अक्षर आकार:

गणेशाष्टकम् ३

Ganeshashtakam 3

गणेशाष्टकम् ३

गजवदन गणेश त्वं विभो विश्वमूर्ते! हरसि सकलविघ्नान् विघ्नराज प्रजानाम् । भवति जगति पूजा पूर्वमेव त्वदीया वरदवर कृपालो चन्द्रमौले प्रसीद ॥ १॥ सपदि सकलविघ्नां यान्ति दूरे दयालो तव शुचि रुचिरं स्यान्नामसङ्कीर्तनं चेत् । अत इह मनुजास्त्वां सर्वकार्ये स्मरन्ति वरदवर कृपालो चन्द्रमौले प्रसीद ॥ २॥ सकलदुरितहन्तुः त स्वर्गमोक्षादिदातुः सुररिपुवधकर्त्तुः सर्वविघ्नप्रहर्त्तुः । तव भवति कृपातोऽशेष-सम्पत्तिलाभो वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ३॥ तव गणप गुणानां वर्णने नैव शक्ता जगति सकलवन्द्या शारदा सर्वकाले । तदितर मनुजानां का कथा भालदृष्टे वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ४॥ बहुतरमनुजैस्ते दिव्यनाम्नां सहस्रैः । स्तुतिहुतिकरणेन प्राप्यते सर्वसिद्धिः । विधिरयमखिलो वै तन्त्रशास्त्रे प्रसिद्धः वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ५॥ त्वदितरदिह नास्ते सच्चिदानन्दमूर्त्ते इति निगदति शास्त्रं विश्वरूपं त्रिनेत्र । त्वमसि हरिरथ त्वं शङ्करस्त्वं विधाता वरदवर कृपालो चन्द्रमौलेः प्रसीद ॥ ६॥ सकलसुखद माया या त्वदीया प्रसिद्धा शशधरधरसूने त्वं तया क्रीडसीह । नट इव बहुवेषं सर्वदा संविधाय वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ७॥ भव इह पुरतस्ते पात्ररूपेण भर्त्तः बहुविधनरलीलां त्वां प्रदर्श्याशु याचे । सपदि भवसमुद्रान्मां समुद्धारयस्व वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ८॥ अष्टकं गणनाथस्य भक्त्या यो मानवः पठेत् तस्य विघ्नाः प्रणश्यन्ति गणेशस्य प्रसादतः ॥ ९॥ इति जगद्गुरु-शङ्कराचार्य-स्वामिश्रीशान्तानन्दसरस्वती-शिष्य- स्वामि- श्रीमदनन्तानन्दसरस्वतीविरचितं गणेशाष्टकं सम्पूर्णम् ।