अक्षर आकार:

गणेशाष्टकम् २

Ganeshashtakam 2

गणेशाष्टकम् २

गणपति-परिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् । भव-भय-परिहारदुःख-दारिद्र्य-दूरं- गणपतिमभिवन्देवक्रतुण्डावतारम् ॥ १॥ अखिलमलविनाशम्पाणिनाहस्तपाशं- कनकगिरिनिकाशंसूर्यकोटिप्रकाशम् । भजभवगिरिनाशमालतीतीरवासं- गणपतिमभिवन्देमानसेराजहंसम् ॥ २॥ विविध-मणिमयूखैः शोभमानं विदूरैः- कनक-रचित-चित्रङ्कण्ठदेशेविचित्रम् । दधति विमलहारं सर्वदा यत्नसारं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३॥ दुरितगजममन्दं वारुणीं चैव वेदं विदितमखिलनादं नृत्यमानन्दकन्दं । दधतिशशिसुवक्त्रं चाङ्कुशंयोविशेषं गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥ ४॥ त्रिनयनयुतभालेशोभमाने विशाले- मुकुट-मणि-सुढाले मौक्तिकानां च जाले । धवलकुसुममाले यस्य शीर्ष्णः सताले गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥ ५॥ वपुषि महति रूपं पीठमादौ सुदीपं तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् । गजमितदलपद्मं संस्थितं चारुछद्मं गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥ ६॥ वरदविशदशस्तं दक्षिणं यस्य हस्तं सदयमभयदं तं चिन्तये चित्तसंस्थम् । शबलकुटिलशुण्डञ्चैकतुण्डं द्वितुण्डं गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७॥ कल्पद्रुमाधःस्थित-कामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम् । बिभ्राणमत्यद्भूतचित्तरूपं यः पूजयेत् तस्य समस्तसिद्धिः ॥ ८॥ व्यासाऽष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् । पठतां दुःखनाशाय विद्यां संश्रियमश्नुते ॥ ९॥ इति श्रीपद्भपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकं सम्पूर्णम् ।