अक्षर आकार:

श्रीगणपतिमङ्गलमालिकास्तोत्रम्

Shri GAnapati Mangala Malika Stotram

श्रीगणपतिमङ्गलमालिकास्तोत्रम्

श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्गवासिने । द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १॥ आदिपूज्याय देवाय दन्तमोदकधारिणे । वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २॥ लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे । गजाननाय प्रभवे श्रीगणेशाय मङ्गलम् ॥ ३॥ पञ्चहस्ताय वन्द्याय पाशाङ्कुशधराय च । श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४॥ द्वैमातुराय बालाय हेरम्बाय महात्मने । विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५॥ पृष्णिश‍ृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने । सिद्धिबुद्धिप्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ६॥ विलम्बियज्ञसूत्राय सर्वविघ्ननिवारिणे । दूर्वादलसुपूज्याय श्रीगणेशाय मङ्गलम् ॥ ७॥ महाकायाय भीमाय महासेनाग्रजन्मने । त्रिपुरारी वरो धात्रे श्रीगणेशाय मङ्गलम् ॥ ८॥ सिन्दूररम्यवर्णाय नागबद्धोदराय च । आमोदाय प्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ९॥ विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे शिवात्मने । var कष्टकर्त्रे कष्टहर्त्रे सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् ॥ १०॥ समस्तगणनाथाय विष्णवे धूमकेतवे । त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् ॥ ११॥ चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने । वक्रतुण्डाय कुब्जाय श्रीगणेशाय मङ्गलम् ॥ १२॥ तुण्डिने कपिलाक्षाय श्रेष्ठाय ऋणहारिणे । उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मङ्गलम् ॥ १३॥ कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने । विनायकाय विभवे श्रीगणेशाय मङ्गलम् ॥ १४॥ सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने । वटवे लोकगुरवे श्रीगणेशाय मङ्गलम् ॥ १५॥ श्रीचामुण्डासुपुत्राय प्रसन्नवदनाय च । श्रीराजराजसेव्याय श्रीगणेशाय मङ्गलम् ॥ १६॥ श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मिताम् । विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनीम् ॥ १७॥ श्रीमहागणनाथस्य शुभां मङ्गलमालिकाम् । यः पठेत् सततं वाणीं लक्ष्मीं सिद्धिमवाप्नुयात् ॥ १८॥ इति श्रीकृष्णेन्द्ररचितं श्रीगणपतिमङ्गलमालिकास्तोत्रं सम्पूर्णम् ।