अक्षर आकार:

ईश्वरगीता कूर्मपुराणे

Ishvaragita from Kurmapurana

ईश्वरगीता कूर्मपुराणे

प्रथमोऽध्यायः ऋषय ऊचुः भवता कथितः सम्यक् सर्गः स्वायंभुवस्ततः । ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ १.१॥ तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः । ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ १.२॥ तद्वदाशेषसंसारदुःखनाशमनुत्तमम् । ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ १.३॥ त्वं हि नारायण साक्षात् कृष्णद्वैपायनात् प्रभो । अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ १.४॥ श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनात् प्रभुम् । सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ १.५॥ अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् । आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ १.६॥ तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् । व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुंगवाः ॥ १.७॥ पपात दण्डवद् भूमौ दृष्ट्वाऽसौ लोमहर्षणः । प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगोऽभवत् ॥ १.८॥ पृष्टास्तेऽनामयं विप्राः शौनकाद्या महामुनिम् । समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ १.९॥ अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः । कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ १.१०॥ ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् । ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ १.११॥ इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः । शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ १.१२॥ ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् । मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ १.१३॥ ३श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ १.१४॥ व्यास उवाच वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा । सनत्कुमारप्रमुखैः स स्वयं समभाषत ॥ १.१५॥ सनत्कुमारः सनकस्तथैव च सनन्दनः । अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ १.१६॥ कणादः कपिलो योगी वामदेवो महामुनिः । शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ १.१७॥ परस्परं विचार्यैते संशयाविष्टचेतसः । तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ १.१८॥ अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् । नारायणमनाद्यन्तं नरेण सहितं तदा ॥ १.१९॥ संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः । प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ १.२०॥ विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् । प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ १.२१॥ अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् । साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ १.२२॥ वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः । भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ १.२३॥ त्वं हि वेत्सि परमं गुह्यं सर्वन्तु भगवानृषिः । नारायणः स्वयं साक्षात् पुराणोऽव्यक्तपूरुषः ॥ १.२४॥ नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वरम् । शुश्रूषाऽस्माकमखिलं संशयं छेत्तुमर्हसि ॥ १.२५॥ किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा । कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ १.२६॥ कः संसारपतीशानः को वा सर्वं प्रपश्यति । किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ १.२७॥ एवमुक्ता तु मुनयः प्रापश्यन् पुरुषोत्तमम् । विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ १.२८॥ विभ्राजमानं विमलं प्रभामण्डलमण्डितम् । श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ १.२९॥ शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् । न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ १.३०॥ तदन्तरे महादेवः शशाङ्काङ्कितशेखरः । प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ १.३१॥ निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् । तुष्टबुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ १.३२॥ जयेश्वर महादेव जय भूतपते शिव । जयाशेषमुनीशान तपसाऽभिप्रपूजित ॥ १.३३॥ सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्त्तक । जयानन्त जगज्जन्मत्राणसंहारकारक ॥ १.३४॥ सहस्रचरणेशान शंभो योगीन्द्रवन्दित । जयाम्बिकापते देव नमस्ते परमेश्वर ॥ १.३५॥ संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः । समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ १.३६॥ किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः । इमं समागता देशं किं वा कार्यं मयाऽच्युत ॥ १.३७॥ आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः । प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ १.३८॥ इमे हि मुनयो देव तापसाः क्षीणकल्पषाः । अभ्यागतानां शरणं सम्यग्दर्शनकाङ्क्षिणाम् ॥ १.३९॥ यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् । सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ १.४०॥ त्वं हि वेत्सि स्वमात्मानं न ह्यन्यो विद्यते शिव । ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ १.४१॥ एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान् । प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ १.४२॥ संदर्शनान्महेशस्य शंकरस्याथ शूलिनः । कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ १.४३॥ द्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् । ममैव सन्निधावेव यथावद् वक्तुमीश्वरः ॥ १.४४॥ निशम्य विष्णोर्वचनं प्रणम्य वृषभध्वजम् । सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ १.४५॥ अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् । किमप्यचिन्त्यं गगनादीश्वरार्थे समुद्बभौ ॥ १.४६॥ तत्राससाद योगात्मा विष्णुना सह विश्वकृत् । तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ १.४७॥ ततो देवादिदेवेशं शंकरं ब्रह्मवादिनः । विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ १.४८॥ यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा । अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ १.४९॥ यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते । तमासनस्थं भूतानामीशं ददृशिरे किल ॥ १.५०॥ यदन्तरा सर्वमेतद् यतोऽभिन्नमिदं जगत् । सवासुदेवमासीनं तमीशं ददृशुः किल ॥ १.५१॥ प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः । निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ १.५२॥ तच्छृणुध्वं यथान्यायमुच्यमानं मयाऽनघाः । प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ १.५३॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमोऽध्यायः ॥ १॥
