अक्षर आकार:

विघ्नराजस्तुतिः ममासुरेण प्रोक्ता

Vighnaraja Stuti by Mamasura

विघ्नराजस्तुतिः ममासुरेण प्रोक्ता

ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये! । तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् । १० ममासुर उवाच - विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने । अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११॥ गणेशाय गणानां तु चालकाय परात्मने । आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२॥ हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये । लम्बोदराय वै तुभ्यं भक्तपाल! नमो नमः ॥ १३॥ स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे । शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४॥ ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक! । विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५॥ आदिपूज्याय चान्ते तेऽवशिष्टाय ते नमः । सिद्धिबुद्धिपते तुभ्यं चतुर्भुज! नमो नमः ॥ १६॥ शेषस्योपरि संस्थाय नागेशध्वजधारिणे । गजाननाय देवेश! नमो दैत्येशरूपिणे ॥ १७॥ भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने । योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८॥ नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः । भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९॥ समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् । विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २०॥ तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः । धन्यं मे जन्मकर्मादि येन दृष्टो गजाननः ॥ २१॥ किं स्तौमि त्वां गणेशान! यत्र वेदादयः प्रभो! । शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२॥ विघ्नेश उवाच - त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५॥ निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति । मम भक्तिप्रदं चैतन्मम भावहरं सदा ॥ २६॥ इति ममासुरेणप्रोक्ता विघ्नराजस्तुतिः समाप्ता । ७.८