अक्षर आकार:

महागणपत्येकविंशतिनामस्तोत्रम्

Mahaganapati 21 names

महागणपत्येकविंशतिनामस्तोत्रम्

ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥ १॥ अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥ २॥ काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः । मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ ३॥ यः स्तौति मद्गतमना ममाराधनतत्परः । स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ ४॥ नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलकरैकसिद्धये नमो नमः करिकलमाननाय ते ॥ ५॥ किङ्किणीगणरणितस्तव चरणः प्रकटितगुरुमितिचारित्रगणः । मदजललहरिकलितकपोलः शमयतु दुरितङ्गणपतिनृपनामा ॥ ६॥ इति महागणपत्येकविंशतिनामस्तोत्रं सम्पूर्णम् ।