द्वितीयोऽध्यायः ईश्वर उवाच । अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् । यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१॥ इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः । न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२॥ गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः । वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३॥ आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः । अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४॥ सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः । स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५॥ अस्माद् विजायते विश्वमत्रैव प्रविलीयते । स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६॥ न चाप्ययं संसरति न च संसारमयः प्रभुः । नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७॥ न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च । न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८॥ न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः । न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ॥ २.९॥ न माया नैव च प्राणा चैतन्यं परमार्थतः । यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ॥ २.१०॥ तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः छायातपौ यथा लोके परस्परविलक्षणौ ॥ २.११॥ तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः । तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ॥ २.१२॥ नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि । पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ॥ २.१३॥ विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् । अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः ॥ २.१४॥ सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः । वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ॥ २.१५॥ भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् । तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ॥ २.१६॥ अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् । नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ॥ २.१७॥ अहंकाराविवेकेन कर्त्ताहमिति मन्यते । पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ॥ २.१८॥ प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः । तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ॥ २.१९॥ स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः । अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ॥ २.२०॥ रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः । कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ॥ २.२१॥ तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः । नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ॥ २.२२॥ एकः स भिद्यते शक्त्या मायया न स्वभावतः । तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ॥ २.२३॥ भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया । यथा हि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ॥ २.२४॥ अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते । यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ॥ २.२५॥ उपाधिहीनो विमलस्तथैवात्मा प्रकाशते । ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ॥ २.२६॥ अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः । कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ॥ २.२७॥ दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः । यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ॥ २.२८॥ रक्तिकाद्युपधानेन तद्वत् परमपूरुषः । तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ॥ २.२९॥ उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः । यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ॥ २.३०॥ योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् । यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ॥ २.३१॥ सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा । यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ॥ २.३२॥ एकीभूतः परेणासौ तदा भवति केवलम् । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ॥ २.३३॥ तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः । यदा भूतपृथग्भावमेकस्थमनुपश्यति ॥ २.३४॥ तत एव च विस्तारं ब्रह्म सम्पद्यते तदा । यदा पश्यति चात्मानं केवलं परमार्थतः ॥ २.३५॥ मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६॥ यदा जन्मजरादुःखव्याधीनामेकभेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७॥ यथा नदीनदा लोके सागरेणैकतां ययुः । तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८॥ तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः । अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९॥ तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् । अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४०॥ एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् । सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१॥ योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते । योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२॥ यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते । एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३॥ अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः । मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४॥ यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् । ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५॥ एष आत्माऽहमव्यक्तो मायावी परमेश्वरः । कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६॥ सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः । सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७॥ अपाणिपादो जवनो ग्रहीता हृदि संस्थितः । अचक्षुरपि पश्यामि तथाऽकर्णः श‍ृणोम्यहम् ॥ २.४८॥ वेदाहं सर्वमेवेदं न मां जानाति कश्चन । प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९॥ पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः । निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५०॥ यन्न देवा विजानन्ति मोहिता मम मायया । वक्ष्ये समाहिता यूयं श‍ृणुध्वं ब्रह्मवादिनः ॥ २.५१॥ नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः । प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२॥ यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३॥ तेषां हि वशमापन्ना माया मे विश्वरूपिणी । लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५॥ तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः । मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २॥
तृतीयोऽध्यायः ईश्वर उवाच अव्यक्तादभवत् कालः प्रधानं पुरुषः परः । तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ ३.१॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३.२॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ ३.३॥ सर्वोपमानरहितं प्रमाणातीतगोचरम् । निर्वकल्पं निराभासं सर्वावासं परामृतम् ॥ ३.४॥ अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् । निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ ३.५॥ स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः । सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ ३.६॥ मया ततमिदं विश्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ ३.७॥ प्रधानं पुरुषं चैव तद्वस्तु समुदाहृतम् । तयोरनादिरुद्दिष्टः कालः संयोगजः परः ॥ ३.८॥ त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् । तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ ३.९॥ महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् । या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ ३.१०॥ पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् । अहंकारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ ३.११॥ आद्यो विकारः प्रकृतेर्महानिति च कथ्यते । विज्ञातृशक्तिर्विज्ञानात् ह्यहंकारस्तदुत्थितः ॥ ३.१२॥ एक एव महानात्मा सोऽहंकारोऽभिधीयते । स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ ३.१३॥ तेन वेदयते सर्वं सुखं दुः खं च जन्मसु । स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ ३.१४॥ तेनापि तन्मयस्तस्मात् संसारः पुरुषस्य तु । स चाविवेकः प्रकृतौ सङ्गात् कालेन सोऽभवत् ॥ ३.१५॥ कालः सृजति भूतानि कालः संहरति प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३.१६॥ सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः । प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ ३.१७॥ सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः । मनसश्चाप्यहंकारमहंकारान्महान् परः ॥ ३.१८॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ ३.१९॥ प्राणात् परतरं व्योम व्योमातीतोऽग्निरीश्वरः । सोऽहं ब्रह्माव्ययः शान्तो ज्ञानात्मा परमेश्वरः । नास्ति मत्तः परं भूतं मां विज्ञाय मुच्यते ॥ ३.२०॥ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ ३.२१॥ सोऽहं सृजामि सकलं संहरामि सदा जगत् । मायी मायामयो देवः कालेन सह सङ्गतः ॥ ३.२२॥ मत्सन्निधावेष कालः करोति सकलं जगत् । नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ ३.२३॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) तृतीयोऽध्यायः ॥ ३॥
