अक्षर आकार:

श्रीगणेश्वरप्रमाणिका

shrIgaNeshvarapramANikA

श्रीगणेश्वरप्रमाणिका

ॐ श्रीरामजयम् । सद्गुरु श्रीत्यागराजस्वामिने नमो नमः । ॐ विनायकाय विद्महे । विघ्नघ्नाय च धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ अथ श्रीगणेश्वरप्रमाणिका । गणेशनाममोदनं कराम्बुजस्थमोदकम् । वरप्रसाददैविकं सुरासुरार्चितं वरम् ॥ १॥ कुविघ्नवारणं गणं सुहासहस्तिवक्त्रकम्। शिवाशिवस्य पुत्रकं शिवाकरं शिवंकरम् ॥ २॥ सुकार्यसादरानुतं सुकाव्यपुष्पवर्षकम्। सुभाषदं सुगानदं सुनामकीर्तनामुदम् ॥ ३॥ सुनामकं सुबोधदं लयश्रुतिप्रनृत्यकम् । सुकाव्यनादरासकं सुरासशब्दभावकम् ॥ ४॥ सुरागदं विरागदं लयाश्रयं लयास्पदम् । सदामुदं मुदारसं सदा भजे गणेश्वरम् ॥ ५॥ गुरुप्रगेयनाटकं गुरुप्रसन्नकीर्तनम् । गुरुप्रसादकीर्तितं गुरुप्रसाददायकम् ॥ ६॥ गणेश्वरप्रमाणिका गणेश्वरप्रसादिका। गणेश्वरप्रसादजा गणेश्वरप्रसाददा॥ ७॥ प्रसादकाय मङ्गलं रुजापहाय मङ्गलम्। गणेश्वराय मङ्गलं सुमङ्गलाय मङ्गलम् ॥ ८॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता श्रीगणेश्वरप्रमाणिका गुरौ समर्पिता । ॐ शुभमस्तु । Copyright Pushpa Srivatsan