अक्षर आकार:

श्रीगणेशपञ्चाशन्नामस्तोत्रम्

Shri Ganesha Panchashat Nama Stotram Ganesha's 50 Names

श्रीगणेशपञ्चाशन्नामस्तोत्रम्

श्री गणेशाय नमः । ऋषय ऊचुः । गणेशो गणनाथश्च हेरम्बो गिरिशात्मजः । पार्वतीनन्दनो वीरो देवराजो गजाननः ॥ १॥ लम्बोदरो विघ्नराजो योगी सद्योगलक्षणः । अग्रपूज्यश्चतुर्बाहुरेकदन्तो लिपीश्वरः ॥ २॥ व्याघ्रचर्माम्बरो धीरः सदामङ्गलरूपवान् । शुक्लास्यो मूषिकारोही केवलो मोक्षदायकः ॥ ३॥ पद्मी दन्तकरो दन्ती वैष्णवः परमार्थदृक् । पञ्चपाणिः पञ्चवक्त्रः शिवः शङ्कर ईश्वरः ॥ ४॥ हरिगाता नृत्यकारी शिवपुत्रः स्रवन्मदः । आनन्दान्दोलितमनाः शैवो धर्मो धनेश्वरः ॥ ५॥ अनन्तो जगदाधारः शशिसूर्यविलोचनः । समुद्रपाता सामुद्रः समुद्रजठरो यमः ॥ ६॥ दिव्यरूपो वारिनाथो जयश्च विजयस्तथा । नामान्येतानि पञ्चाशद्गणेशस्य पठेन्नरः ॥ ७॥ यात्रायां पूजने दाने श्राद्धे गङ्गावगाहने । पुत्रादिमङ्गले कार्ये प्रत्यहञ्च त्रिसन्ध्यकम् ॥ ८॥ श‍ृणुयाद्यः भक्तियुक्तो विघ्नास्तस्य विमूर्छिताः । प्रत्यहं मङ्गलं तस्य धनपुत्रादिसम्भवम् । इष्टदेवमहाभक्तिदायकं वाञ्छितार्थदम् ॥ ९॥ इति श्रीगणेशपञ्चाशन्नामस्तोत्रं सम्पूर्णम् ।