अक्षर आकार:

श्रीगणपतिगकाराष्टोत्तरशतनामावली

Ganapati Gakara Ashtottarashatanamavali

श्रीगणपतिगकाराष्टोत्तरशतनामावली

ॐ गकाररूपाय नमः । ॐ गम्बीजाय नमः । ॐ गणेशाय नमः । ॐ गणवन्दिताय नमः । ॐ गणाय नमः । ॐ गण्याय नमः । ॐ गणनातीतसद्गुणाय नमः । ॐ गगनादिकसृजे नमः । ॐ गङ्गासुताय नमः । ॐ गङ्गासुतार्चिताय नमः । १० ॐ गङ्गाधरप्रीतिकराय नमः । ॐ गवीशेड्याय नमः । ॐ गदापहाय नमः । ॐ गदाधरनुताय नमः । ॐ गद्यपद्यात्मककवित्वदाय नमः । ॐ गजास्याय नमः । ॐ गजलक्ष्मीपते नमः । ॐ गजावाजिरथप्रदाय नमः । ॐ गञ्जानिरतशिक्षाकृतये नमः । ॐ गणितज्ञाय नमः । २० (ॐ गणोत्तमाय नमः ।) ॐ गण्डदानाञ्चिताय नमः । ॐ गन्त्रे नमः । ॐ गण्डोपलसमाकृतये नमः । ॐ गगनव्यापकाय नमः । ॐ गम्याय नमः । ॐ गमनादिविवर्जिताय नमः । ॐ गण्डदोषहराय नमः । ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः । ॐ गतागतज्ञाय नमः । ॐ गतिदाय नमः । ३० ॐ गतमृत्यवे नमः । ॐ गतोद्भवाय नमः । ॐ गन्धप्रियाय नमः । ॐ गन्धवाहाय नमः । ॐ गन्धसिन्धुरवृन्दगाय नमः । ॐ गन्धादिपूजिताय नमः । ॐ गव्यभोक्त्रे नमः । ॐ गर्गादिसन्नुताय नमः । ॐ गरिष्ठाय नमः । ॐ गरभिदे नमः । ४० ॐ गर्वहराय नमः । ॐ गरलिभूषणाय नमः । ॐ गविष्ठाय नमः । ॐ गर्जितारावाय नमः । ॐ गभीरहृदयाय नमः । ॐ गदिने नमः । ॐ गलत्कुष्ठहराय नमः । ॐ गर्भप्रदाय नमः । ॐ गर्भार्भरक्षकाय नमः । ॐ गर्भाधाराय नमः । ५० ॐ गर्भवासिशिशुज्ञानप्रदाय नमः । ॐ गरुत्मत्तुल्यजवनाय नमः । ॐ गरुडध्वजवन्दिताय नमः । ॐ गयेडिताय नमः । ॐ गयाश्राद्धफलदाय नमः । ॐ गयाकृतये नमः । ॐ गदाधरावतारिणे नमः । ॐ गन्धर्वनगरार्चिताय नमः । ॐ गन्धर्वगानसन्तुष्टाय नमः । ॐ गरुडाग्रजवन्दिताय नमः । ६० ॐ गणरात्रसमाराध्याय नमः । ॐ गर्हणास्तुतिसाम्यधिये नमः । ॐ गर्ताभनाभये नमः । ॐ गव्यूतिदीर्घतुण्डाय नमः । ॐ गभस्तिमते नमः । ॐ गर्हिताचारदूराय नमः । ॐ गरुडोपलभूषिताय नमः । ॐ गजारिविक्रमाय नमः । ॐ गन्धमूषवाजिने नमः । ॐ गतश्रमाय नमः । ७० ॐ गवेषणीयाय नमः । ॐ गहनाय नमः । ॐ गहनस्थमुनिस्तुताय नमः । ॐ गवयच्छिदे नमः । ॐ गण्डकभिदे नमः । ॐ गह्वरापथवारणाय नमः । ॐ गजदन्तायुधाय नमः । ॐ गर्जद्रिपुघ्नाय नमः । ॐ गजकर्णिकाय नमः । ॐ गजचर्मामयच्छेत्रे नमः । ८० ॐ गणाध्यक्षाय नमः । ॐ गणार्चिताय नमः । ॐ गणिकानर्तनप्रीताय नमः । ॐ गच्छते नमः । ॐ गन्धफलीप्रियाय नमः । ॐ गन्धकादिरसाधीशाय नमः । ॐ गणकानन्ददायकाय नमः । ॐ गरभादिजनुर्हर्त्रे नमः । ॐ गण्डकीगाहनोत्सुकाय नमः । ॐ गण्डूषीकृतवाराशये नमः । ९० ॐ गरिमालघिमादिदाय नमः । ॐ गवाक्षवत्सौधवासिने नमः । ॐ गर्भिताय नमः । ॐ गर्भिणीनुताय नमः । ॐ गन्धमादनशैलाभाय नमः । ॐ गण्डभेरुण्डविक्रमाय नमः । ॐ गदिताय नमः । ॐ गद्गदारावसंस्तुताय नमः । ॐ गह्वरीपतये नमः । ॐ गजेशाय नमः । १०० ॐ गरीयसे नमः । ॐ गद्येड्याय नमः । ॐ गतभिदे नमः । ॐ गदितागमाय नमः । ॐ गर्हणीयगुणाभावाय नमः । ॐ गङ्गादिकशुचिप्रदाय नमः । ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः । १०८ ॥ इति श्रीगणपतिगकाराष्टोत्तरशतनामावली समाप्ता ॥