अक्षर आकार:

श्रीगणेशस्तवराजः

shrIgaNeshastavarAjaH

श्रीगणेशस्तवराजः

गणेशाष्टकम् च । श्रीगणेशाय नमः । श्रीभगवानुवाच । गणेशस्य स्तवं वक्ष्ये कलौ झटिति सिद्धिदम् । न न्यासो न च संस्कारो न होमो न च तर्पणम् ॥ १॥ न मार्जनं च पञ्चाशत्सहस्रजपमात्रतः । सिद्ध्यत्यर्चनतः पञ्चशत-ब्राह्मणभोजनात् ॥ २॥ अस्य श्रीगणेशस्तवराजमन्त्रस्य भगवान् सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीमहागणपतिर्देवता, श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः । विनायकैक-भावना-समर्चना-समर्पितं प्रमोदकैः प्रमोदकैः प्रमोद-मोद-मोदकम् । यदर्पितं सदर्पितं नवान्नधान्यनिर्मितं न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ १॥ सजातिकृद्-विजातिकृत-स्वनिष्ठभेदवर्जितं निरञ्जनं च निर्गुणं निराकृतिं ह्यनिष्क्रियम् सदात्मकं चिदात्मकं सुखात्मकं परं पदं भजामि तं गजाननं स्वमाययात्तविग्रहम् ॥२। गणाधिप! त्वमष्टमूर्तिरीशसूनुरीश्वर- स्त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः । त्वमेवं दीक्षितः क्षितिर्निशाकरः प्रभाकर- श्चराऽचर-प्रचार-हेतुरन्तराय-शान्तिकृत् ॥ ३॥ अनेकदं तमाल-नीलमेकदन्त-सुन्दरं गजाननं नमोऽगजाननाऽमृताब्धि-चन्दिरम् । समस्त-वेदवादसत्कला-कलाप-मन्दिरं महान्तराय-कृत्तमोऽर्कमाश्रितोऽन्दरूं परम् ॥ ४॥ सरत्नहेम-घण्टिका-निनाद-नुपुरस्वनै- मृदङ्ग-तालनाद-भेदसाधनानुरूपतः । धिमि-द्धिमि-त्तथोंग-थोङ्ग-थैयि-थैयिशब्दतो विनायकः शशाङ्कशेखरः प्रहृष्य नृत्यति ॥ ५॥ सदा नमामि नायकैकनायकं विनायकं कलाकलाप-कल्पना-निदानमादिपरूषम् । गणेश्वरं गुणेश्वरं महेश्वरात्मसम्भवं स्वपादपद्म-सेविना-मपार-वैभवप्रदम् ॥ ६॥ भजे प्रचण्ड-तुन्दिलं सदन्दशूकभूषणं सनन्दनादि-वन्दितं समस्त-सिद्धसेवितम् । सुराऽसुरौघयोः सदा जयप्रदं भयप्रदं समस्तविघ्न-घातिनं स्वभक्त-पक्षपातिनम् ॥ ७॥ कराम्बुजात-कङ्कणः पदाब्ज-किङ्किणोगणो गणेश्वरो गुणार्णवः फणीश्वराङ्गभूषणः । जगत्त्रयान्तराय-शान्तिकारकोऽस्तु तारको भवार्णवस्थ-घोरदुर्गहा चिदेकविग्रहः ॥ ८॥ यो भक्तिप्रवणश्चरा-ऽचर-गुरोः स्तोत्रं गणेशाष्टकं शुद्धः संयतचेतसा यदि पठेन्नित्यं त्रिसन्ध्यं पुमान् । तस्य श्रीरतुला स्वसिद्धि-सहिता श्रीशारदा सर्वदा स्यातां तत्परिचारिके किल तदा काः कामनानां कथाः ॥ ९॥ ॥ इति श्रीरुद्रयामलोक्तो गणेशस्तवराजः सम्पूर्णः ॥