अक्षर आकार:

श्रीविघ्नेश्वराष्टोत्तरशतनामावलिः

Shri Vighneshvara Ashtottarashatanamavali 108 names

श्रीविघ्नेश्वराष्टोत्तरशतनामावलिः

ॐ विनायकाय नमः । विघ्नराजाय । गौरीपुत्राय । गणेश्वराय । स्कन्दाग्रजाय । अव्ययाय । पूताय । दक्षाय । अध्यक्षाय । द्विजप्रियाय । अग्निगर्भच्छिदे । इन्द्रश्रीप्रदाय । वाणीबलप्रदाय । सर्वसिद्धिप्रदाय । शर्वतनयाय । शर्वरीप्रियाय । सर्वात्मकाय । सृष्टिकर्त्रे । देवाय । अनेकार्चिताय नमः । २० ॐ शिवाय नमः । शुद्धाय । बुद्धिप्रियाय । शान्ताय । ब्रह्मचारिणे । गजाननाय । द्वैमात्रेयाय । मुनिस्तुत्याय । भक्तविघ्नविनाशनाय । एकदन्ताय । चतुर्बाहवे । चतुराय । शक्तिसंयुताय । लम्बोदराय । शूर्पकर्णाय । हरये । ब्रह्मविदे । उत्तमाय । कालाय । ग्रहपतये नमः । ४० ॐ कामिने नमः । सोमसूर्याग्निलोचनाय । पाशाङ्कुशधराय । चण्डाय । गुणातीताय । निरञ्जनाय । अकल्मषाय । स्वयंसिद्धाय । सिद्धार्चितपदाम्बुजाय । बीजपूरफलासक्ताय । वरदाय । शाश्वताय । कृतये । द्विजप्रियाय । वीतभयाय । गदिने । चक्रिणे । इक्षुचापधृते । विद्वत्प्रियाय । श्रीदाय नमः । ६० ॐ अजाय नमः । उत्पलकराय । श्रीपतये । स्तुतिहर्षिताय । कुलाद्रिभेत्त्रे । जटिलाय । कलिकल्मषनाशनाय । चन्द्रचूडामणये । कान्ताय । पापहारिणे । समाहिताय । आश्रिताय । श्रीकराय । सौम्याय । भक्तवाञ्छितदायकाय । शान्ताय । कैवल्यसुखदाय । सच्चिदानन्दविग्रहाय । ज्ञानिने । दयायुताय नमः । ८० ॐ दान्ताय । ब्रह्मणे । द्वेषविवर्जिताय । प्रमत्तदैत्यभयदाय । श्रीकण्ठाय । विबुधेश्वराय । रमार्चिताय । विधये । नागराजयज्ञोपवीतकाय । स्थूलकण्ठाय । स्वयङ्कर्त्रे । सामघोषप्रियाय । पराय । स्थूलतुण्डाय । अग्रण्ये । धीराय । वागीशाय । सिद्धिदायकाय । दूर्वाबिल्वप्रियाय । अव्यक्तमूर्तये नमः । १०० ॐ अद्भुतमूर्तिमते नमः । शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसाय । स्वलावण्यसुधासाराय । जितमन्मथविग्रहाय । समस्तजगदाधाराय । मायिने । मूषकवाहनाय । हृष्टाय । तुष्टाय । प्रसन्नात्मने । सर्वसिद्धिप्रदायकाय नमः । १११ इति विघ्नेशाष्टोत्तरशतनामावलिः समाप्ता ।