अक्षर आकार:

श्रीगणेशप्रातःस्मरणम्

Ganesha Pratahsmarana

श्रीगणेशप्रातःस्मरणम्

उत्तिष्ठोत्तिष्ठ हेरम्ब उत्तिष्ठ ब्रह्मणस्पते । सर्वदा सर्वतः सर्वविघ्नान्मां पाहि विघ्नप ॥ आयुरारोग्यमैश्वर्यं माम् प्रदाय स्वभक्तिमत् । स्वेक्षणाशक्तिराद्या ते दक्षिणा पातु मं सदा ॥ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥ प्रातर्नमामि चतुराननवन्द्यमान- मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥ प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं वरकुञ्जरास्यम् । अज्ञानकाननविनाशनहव्यवाह- मुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३॥ श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् । प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४॥ कराग्रे सत्प्रभा बुद्धिः कमला करमध्यगा । करमूले मयूरेशः प्रभाते करदर्शनम् ॥ ज्ञानरूपवराहस्य पत्नि कर्मस्वरूपिणि । सर्वाधारे धरे नौमि पादस्पर्शं क्षमस्व मे ॥ तारश्रीनर्मदादूर्वाशमीमन्दारमोदित । द्विरदास्य मयूरेश दुःस्वप्नहर पाहि माम् ॥ वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ गणनाथसरस्वतीरविशुक्रबृहस्पतीन् । पञ्चैतानि स्मरेन्नित्यं वेदवाणीप्रवृत्तये ॥ विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सर्स्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ अगजानपद्मार्कं गजाननमहिर्निशं । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ नमस्तस्मै गणेशाय यत्कण्डः पुष्करायते । यदाभोगधनध्वान्तो नीलकण्ठस्य ताण्डवे ॥ कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातरि । विघ्नानि नाशमायान्तु सर्वाणि सुरनायक ॥ नमस्ते विघ्नसंहर्त्रे नमस्ते ईप्सितप्रद । नमस्ते देवदेवेश नमस्ते गणनायक ॥ ॥ इति श्रीगणेशप्रातःस्मरणम् ॥