अक्षर आकार:

गणेशस्तुतिगीतम्

Ganesha Stutigitam

गणेशस्तुतिगीतम्

हेमजासुतं भजे गणेशमीशनन्दनं एकदन्त वक्रतुण्ड नागयज्ञसूत्रकम् । रक्तगात्र धूम्रनेत्र शुक्लवस्त्रमण्डितं कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ १॥ पाशपाणि चक्रपाणि मूषकादिरोहिणं अग्निकोटि सूर्यज्योति वज्रकोटि निर्मलम् । चित्रभाल भक्तिजाल भालचन्द्रशोभितं कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ २॥ भूतभव्य हव्यकव्य भृगुभार्गवार्चितं दिव्यवह्नि कालजाल लोकपालवन्दितम् । पूर्णब्रह्म सूर्यवर्ण पूरुषं पुरान्तकं कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ३॥ विश्ववीर्य विश्वसूर्य विश्वकर्मनिर्मलं विश्वहर्ता विश्वकर्ता यत्र तत्र पूजितम् । चतुर्मुखं चतुर्भुजं सेवितं चतुर्यगं कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ४॥ ऋद्धि बुद्धि अष्टसिद्धि नवनिधानदायकं यज्ञकर्म सर्वधर्म सर्ववर्णार्चितम । पूत धूम्र दुष्ट मुष्ट दायकं विनायकं कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ५॥ हर्षरूप वर्षरूप पुरुषरूपवन्दितं शूर्पकर्ण रक्तवर्ण रक्तचन्दनलेपितम् । योग इष्ट योग सृष्ट योग दृष्टिदायकं कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ६॥ इति गणेशस्तुतिगीतं समाप्तम् ।