अक्षर आकार:

श्रीगणेशबाह्यपूजा

shrIgaNeshabAhyapUjA

श्रीगणेशबाह्यपूजा

श्री गणेशाय नमः ॥ ऐल उवाच ॥ बाह्यपूजां वद विभो! गृत्समदप्रकीर्तिताम् । येन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १॥ गार्ग्य उवाच ॥ आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । बाह्यां चकार विधिवत्तां श‍ृणुष्व सुखप्रदाम् ॥ २॥ हृदि ध्यात्त्वा गणेशानं परिवारादिसंयुतम् । नासिकारन्ध्रमार्गेण तं बाह्यांग चकार ह ॥ ३॥ आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् । पश्चाच्छ्लोक समुच्चार्य पूजयामास विघ्नपम् ॥ ४॥ गृत्समद उवाच ॥ चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्त वर्णकम् । पाशांकुशादि-संयुक्तं मायायुक्त प्रचिन्तयेत् ॥ ५॥ आगच्छ ब्रह्मणां नाथ सुरा-ऽसुर-वरार्चित । सिद्धि-बुद्ध्यादि-संयुक्त! भक्तिग्रहणलालस!॥ ६॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशाऽनुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७॥ रत्नसिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥ ८॥ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो!। शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९॥ सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः । आचमनं च तेनैव कुरूष्व गणनायक ॥ १०॥ रत्न-प्रवाल-मुक्ताद्यैरनर्ध्यैः संस्कृतं प्रभो । अर्ध्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११॥ दधि-मधु-घृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२॥ पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनान्ते पुनराचमनं कुरू ॥ १३॥ चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यंगं कुरू सर्वेश! लम्बोदर! नमोऽस्तु ते ॥ १४॥ यक्ष-कर्दमकाद्यैश्च विघ्नेश भक्तवत्सल!। उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५॥ नानातीर्थजलैर्ढुण्ढे! सुखोष्णभावरूपकैः । कमण्डलूद्भवैः स्नानं कुरू ढुण्ढे समर्पितैः ॥ १६॥ कामधेनु समद्भूतं पयः परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥ १७॥ पंचामृतानां मध्ये तु जलैः स्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥ १८॥ दधि धेनुपयोद्भूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९॥ धेनुदुग्धोद्भवं ढुण्ढे घृतं सन्तोषकारकम् । महामलापघातार्थं तेन स्नानं कुरू प्रभो ॥ २०॥ सारघं सस्कृतं पूर्णं मधु मधुरसोद्भवम् । गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१॥ इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ २२॥ यक्षकर्दमकाद्यैश्च स्नानं कुरू गणेश्वर । अन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३॥ ततो गन्धाक्षतादींश्च दूर्वांकुरान् गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४॥ ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं करोमि ते गृहाण द्विरदानन ॥ २५॥ तत आचमनं देव सुवासितजलेन च । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६॥ वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम् । लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ २७॥ उत्तरीयं सुचित्रं वै नभस्तारांकितं यथा । गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८॥ उपवीतं गणाध्यक्ष गृहाण च ततः परम् । त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९॥ ततः सिन्दूरकं देव गृहाण गणनायक । अंगलेपनभावार्थं सदानन्दविवर्धनम् ॥ ३०॥ नानाभूषणकानि त्वमंगेषु विविधेषु च । भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ ३१॥ अष्टगन्ध-समायुक्तं गन्धं रक्तं गजानन । द्वादशांगेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२॥ रक्तचन्दनसंयुक्तानथ वा कुंकुमैर्युतान् । अक्षतान् विघ्नराज त्वं गृहाण भालमण्डले ॥ ३३॥ चम्पकादि-सुवृक्षेभ्यः सम्भूतानि गजानन । पुष्पाणि शमी-मन्दार-दूर्वादीनि गृहाण च ॥ ३४॥ दशांग गुग्गुलं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५॥ नानाजातिभवं दीप गृहाण गणनायक । अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥ ३६॥ चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्त भोजनं कुरू विघ्नप ॥ ३७॥ सुवासितं गृहाणेदं जलं तीर्थ समाहृतम् । भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ ३८॥ भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९॥ दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै । गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४०॥ अष्टांग देव ताम्बूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१॥ दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यैः संयुतां ढुंढे गृहाण सकलप्रिय ॥ ४२॥ राजोपचारकाद्यानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३॥ तत आभरणं तेऽहमर्पयामि विधानतः । विविधैरूपचारैश्च तेन तुष्टो भव प्रभो ॥ ४४॥ ततो दूर्वांकुरान् ढुंढे एकविंशतिसंख्यकान् । गृहाण कार्यसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ ४५॥ नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानादिनाशन ॥ ४६॥ गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७॥ आर्तिक्यं च सुकर्पूरं नानादीपमयं प्रभो । गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ ४८॥ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वांगेषु निरंजनम् ॥ ४९॥ चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन । मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५०॥ पंचप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप । स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१॥ एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन । प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२॥ साष्टांगा प्रणतिं नाथ एकविंशतिसम्मिताम् । हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३॥ न्यूनातिरिक्तभावार्थं किंचिद् दुर्वांकुरान् प्रभो । समर्पयामि तेन त्वं सांगां पूजां कुरूष्व ताम् ॥ ५४॥ त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५॥ अपराधानसंख्यातान् क्षमस्व गणनायक । भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥ ५६॥ त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः । त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ ५७॥ जाग्रत्-स्वप्न-सुषुप्तिभिर्देह-वांग्मनसैः कृतम् । सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ ५८॥ ब्राह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके धारणात् किल ॥ ५९॥ पादोदकं गणेशस्य पीतं मर्त्येण तत्क्षणात् । सर्वांतर्गतजं पापं नश्यति गणनातिगम् ॥ ६०॥ गणेशूच्छिष्टगन्धं वै द्वादशांगेषु चर्चयेत् । गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥ ६१॥ यदि गणेशपूजादौ गन्धभस्मादिकं चरेत् । अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत् ॥ ६२॥ द्वादशांगेषु विघ्नेशं नाममन्त्रेण चाऽर्चयेत् । तेन सोऽपि गणेशेन समो भवति भूतले ॥ ६३॥ आदौ गणेश्वरं मूर्ध्नि ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ ६४॥ वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् । कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५॥ बाहौ दक्षिणके चैव हेरंबं वामबाहुके । विकटं नाभिदेशे तु विघ्ननाथं समर्चयेत् ॥ ६६॥ कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७॥ सर्वांगलेपनं शस्तं चित्रितं चाऽष्टगन्धकैः । गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८॥ ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्ति-मुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९॥ गणेशस्मरणेनैव करोमि कालखण्डनम् । गाणपत्यैश्च संवासः सदाऽस्तु मे गजानन ॥ ७०॥ गार्ग्य उवाच ॥ एवं गृत्समदश्चैव चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१॥ तथा कुरु महीपाल गाणपत्यो भविष्यसि । तथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ ७२॥ इति श्रीमदान्त्ये मुद्गलपुराणे गणेशबाह्यपूजा समाप्ता ॥