततः । प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥ १९॥ प्रविश्य तु महारण्यं तापसानामथाश्रमम् । आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥ २०॥ तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा । समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥ २१॥ ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् । केन भद्र मुखार्थेन सम्प्राप्तोऽसि तपोवनम् ॥ २२॥ पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर । एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद । कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥ २३॥ ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ । आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥ २४॥ हैहयानां कुले जातः सुमित्रो मित्रनन्दनः । चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः । बलेन महता गुप्तः सामात्यः सावरोधनः ॥ २५॥ मृगस्तु विद्धो बाणेन मया सरति शल्यवान् । तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया । भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥ २६॥ किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः । भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥ २७॥ न राज्यलक्षणत्यागो न पुरस्य तपोधनाः । दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥ २८॥ हिमवान्वा महाशैलः समुद्रो वा महोदधिः । महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा । आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥ २९॥ भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः । भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥ ३०॥ आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा । किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः । एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ ३१॥ यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् । न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ॥ ३२॥ भवत्तपो विघातो वा येन स्याद्विरमे ततः । यदि वास्ति कथा योगो योऽयं प्रश्नो मयेरितः ॥ ३३॥ एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः । भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ ३४॥
अध्यायः १२६ भ् ततस्तेषां समस्तानामृषीणामृषिसत्तमः । ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ॥ १॥ पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो । समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ २॥ यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा । यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ ३॥ तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा । पितॄणां देवतानां च ततोऽऽश्रममियां तदा ॥ ४॥ रेमाते यत्र तौ नित्यं नरनारायणावृषी । अदूरादाश्रमं कं चिद्वासार्थमगमं ततः ॥ ५॥ ततश्चीराजिनधरं कृशमुच्चमतीव च । अद्राक्षमृषिमायान्तं तनुं नाम तपो निधिम् ॥ ६॥ अन्यैर्नरैर्महाबाहो वपुषाष्ट गुणान्वितम् । कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित् ॥ ७॥ शरीरमपि राजेन्द्र तस्य कानिष्ठिका समम् । ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ ८॥ शिरः कायानुरूपं च कर्णौ नेते तथैव च । तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ ९॥ दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः । पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ १०॥ निवेद्य नामगोत्रं च पितरं च नरर्षभ । प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ ११॥ ततः स कथयामास कथा धर्मार्थसंहिताः । ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ १२॥ तस्मिंस्तु कथयत्येव राजा राजीवलोचनः । उपायाज्जवनैरश्वैः सबलः सावरोधनः ॥ १३॥ स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः । भूरिद्युम्न पिता धीमान्रघुश्रेष्ठो महायशाः ॥ १४॥ इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः । एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ॥ १५॥ दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः । एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ १६॥ दुर्लभः स मया द्रष्टुमाशा च महती मम । तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ १७॥ एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः । अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥ १८॥ तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः । उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ॥ १९॥ दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् । ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ॥ २०॥ महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः । बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥ २१॥ अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च । निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ २२॥ एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् । श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ॥ २३॥ अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः । आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ॥ २४॥ ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् । उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ २५॥ अपृच्छंश्चैव ते तत्र राजानमपराजितम् । प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ॥ २६॥ राजा वीर द्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः । भूरि द्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ २७॥ एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ । न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ २८॥ र्सभ एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः । तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ २९॥ स हि तेन पुरा विप्रो राज्ञा नात्यर्थ मानितः । आशा कृशं च राजेन्द्र तपो दीर्घं समास्थितः ॥ ३०॥ प्रतिग्रहमहं राज्ञां न करिष्ये कथं चन । अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ ३१॥ आशा हि पुरुषं बालं लालापयति तस्थुषी । तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ॥ ३२॥ र् आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् । ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ ३३॥ र्सभ ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् । राजानं भगवान्विप्रस्ततः कृश तनुस्तनुः ॥ ३४॥ कृशत्वे न समं राजन्नाशाया विद्यते नृप । तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ॥ ३५॥ र् कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव । दुर्लभत्वं च तस्यैव वेद वाक्यमिव द्विज ॥ ३६॥ संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम । तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ ३७॥ त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् । यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ॥ ३८॥ क्र्ज़ातनु दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् । सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ ३९॥ संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः । सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥ ४०॥ एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा । प्रवृत्तिं यो न जानाति साशा कृशतरी मया ॥ ४१॥ प्रसवे चैव नारीणां वृद्धानां पुत्र कारिता । तथा नरेन्द्र धनिनामाशा कृशतरी मया ॥ ४२॥ र्सभ एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः । संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥ ४३॥ राजा प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् । वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ॥ ४४॥ र्सभ अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः । सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ॥ ४५॥ ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः । पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ ४६॥ तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् । आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ॥ ४७॥ सन्दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् । विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥ ४८॥ एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् । आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥ ४९॥ भ् स तत्रोक्तो महाराज ऋषभेण महात्मना । सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ॥ ५०॥ एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम । स्थिरो भव यथा राजन्हिमवानचलोत्तमः ॥ ५१॥ त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह । श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ॥ ५२॥ ॥ इति ऋषभगीता समाप्ता ॥ Adhyaya numbers 125, 127, 129 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 125-128.