चतुर्थोऽध्यायः ईश्वर उवाच । वक्ष्ये समाहिता यूयं श‍ृणुध्वं ब्रह्मवादिनः । माहात्म्यं देवदेवस्य येने सर्वं प्रवर्त्तते ॥ ४.१॥ नाहं तपोभिर्विविधैर्न दानेन न चेज्यया । शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ ४.२॥ अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः । मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ४.३॥ यस्यान्तरा सर्वमिदं यो हि सर्वान्तकः परः । सोऽहंधाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ ४.४॥ न मां पश्यन्ति मुनयः सर्वे पितृदिवौकसः । ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ४.५॥ गृणन्ति सततं वेदा मामेकं परमेश्वरम् । यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ४.६॥ सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः । ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ४.७॥ अहं हि सर्वहविषां भोक्ता चैव फलप्रदः । सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसम्प्लुतः ॥ ४.८॥ मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः । तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ४.९॥ ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते । तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ ४.१०॥ अन्येऽपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४.११॥ न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः । आदावेव प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ ४.१२॥ यो वै निन्दति तं मूढो देवदेवं स निन्दति । यो हि पूजयते भक्त्या स पूजयति मां सदा ॥ ४.१३॥ पत्रं पुष्पं फलं तोयं मदाराधनकारणात् । यो मे ददाति नियतं स मे भक्तः प्रियो मतः ॥ ४.१४॥ अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् । विदधौ दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ ४.१५॥ अहमेव हि सर्वेषां योगिनां गुरुरव्ययः । धार्मिकाणां च गोप्ताऽहं निहन्ता वेदविद्विषाम् ॥ ४.१६॥ अहं वै सर्वसंसारान्मोचको योगिनामिह । संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ ४.१७॥ अहमेव हि संहर्त्ता संस्रष्टा परिपालकः । मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ ४.१८॥ ममैव च परा शक्तिर्या सा विद्यते गीयते । नाशयामि च तां मायां योगिनां हृदि संस्थितः ॥ ४.१९॥ अहं हि सर्वशक्तीनां प्रवर्त्तकनिवर्त्तकः । आधारभूतः सर्वासां निधानममृतस्य च ॥ ४.२०॥ एका सर्वान्तरा शक्तिः करोति विविधं जगत् । आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ ४.२१॥ अन्या च शक्तिर्विपुला संस्थापयति मे जगत् । भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ ४.२२॥ तृतीया महती शक्तिर्निहन्ति सकलं जगत् । तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ ४.२३॥ ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे । अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ ४.२४॥ सर्वेषामेव भक्तानामिष्टः प्रियतमो मम । यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ ४.२५॥ अन्ये च हरये भक्ता मदाराधनकाङ्क्षिणः । तेऽपि मां प्राप्नुवन्त्येव नावर्त्तन्ते च वै पुनः ॥ ४.२६॥ मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् । मय्येव संस्थितं चित्तं मया सम्प्रेर्यते जगत् ॥ ४.२७॥ नाहं प्रेरयिता विप्राः परमं योगमाश्रितः । प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ ४.२८॥ पश्याम्यशेषमेवेदं वर्त्तमानं स्वभावतः । करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ ४.२९॥ योगः सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः । योगेश्वरोऽसौ भगवान् महादेवो महान् प्रभुः ॥ ४.३०॥ महत्त्वं सर्वतत्त्वानां वरत्वात् परमेष्ठिनः । प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्मयोऽमलः ॥ ४.३१॥ यो मामेवं विजानाति महायोगेश्वरेश्वरम् । सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ४.३२॥ सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः । नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ४.३३॥ इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् । प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ४.३४॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थोऽध्यायः ॥ ४॥
पञ्चमोऽध्यायः व्यास उवाच । एतावदुक्त्वा भगवान् योगिनां परमेश्वरः । ननर्त्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ ५.१॥ तं ते ददृशुरीशानं तेजसां परमं निधिम् । नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ ५.२॥ यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः । तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ५.३॥ यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् । नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ५.४॥ यत् पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् । जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५.५॥ यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः । ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ५.६॥ योऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः । तमेव मोचनं रुद्रमाकाशे ददृशुः परम् ॥ ५.८॥ सहस्रशिरसं देवं सहस्रचरणाकृतिम् । सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ५.८॥ वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् । दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ५.९॥ ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् । दंष्ट्राकरालं दुर्द्धर्षं सूर्यकोटिसमप्रभम् ॥ ५.१०॥ अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् । सृजन्तमनलज्वालं दहन्तमखिलं जगत् । नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ५.११॥ महादेवं महायोगं देवानामपि दैवतम् । पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ ५.१२॥ पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ५.१३॥ उमापतिं विरूपाक्षं योगानन्दमयं परम् । ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ ५.१४॥ शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् । महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ ५.१५॥ आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् । योगिनां परमं ब्रह्म योगिनां योगवन्दितम् । योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥॥ क्षणेन जगतो योनिं नारायणमनामयम् ॥ ५.१६॥ ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः । दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् । कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ ५.१८॥ सनत्कुमारः सनको भृगुश्चसनातनश्चैव सनन्दनश्च । रैभ्योऽङ्गिरा वामदेवोऽथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ ५.१८॥ दृष्ट्वाऽथ रुद्रं जगदीशितारंतं पद्मनाभाश्रितवामभागम् । ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्नाबद्ध्वाञ्जलिं स्वेषु शिरः सु भूयः ॥ ५.१९॥ ओङ्कारमुच्चार्य विलोक्य देव-मन्तः शरीरे निहितं गुहायाम् । समस्तुवन् ब्रह्ममयैर्वचोभि-रानन्दपूर्णायतमानसास्ते ॥ ५.२०॥ मुनय ऊचुः त्वामेकमीशं पुरुषं पुराणंप्राणेश्वरं रुद्रमनन्तयोगम् । नमाम सर्वे हृदि सन्निविष्टंप्रचेतसं ब्रह्ममयं पवित्रम् ॥ ५.२१॥ त्वां पश्यन्ति मुनयो ब्रह्मयोनिंदान्ताः शान्ता विमलं रुक्मवर्णम् । ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ ५.२२॥ त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः । अणोरणीयान् महतो महीयां-स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ५.२३॥ हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः । संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ५.२४॥ त्वत्तो वेदाः सकलाः सम्प्रसूता-स्त्वय्येवान्ते संस्थितिं ते लभन्ते । पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५.२५॥ त्वयैवेदं भ्राम्यते ब्रह्मचक्रंमायावी त्वं जगतामेकनाथः । नमामस्त्वां शरणं सम्प्रपन्नायोगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ५.२६॥ पश्यामस्त्त्वां परमाकाशमध्येनृत्यन्तं ते महिमानं स्मरामः । सर्वात्मानं बहुधा सन्निविष्टंब्रह्मानन्दमनुभूयानुभूय ॥ ५.२८॥ ॐकारस्ते वाचको मुक्तिबीजंत्वमक्षरं प्रकृतौ गूढरूपम् । तत्त्वां सत्यं प्रवदन्तीह सन्तःस्वयंप्रभं भवतो यत्प्रभावम् ॥ ५.२८॥ स्तुवन्ति त्वां सततं सर्ववेदानमन्ति त्वामृषयः क्षीणदोषाः । शान्तात्मानः सत्यसंधं वरिष्ठविशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ५.२९॥ एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् । वंन्द्यं त्वां ये शरणं सम्प्रपन्ना-स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५.३०॥ भवानीशोऽनादिमांस्तेजोराशि-र्ब्रह्मा विश्वं परमेष्ठी वरिष्टः । स्वात्मानन्दमनुभूय विशन्तेस्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ५.३१॥ एको रुद्रस्त्वं करोषीह विश्वंत्वं पालयस्यखिलं विश्वरूपम् । त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं सम्प्रपन्नाः ॥ ५.३२॥ त्वामेकमाहुः कविमेकरुद्रंब्रह्मं बृहन्तं हरिमग्निमीशम् । इन्द्रं मृत्युमनिलं चेकितानंधातारमादित्यमनेकरूपम् ॥ ५.३३॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषोत्तमोऽसि ॥ ५.३४॥ त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः । त्वं विश्वनाथः प्रकृतिः प्रतिष्ठासर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ ५.३५॥ त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् । चिन्मात्रमव्यक्तमचिन्त्यरूपंखं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ ५.३६॥ यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् । किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ५.३८॥ योगेश्वरं भद्रमनन्तशक्तिंपरायणं ब्रह्मतनुं पुराणम् । नमाम सर्वे शरणार्थिनस्त्वांप्रसीद भूताधिपते महेश ॥ ५.३८॥ त्वत्पादपद्मस्मरणादशेष-संसारबीजं निलयं प्रयाति । मनो नियम्य प्रणिधाय कायंप्रसादयामो वयमेकमीशम् ॥ ५.३९॥ नमो भवायास्तु भवोद्भवायकालाय सर्वाय हराय तुम्यम् । नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ ५.४०॥ ततः स भगवान् प्रीतः कपर्दी वृषवाहनः । संहृत्य परमं रूपं प्रकृतिस्थोऽभवद् भवः ॥ ५.४१॥ ते भवं बूतभव्येशं पूर्ववत् समवस्थितम् । दृष्ट्वा नारायणं देवं विस्मितं वाक्यमब्रुवन् ॥ ५.४२॥ भगवन् भूतभव्येश गोवृषाङ्कितशासन । दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ५.४३॥ भवत्प्रसादादमले परस्मिन् परमेश्वरे । अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ५.४४॥ इदानीं श्रोतुमिच्छामो माहात्म्यं तव शंकर । भूयोऽपि तारयन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ५.४५॥ स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः । प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५.४६॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमोऽध्यायः ॥ ५॥
षष्ठोऽध्यायः ईश्वर उवाच । श‍ृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः । वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ ६.१॥ सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता । सर्वलोकैकसंहर्त्ता सर्वात्माऽहं सनातनः ॥ ६.२॥ सर्वेषामेव वस्तूनामन्तर्यामी महेश्वरः । मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ ६.३॥ भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् । ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ ६.४॥ सर्वेषामेव भावानामन्तरा समवस्थितः । प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ ६.५॥ ययेदं चेष्टते विश्वं तत्स्वभावानुवर्त्ति च । सोऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ ६.६॥ एकांशेन जगत् कृत्स्नं करोमि मुनिपुंगवाः । संहराम्येकरूपेण स्थिताऽवस्था ममैव तु ॥ ६.७॥ आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्त्तकः । क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ ६.८॥ ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् । महदादिक्रमेणैव मम तेजो विजृम्भते ॥ ६.९॥ यो हि सर्वजगत्साक्षी कालचक्रप्रवर्त्तकः । हिरण्यगर्भो मार्त्तण्डः सोऽपि मद्देहसंभवः ॥ ६.१०॥ तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् । दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ ६.११॥ स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः । दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ ६.१२॥ स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् । भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ ६.१३॥ योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः । ममैव परमा मूर्तिः करोति परिपालनम् ॥ ६.१४॥ योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः । मदाज्ञयाऽसौ सततं संहरिष्यति मे तनुः ॥ ६.१५॥ हव्यं वहति देवानां कव्यं कव्याशिनामपि । पाकं च कुरुते वह्निः सोऽपि मच्छक्तिनोदितः ॥ ६.१६॥ भुक्तमाहारजातं च पचते तदहर्निशम् । वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ॥ ६.१७॥ योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः । सोऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ ६.१८॥ योऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः । मदाज्ञयाऽसौ भूतानां शरीराणि बिभर्ति हि ॥ ६.१९॥ योऽपि संजीवनो नॄणां देवानाममृताकरः । सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ ६.२०॥ यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा । सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ ६.२१॥ योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः । यज्वनां फलदो देवो वर्त्ततेऽसौ मदाज्ञया ॥ ६.२२॥ यः प्रशास्ता ह्यसाधूनां वर्त्तते नियमादिह । यमो वैवस्वतो देवो देवदेवनियोगतः ॥ ६.२३॥ योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः । सोऽपीश्वरनियोगेन कुबेरो वर्त्तते सदा ॥ ६.२४॥ यः सर्वरक्षसां नाथस्तामसानां फलप्रदः । मन्नियोगादसौ देवो वर्त्तते निरृतिः सदा ॥ ६.२५॥ वेतालगणभूतानां स्वामी भोगफलप्रदः । ईशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञया ॥ ६.२६॥ यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः । रक्षको योगिनां नित्यं वर्त्ततेऽसौ मदाज्ञया ॥ ६.२७॥ यश्च सर्वजगत्पूज्यो वर्त्तते विघ्नकारकः । विनायको धर्मरतः सोऽपि मद्वचनात् किल ॥ ६.२८॥ योऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः । स्कन्दोऽसौ वर्त्तते नित्यं स्वयंभूर्विधिचोदितः ॥ ६.२९॥ ये च प्रजानां पतयो मरीच्याद्या महर्षयः । सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ ६.३०॥ या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् । पत्नी नारायणस्यासौ वर्त्तते मदनुग्रहात् ॥ ६.३१॥ वाचं ददाति विपुलां या च देवी सरस्वती । साऽपीश्वरनियोगेन चोदिता सम्प्रवर्त्तते ॥ ६.३२॥ याऽशेषपुरुषान् घोरान्नरकात् तारयिष्यति । सावित्री संस्मृता देवी देवाज्ञाऽनुविधायिनी ॥ ६.३३॥ पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी । याऽपि ध्याता विशेषेण सापि मद्वचनानुगा ॥ ६.३४॥ योऽनन्तमहिमाऽनन्तः शेषोऽशेषामरप्रभुः । दधाति शिरसा लोकं सोऽपि देवनियोगतः ॥ ६.३५॥ योऽग्निः संवर्त्तको नित्यं वडवारूपसंस्थितः । पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ ६.३६॥ ये चतुर्दश लोकेऽस्मिन् मनवः प्रथितौजसः । पालयन्ति प्रजाः सर्वास्तेऽपि तस्य नियोगतः ॥ ६.३७॥ आदित्या वसवो रुद्रा मरुतश्च तथाऽश्विनौ । अन्याश्च देवताः सर्वा मच्छास्त्रेणैव निष्ठिताः ॥ ६.३८॥ गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः । यक्षरक्षः पिशाचाश्च स्थिताः सृष्टाः स्वयंभुवः ॥ ६.३९॥ कलाकाष्ठानिमेषाश्च मुहूर्त्ता दिवसाः क्षपाः । ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ ६.४०॥ युगमन्वन्तराण्येव मम तिष्ठन्ति शासने । पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ ६.४१॥ चतुर्विधानि बूतानि स्थावराणि चराणि च । नियोगादेव वर्त्तन्ते देवस्य परमात्मनः ॥ ६.४२॥ पातालानि च सर्वाणि भुवनानि च शासनात् । ब्रह्माण्डानि च वर्त्तन्ते सर्वाण्येव स्वयंभुवः ॥ ६.४३॥ अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया । प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ ६.४४॥ ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः । वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ ६.४५॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्नियोगे मम वर्त्तते ॥ ६.४६॥ योऽशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् । माया विवर्त्तते नित्यं सापीश्वरनियोगतः ॥ ६.४७॥ यो वै देहभृतां देवः पुरुषः पठ्यते परः । आत्माऽसौ वर्त्तते नित्यमीश्वरस्य नियोगतः ॥ ६.४८॥ विधूय मोहकलिलं यया पश्यति तत् पदम् । साऽपि बुद्धिर्महेशस्य नियोगवशवर्त्तिनी ॥ ६.४९॥ बहुनाऽत्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥॥ मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ ६.५०॥ अहं हि भगवानीशः स्वयं ज्योतिः सनातनः । परमात्मार परं ब्रह्म मत्तो ह्यन्यो न विद्यते ॥ ६.५१॥ इत्येतत् परमं ज्ञानं युष्माकं कथितं मया । ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६.५२॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) षष्ठोऽध्यायः ॥ ६॥
सप्तमोऽध्यायः ईश्वर उवाच । श‍ृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः । यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ ७.१॥ परात् परतरं ब्रह्म शाश्वतं निष्कलं परम् । नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ ७.२॥ अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः । मायाविनामहं देवः पुराणो हरिरव्ययः ॥ ७.३॥ योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा । आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ ७.४॥ रुद्राणां शंकरश्चाहं गरुडः पततामहम् । ऐरावतो गजेन्द्राणां रामः शस्त्रप्रभृतामहम् ॥ ७.५॥ ऋषीणां च वसिष्ठोऽहं देवानां च शतक्रतुः । शिल्पिनां विश्वकर्माऽहं प्रह्लादोऽस्म्यमरद्विषाम् ॥ ७.६॥ मुनीनामप्यहं व्यासो गणानां च विनायकः । वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥ ७.७॥ पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः । वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ ७.८॥ अनन्तो भोगिनां देवः सेनानीनां च पावकिः । आश्रमाणां च गृहस्थोऽहमीश्वराणां महेश्वरः ॥ ७.९॥ महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् । कुबेरः सर्वयक्षाणां गणेशानां च वीरुकः ॥ ७.१०॥ प्रजापतीनां दक्षोऽहं निरृतिः सर्वरक्षसाम् । वायुर्बलवतामस्मि द्वीपानां पुष्करोऽस्म्यहम् ॥ ७.११॥ मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च । वेदानां सामवेदोऽहं यजुषां शतरुद्रियम् ॥ ७.१२॥ सावित्री सर्वजप्यानां गुह्यानां प्रणवोऽस्म्यहम् । सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ ७.१३॥ सर्ववेदार्थविदुषां मनुः स्वायंभुवोऽस्म्यहम् । ब्रह्मावर्त्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ ७.१४॥ विद्यानामात्मविद्याऽहं ज्ञानानामैश्वरं परम् । भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ ७.१५॥ पाशानामस्म्यहं माया कालः कलयतामहम् । गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ ७.१६॥ यच्चान्यदपि लोकेऽस्मिन् सत्त्वं तेजोबलाधिकम् । तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ ७.१७॥ आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्त्तिनः । तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ७.१८॥ मायापाशेन बध्नामि पशूनेतान् स्वलीलया । मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ ७.१९॥ मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते । मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ ७.२०॥ चतुर्विशतितत्त्वानि माया कर्म गुणा इति । एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ ७.२१॥ मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ ७.२२॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ ७.२३॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि ॥ ७.२४॥ चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् । अनादिमध्यनिधनं कारणं जगतः परम् ॥ ७.२५॥ सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् । साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ ७.२६॥ सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृतम् । गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ ७.२७॥ धर्माधर्माविति प्रोक्तौ पाशौ द्वौ कर्मसंज्ञितौ । मय्यर्पितानि कर्माणि नबन्धाय विमुक्तये ॥ ७.२८॥ अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् । क्लेशाख्यांस्तान् स्वयं प्राह पाशानात्मनिबन्धनान् ॥ ७.२९॥ एतेषामेव पाशानां माया कारणमुच्यते । मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ ७.३०॥ स एव मूलप्रकृतिः प्रधानं पुरुषोऽपि च । विकारा महदादीनि देवदेवः सनातनः ॥ ७.३१॥ स एव बन्धः स च बन्धकर्त्तास एव पाशः पशुभृत्स एव । स वेद सर्वं न च तस्य वेत्तातमाहुराद्यं पुरुषं पुराणम् ॥ ७.३२॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमोऽध्यायः ॥ ७॥
अष्टमोऽध्यायः ईश्वर उवाच । अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः । येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ ८.१॥ अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलोऽव्ययः । एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ ८.२॥ मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् । मूल मायाभिधानं तं ततो जातमिदं जगत् ॥ ८.३॥ प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च । तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ८.४॥ ततोऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् । तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ८.५॥ ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते । न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ८.६॥ यासु योनिषु सर्वासु संभवन्ति हि मूर्त्तयः । तासां माया परा योनिर्मामेव पितरं विदुः ॥ ८.७॥ यो मामेवं विजानाति बीजिनं पितरं प्रभुम् । स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८.८॥ ईशानः सर्वविद्यानां भूतानां परमेश्वरः । ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ८.९॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ८.१०॥ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परांगतिम् ॥ ८.११॥ विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ८.१२॥ सर्वज्ञता तृप्तिरनादिबोधः स्वतन्दता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ ८.१३॥ तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्ततत्त्वात्मकानि । या सा हेतुः प्रकृतिः सा प्रधानंबन्धः प्रोक्तो विनियोगोऽपि तेन ॥ ८.१४॥ या सा शक्तिः प्रकृतौ लीनरूपावेदेषूक्ता कारणं ब्रह्मयोनिः । तस्या एकः परमेष्ठी पुरस्ता-न्महेश्वरः पुरुषः सत्यरूपः ॥ ८.१५॥ ब्रहामा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः । एको रुद्रो मृत्युमव्यक्तमेकंबीजं विश्वं देव एकः स एव ॥ ८.१६॥ तमेवैकं प्राहुरन्येऽप्यनेकं त्वेकात्मानं केचिदन्यंतमाहुः । अणोरणीयान् महतो महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ ८.१७॥ एवम् हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिंसबुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ ८.१८॥ इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमोऽध्यायः ॥ ८॥
