अक्षर आकार:

गणनायकाष्टकम्

gaNanAyakAShTakam

गणनायकाष्टकम्

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥ मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥ अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् । भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥ चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् । चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४॥ गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ४॥ मूषकोत्तममारुह्य देवासुरमहाहवे योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ५॥ यक्षकिन्नरगन्धर्वक्ष् सिद्धविद्याधरैस्सदा स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ६॥ सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् । सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८॥ गणाष्टकमिदं पुण्यं यः पठे सततं नरः सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ इति श्रीगणनायकाष्टकं सम्पूर्णम् ।