अक्षर आकार:

गणेशस्तुतिः पञ्चदेवैः कृता

Ganesha Stuti by Panchadevas

गणेशस्तुतिः पञ्चदेवैः कृता

श्रीगणेशाय नमः । पञ्चदेवा ऊचुः ॥ नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥ २६॥ हेरंबाय नमस्तुभ्यं ढुण्ढिराजाय ते नमः । विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २७॥ लम्बोदराय सिद्धेश गजाननधराय च । शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ २८॥ लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप । अनन्तमहिमाधार धरणीधर ते नमः ॥ २९॥ नमो मायामयायैव मायाहीनाय ते नमः । मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ ३०॥ पञ्चभूतमयायैव पञ्चभूतधराय च । इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ ३१॥ अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः । अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ ३२॥ प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे । चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ ३३॥ विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे । विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ ३४॥ आनन्दाय नमस्तुभ्यमानन्दपतये नमः । आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ ३५॥ चैतन्याय च यत्नाय चेतनाधारिणे नमः । चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ ३६॥ बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च । भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ ३७॥ सोऽहंमात्राय शून्याय शुन्याधाराय देहिने । शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ ३८॥ ज्ञानाय बोधनाथाय बोधानां बोधकारिणे । मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ ३९॥ विदेहाय नमस्तुभ्यं विदेहाधारकाय च । विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ ४०॥ नानाभेदधरायैव चैकानेकादिमूर्तये । असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ ४१॥ अमृताय सदाखण्डभेदाभेदविवर्जित । सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ ४२॥ सत्यासत्यविहीनाय समस्वानन्दमूर्तये । आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ ४३॥ अव्यक्ताय परेशाय नेतिनेतिमयाय च । शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ ४४॥ संयोगेन च सर्वत्र समाधौ रूपधारिणे । स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ ४५॥ अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे । मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ ४६॥ शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते । योगानां पतये चैव योगरूपाय ते नमः ॥ ४७॥ गणेशाय परेशाय ह्यपारगुणकीर्तये । योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ ४८॥ गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः । स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ ४९॥ तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः । प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ ५०॥ इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे । गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ ५१॥ श्रीगणेश उवाच । पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः । तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ ५२॥ भवत्कृतमिदं स्तोत्रं परमाल्हादवर्धनम् । मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ ५३॥ यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् । पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ ५४॥ सप्तवारं पठेन्नित्यमेकविंशतिवासरम् । कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ ५५॥ एककालं द्विकालं वा त्रिकालमपि यः पठेत् । स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ ५६॥ मारणोच्चाटनादिभ्य एकविंशतिवारतः । तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ ५७॥ धनधान्यादिकं सर्वमारोग्यं पशुवर्धनम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ५८॥ इति पञ्चदेवैः कृता गणेशस्तुतिः । १.११