नवमोऽध्यायः ऋषय ऊचुः । निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः । तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ ९.१॥ ईश्वर उवाच । नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः । मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ॥ ९.२॥ अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया । तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ॥ ९.३॥ अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् । अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ९.४॥ तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः । एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ॥ ९.५॥ अहं तत् परमं ब्रह्म परमात्मा सनातनः । अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ९.६॥ अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः । तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ९.७॥ याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् । एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ९.८॥ पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् । अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ॥ ९.९॥ तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् । तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ ९.१०॥ तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ९.११॥ यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ ९.१२॥ वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् । तद् विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ॥ ९.१३॥ यस्मात् परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् । तदेवात्मानं मन्यमानोऽथ विद्वा- नात्मनन्दी भवति ब्रह्मभूतः ॥ ९.१४॥ तदप्ययं कलिलं गूढदेहं ब्रह्मानन्दममृतं विश्वधामा । वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्त्तेत भूयः ॥ ९.१५॥ हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः । तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥ ९.१६॥ ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूय साक्षात् । स्वयंप्रभुः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ॥ ९.१७॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । तमेवैकं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वतीनेतरेषाम् ॥ ९.१८॥ सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ ९.१९॥ इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः । गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ ९.२०॥ इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमोऽध्यायः ॥ ९॥
दशमोऽध्यायः ईश्वर उवाच । अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् । स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १०.१॥ अव्यक्तं कारणं यत्तदक्षरं परमं पदम् । निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ १०.२॥ तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः । पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ १०.३॥ अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुंगवाः । नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ १०.४॥ एतत्तत्परमं ज्ञानं केवलं कवयो विदुः । अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ १०.५॥ यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् । ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ॥ १०.६॥ येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम् । आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ १०.७॥ ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् । भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ १०.८॥ साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् । नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ १०.९॥ भजन्ते परमानन्दं सर्वगं जगदात्मकम् । स्वात्मन्यवस्थिताः शान्ताः परऽव्यक्ते परस्य तु ॥ १०.१०॥ एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् । निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ १०.११॥ तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् । स ईश्वरो महादेवस्तं विज्ञाय प्रमुच्यते ॥ १०.१२॥ न तत्र सूर्यः प्रविभातीह चन्द्रो नक्षत्राणां गणो नोत विद्युत् । तद्भासितं ह्यखिलं भाति विश्वं अतीवभासममलं तद्विभाति ॥ १०.१३॥ विश्वोदितं निष्कलं निर्विकल्पं शुद्धं बृहन्तं परमं यद्विभाति । अत्रान्तरे ब्रह्मविदोऽथ नित्यं पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ १०.१४॥ नित्यानन्दममृतं सत्यरूपं शुद्धं वदन्ति पुरुषं सर्ववेदाः । तमोमिति प्रणवेनेशितारं धायायन्ति वेदार्थविनिश्चितार्थाः ॥ १०.१५॥ न भूमिरापो न मनो न वह्निः प्राणोऽनिलो गगनं नोत बुद्धिः । न चेतनोऽन्यत् परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥ १०.१६॥ इत्येतदुक्तं परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गूढम् । जानाति योगी विजनेऽथ देशे युञ्जीत योगं प्रयतो ह्यजस्त्रम् ॥ १०.१७॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमोऽध्यायः ॥ १०॥
एकादशोऽध्यायः ईश्वर उवाच । अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् । येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ ११.१॥ योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् । प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ ११.२॥ योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते । योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ ११.३॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा । ये युञ्जन्ति महायोगं ते विज्ञेया महेश्वराः ॥ ११.४॥ योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः । अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ ११.५॥ शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते । अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ ११.६॥ यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् । मयैक्यं स महायोगो भाषितः परमेश्वरः ॥ ११.७॥ ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे । सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ ११.८॥ यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् । सर्वेषामेव योगानां स योगः परमो मतः ॥ ११.९॥ सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः । न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ ११.१०॥ प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा । समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ ११.११॥ मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः । तत्साधनानि चान्यानि युष्माकं कथितानि तु ॥ ११.१२॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ ११.१३॥ कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । अक्लेशजननं प्रोक्ता त्वहिंसा परमर्षिभिः ॥ ११.१४॥ अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् । विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्त्तिता ॥ ११.१५॥ सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् । यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ ११.१६॥ परद्रव्यापहरणं चौर्यादऽथ बलेन वा । स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ ११.१७॥ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ ११.१८॥ द्रव्याणामप्यनादानमापद्यपि तथेच्छया । अपरिग्रहं इत्याहुस्तं प्रयत्नेन पालयेत् ॥ ११.१९॥ तपः स्वाध्यायसंतोषौ शौचमीश्वरपूजनम् । समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ ११.२०॥ उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ ११.२१॥ वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः । सत्त्वसिद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ ११.२२॥ स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः । उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ ११.२३॥ यः शब्दबोधजननः परेषां श‍ृण्वतां स्फुटम् । स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ ११.२४॥ ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकम् । उपांशुरेष निर्दिष्टः साहस्रवाचिकोजपः ॥ ११.२५॥ यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् । चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ ११.२६॥ यदृच्छालाभतो नित्यमलं पुंसो भवेदिति । प्राशस्त्यमृषयः प्राहुः संतोषं सुखलक्षणम् ॥ ११.२७॥ बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः । मृज्जलाभ्यां स्मृतं बाह्यं मनः शुद्धिरथान्तरम् ॥ ११.२८॥ स्तुतिस्मरणपूजाभिर्वाङ्मनः कायकर्मभिः । सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ ११.२९॥ यमाश्च नियमाः प्रोक्ताः प्राणायामं निबोधत । प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ ११.३०॥ उत्तमाधममध्यत्वात् त्रिधाऽयं प्रतिपादितः । य एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ॥ ११.३१॥ मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशान्मात्रिकोत्तमः ॥ ११.३२॥ यः स्वेदकम्पनोच्छ्वासजनकस्तु यथाक्रमम् । मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ ११.३३॥ सगर्भमाहुः सजपमगर्भं विजपं बुधाः । एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ ११.३४॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ ११.३५॥ रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ११.३६॥ रेचको बाह्यनिश्वासः पूरकस्तन्निरोधनः । साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ ११.३७॥ इन्द्रियाणां विचरतां विषयेषु स्वबावतः । निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ ११.३८॥ हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वसुस्तके । एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ ११.३९॥ देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः । वृत्त्यन्तरैरसृष्टा या तद्ध्यानं सूरयो विदुः ॥ ११.४०॥ एकाकारः समाधिः स्याद् देशालम्बनवर्जितः । प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ ११.४१॥ धारणा द्वादशायामा ध्यानं द्वादशधारणाः । ध्यानं द्वादशकं यावत् समाधिरभिधीयते ॥ ११.४२॥ आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा । साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ ११.४३॥ ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे । समासीनात्मनः पद्ममेतदासनमुत्तमम् ॥ ११.४४॥ एकं पादमथैकस्मिन् विष्टभ्योरसि सत्तमाः । आसीनार्द्धासनमिदं योगसाधनमुत्तमम् ॥ ११.४५॥ उभे कृत्वा पादतले जानूर्वोरन्तरेण हि । समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ ११.४६॥ अदेशकाले योगस्य दर्शनं हि न विद्यते । अग्न्यभ्यासे जले वाऽपि शुष्कपर्णचये तथा ॥ ११.४७॥ जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे । सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये ॥ ११.४८॥ अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते । नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ॥ ११.४९॥ सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु । नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ ११.५०॥ गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते । युञ्जीत योगी सततमात्मानं मत्परायणः ॥ ११.५१॥ नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् । गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ११.५२॥ आसनं स्वस्तिकं बद्ध्वा पद्ममर्द्धमथापि वा । नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ ११.५३॥ कृत्वाऽथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् । स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ॥ ११.५४॥ शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाऽथ पङ्कजम् । धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ ११.५५॥ ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् । चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ॥ ११.५६॥ सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् । ओंकारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ ११.५७॥ चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् । तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ ११.५८॥ ध्यायीताकाशमध्यस्थमीशं परमकारणम् । तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत् ॥ ११.५९॥ एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते । चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ ११.६०॥ आत्मानमथ कर्त्तारं तत्रानलसमत्विषम् । मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ ११.६१॥ चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् । ओंकरबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ ११.६२॥ अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् । तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ ११.६३॥ ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् । विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ ११.६४॥ संस्थाप्य मयि चात्मानं निर्मले परमे पदे । प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ ११.६५॥ मदात्मा मन्मना भस्म गृहीत्वा त्वग्निहोत्रजम् । तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ॥ ११.६६॥ चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् । एष पाशुपतो योगः पशुपाशविमुक्तये ॥ ११.६७॥ सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः । एतत् परतरं गुह्यं मत्सायुज्य प्रदायकम् ॥ ११.६८॥ द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् । ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ॥ ११.६९॥ संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः । एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ॥ ११.७०॥ तस्मादात्मुगुणोपेतो मद्व्रतं वोढुमर्हति । वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ॥ ११.७१॥ बहवोऽनेन योगेन पूता मद्भावमागताः । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ ११.७२॥ ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् । अथवा भक्तियोगेन वैराग्येण परेण तु ॥ ११.७३॥ चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः । सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः ॥ ११.७४॥ प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् । अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ॥ ११.७५॥ निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः । संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ॥ ११.७६॥ मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः । यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ॥ ११.७७॥ हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः । अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ११.७८॥ सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः । तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ॥ ११.७९॥ अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति । सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ॥ ११.८०॥ मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् । चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ॥ ११.८१॥ निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् । त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ॥ ११.८२॥ कर्मण्यपिप्रवृत्तोऽपि नैव तेन निबध्यते । निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥ ११.८३॥ शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् । यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ॥ ११.८४॥ कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् । मन्मना मन्नमस्कारो मद्याजी मत्परायणः ॥ ११.८५॥ मामुपास्ते योगीशं ज्ञात्वा मां परमेश्वरम् । मद्बुद्धयो मां सततं बोधयन्तः परस्परम् ॥ ११.८६॥ कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः । एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ॥ ११.८७॥ नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता । मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः ॥ ११.८८॥ तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् । येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ॥ ११.८९॥ तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् । ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ॥ ११.९०॥ मद्भावनासमायुक्ता मुच्यन्ते तेऽपि मानवाः । तस्माद्विनश्वरानन्यांस्त्यक्त्वा देवानशेषतः ॥ ११.९१॥ मामेव संश्रयेदीशं स याति परमं पदम् । त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ॥ ११.९२॥ यजेच्चामरणाल्लिङ्गं विरक्तः परमेश्वरम् । येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ॥ ११.९३॥ एकेन जन्मना तेषां ददामि परमैश्वरम् । परात्मनः सदा लिङ्गं केवलं सन्निरञ्जनम् ॥ ११.९४॥ ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् । ये चान्ये नियता भक्ता भावयित्वा विधानतः ॥ ११.९५॥ यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् । जले वा वह्निमध्ये वा व्योम्नि सूर्येऽथवाऽन्यतः ॥ ११.९६॥ रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् । सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ॥ ११.९७॥ तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् । अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ॥ ११.९८॥ काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गंतुयोगिनाम् । यद्यनुत्पन्निविज्ञानो विरक्तः प्रीतिसंयुतः ॥ ११.९९॥ यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः । अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ॥ ११.१००॥ एकाकी यतचित्तात्मा स याति परमं पदम् । वसेच्चामरणाद् विप्रो वाराणस्यां समाहितः ॥ ११.१०१॥ सोऽपीश्वरप्रसादेन याति तत् परमं पदम् । तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ॥ ११.१०२॥ ददाति तत् परं ज्ञानं येन मुच्यते बन्धनात् । वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ॥ ११.१०३॥ तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् । येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ॥ ११.१०४॥ सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः । किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ॥ ११.१०५॥ धर्मन् समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः । एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ॥ ११.१०६॥ धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे । व्यास उवाच । इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ॥ ११.१०७॥ व्याजहार समासीनं नारायणमनामयम् । मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ॥ ११.१०८॥ दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् । उक्त्वैवमर्थं योगीन्द्रानब्रवीद् भगवानजः ॥ ११.१०९॥ हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः । भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ॥ ११.११०॥ उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम । अयं नारायणो योऽहमीश्वरो नात्र संशयः ॥ ११.१११॥ नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् । ममैषा परमा मूर्त्तिर्नारायणसमाह्वया ॥ ११.११२॥ सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता । ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ॥ ११.११३॥ ते मुक्तिं प्रपश्यन्ति जायन्ते च पुनः पुनः । ये त्वेनं विष्णुमव्यक्तं माञ्च देवं महेश्वरम् ॥ ११.११४॥ एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः । तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ॥ ११.११५॥ मामेव सम्प्रपश्यध्वं पूजयध्वं तथैव हि । येऽन्यथा मां प्रपश्यन्ति मत्वेवं देवतान्तरम् ॥ ११.११६॥ ते यान्ति नरकान् घोरान् नाहं तेषु व्यवस्थितः । मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ॥ ११.११७॥ मोचयामि श्वपाकं वा न नारायणनिन्दकम् । तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ॥ ११.११८॥ अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि । एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् ॥ ११.११९॥ अन्तर्हितोऽभवत् तेषां सर्वेषामेव पश्यताम् । नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् ॥ ११.१२०॥ जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः । ज्ञानं भवद्भिरमलं प्रसादात् परमेष्ठिनः ॥ ११.१२१॥ साक्षाद्देव महेशस्य ज्ञानं संसारनाशनम् । गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ॥ ११.१२२॥ प्रवर्त्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः । इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ॥ ११.१२३॥ विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः । एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ॥ ११.१२४॥ नारायणो महायोगी जगामादर्शनं स्वयम् । तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ॥ ११.१२५॥ नारायणं च भूतादिं स्वानि स्थानानि लेभिरे । सनत्कुमारो भगवान् संवर्त्ताय महामुनिः ॥ ११.१२६॥ दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु । सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये ॥ ११.१२७॥ प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः । अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ॥ ११.१२८॥ जैगीषव्याय कपिलस्तथा पञ्चशिखाय च । पराशरोऽपि सनकात् पिता मे सर्वतत्त्वदृक् ॥ ११.१२९॥ लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् । ममोवाच पुरा देवः सतीदेहभवाङ्गजः ॥ ११.१३०॥ वामदेवो महायोगी रुद्रः किल पिनाकधृक् । नारायणोऽपि भगवान् देवकीतनयो हरिः ॥ ११.१३१॥ अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् । यदाहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ॥ ११.१३२॥ विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् । शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ॥ ११.१३३॥ भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् । भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् ॥ ११.१३४॥ प्रपद्यन्तां सपत्नीकाः सपुत्राः शरणं शिवम् । वर्त्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम् ॥ ११.१३५॥ पूजयध्वं महादेव गोपतिं व्यालभूषणम् । एवमुक्ते पुनस्ते तु शौनकाद्या महेश्वरम् ॥ ११.१३६॥ प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् । अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ॥ ११.१३७॥ साक्षाद्देवं हृषीकेशं सर्वलोकमहेश्वरम् । भवत्प्रसादादचला शरण्ये गोवृषध्वजे ॥ ११.१३८॥ इदानीं जायते भक्तिर्या देवैरपि दुर्लभा । कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ॥ ११.१३९॥ येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः । त्वत्संनिधावेव सूतः श‍ृणोतु भगवद्वचः ॥ ११.१४०॥ तद्वच्चाखिललोकानां रक्षणं धर्मसंग्रहम् । यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ॥ ११.१४१॥ पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने । श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ॥ ११.१४२॥ मुनीनां भाषितं कृत्स्नं प्रोवाच सुसमाहितः । य इमं पठते नित्यं संवादं कृत्तिवाससः ॥ ११.१४३॥ सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते । श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् ॥ ११.१४४॥ यो वा विचारयेदर्थं स याति परमां गतिम् । यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ॥ ११.१४५॥ सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते । तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ॥ ११.१४६॥ श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ॥ ११.१४७॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशोऽध्यायः ॥ ११॥ sa.wikisource.org kUrmapurANa uttarabhAge adhyAya 1-11 https://archive.org/details/puran\_kurma