अक्षर आकार:

श्रीगणेशदशोत्तरशतनामावलिः

shrIgaNeshadashottarashatanAmAvaliH

श्रीगणेशदशोत्तरशतनामावलिः

ॐ विघ्नेशाय नमः । विश्ववरदाय (विश्ववदनाय) । विश्वचक्षुषे । जगत्प्रभवे (जगत्पतये) । हिरण्यरूपाय । सर्वात्मने । ज्ञानरूपाय । जगन्मयाय । ऊध्वरेतसे । महाबाहवे नमः ॥ १० ॐ अमेयाय नमः । अमितविक्रमाय । वेदवेद्याय । महाकालाय (महाकायाय) । विद्यानिधये । अनामयाय । सर्वज्ञाय । सर्वगाय । शान्ताय । गजास्याय नमः ॥ २० ॐ चित्तेश्वराय नमः । विगतज्वराय । विश्वमूर्तये । अमेयात्मने । विश्वाधाराय । सनातनाय । सामगानप्रियाय । मन्त्रिणे । सत्त्वाधाराय । सुराधीशाय (सुराधिपाय) नमः ॥ ३० ॐ समस्तसाक्षिणे नमः । निर्द्वन्द्वाय । निर्लोकाय (निर्लिप्ताय) । अमोघविक्रमाय । निर्मलाय । पुण्याय । कामदाय । कान्तिदाय । (कवये) कामरूपिणे । कामपोषिणे (कामवेषाय) नमः ॥ ४० ॐ कमलाक्षाय नमः । गजाननाय (कलाधराय) । सुमुखाय । शर्मदाय । मूषकाधिपवाहनाय । शुद्धाय । दीर्घतुण्डाय (दीर्घतुण्डधराय) । श्रीपतये (श्रीमते) । अनन्ताय । मोहवर्जिताय नमः ॥ ५० ॐ वक्रतुण्डाय नमः । शूर्पकर्णाय । परमाय (पवनाय) । (पावनाय) योगीशाय । योगधाम्ने (योगिवन्द्याङ्ध्रये । उमासुताय (उमासूनवे) । आपद्धन्त्रे (अघापहाय) । एकदन्ताय । महाग्रीवाय । शरण्याय नमः ॥ ६० ॐ सिद्धसेनाय (सिद्धिसेविताय) नमः । सिद्धवेदाय (सिद्धिदाय) । करुणाय । सिद्धाय । (करुणासिन्धवे) भगवते । अव्यग्राय (भव्यविग्रहाय) । विकटाय । कपिलाय । ढुण्ढिराजाय (ढुण्ढये) । उग्राय । भीमोदराय (भीमाय) नमः ॥ ७० ॐ हराय नमः । शुभाय । गणाध्यक्षाय । गणेशाय । गणाराध्याय । गणनायकाय । ज्योतिःस्वरूपाय । भूतात्मने । धूम्रकेतवे । अनुकूलाय नमः ॥ ८० ॐ कुमारगुरवे नमः । आनन्दाय । हेरम्बाय । वेदस्तुताय । नागयज्ञोपवीतिने । दुर्धर्षाय । बालदूर्वाङ्कुरप्रियाय । भालचन्द्राय । विश्वधात्रे (विश्वधाम्ने) । शिवपुत्राय नमः ॥ ९० ॐ विनायकाय नमः । लीलासेविताय (लीलावलम्बितवपुषे) । पूर्णाय । परमसुन्दराय । विघ्नान्तकाराय (विघ्नान्धकारमार्ताण्डाय) । (विघ्नारण्यदवानलाय) सिन्दूरवदनाय । नित्याय । विभवे । प्रथमपूजिताय (विष्णुप्रथमपूजिताय) नमः ॥ १०० ॐ दिव्यपादाब्जाय (शरण्यदिव्यपादाब्जाय) नमः । भक्तमन्दाराय (भक्तमन्दारभूरुहाय)। महाशूराय । रत्नसिंहासनाय (रत्नसिंहासनासीनाय)। मणिकुडलमडिताय । भक्तकल्याणाय (भक्तकल्याणदाय)। अमेयाय । कल्याणगुरवे । (अमेयकल्याणगुणसंश्रयाय) सहस्रशीर्ष्णे । महागणपतये नमः ॥ ११० इति गणेशदशोत्तरशतनामावलिः सम्पाता ।