अक्षर आकार:

गजाननस्तोत्रम्

gajAnanastotram

गजाननस्तोत्रम्

नमस्ते गजवक्त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दवासिने नमः ॥ २॥ रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥ सुकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥ ४॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥ देवरक्षकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो ॥ ८॥ हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति । स्वाहास्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥ इति श्रीगजाननस्तोत्रं सम्पूर्णम् ।