अक्षर आकार:

एकदन्तस्तुतिः मदासुरेण प्रोक्ता

Ekadanta Stuti by Madasura

एकदन्तस्तुतिः मदासुरेण प्रोक्ता

गृत्समद उवाच - मदासुरः प्रणम्यादौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ १॥ मदासुर उवाच - नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ २॥ एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥ ३