अक्षर आकार:

श्रीगणेशनामाष्टकस्तोत्रं

Shri Ganesha Namashtaka Stotram

श्रीगणेशनामाष्टकस्तोत्रं

श्रीकृष्ण उवाच - श्रुणु देवि महाभागे वेदोक्तं वचनं मम । यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः । विनायकस्ते तनयो महात्मा महतां महान् ॥ यं कामः क्रोध उद्वेगो भयं नाविशते कदा । वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥ नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः । यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥ प्रमथानां गणा यै च नानारूपा महाबलाः । तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ १॥ गणेशः भूतानि च भविष्याणि वर्तमानानि यानि च । ब्रह्माण्डान्यखिलान्येव यस्मिंल्लम्बोदरः स तु ॥ २॥ लम्बोदरः यः शिरो देवयोगेन छिन्नं संयोजितं पुनः । गजस्य शिरसा देवि तेन प्रोक्तो गजाननः ॥ ३॥ गजानन चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः । अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥ ४॥ ततोऽभवत् भालचन्द्रः शप्तः पुरा सप्तभिस्तु मुनिभिः सङ्क्षयं गतः । जातवेदा दीपितोऽभूद्येनासौ शूर्पकर्णकः ॥ ५॥ शूर्पकर्णः पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः । विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥ ६॥ विघ्ननाशः अद्यायं देवि रामेण कुठारेण निपात्य च । दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ ७॥ एकदन्तः भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभः । वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ ८॥ वक्रतुण्डः एवं तवास्य पुत्रस्य सन्ति नामानि पार्वती । स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ ९॥ अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे । मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ १०॥ जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च । यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ ११॥ सङ्कष्टे काम्यसिद्‍ध्यर्थं पूजयेद्यो गजाननम् । तस्य सर्वाणि कार्याणि सिद्‍ध्यन्त्येव न संशयः ॥ १२॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायान्तर्गतं श्रीकृष्णप्रोक्तं श्रीगणेशनामाष्टकस्तोत्रं सम्पूर्णम् ॥ ४२॥ From Brahmanda Purana Verses 2.42.28 through 2.42.44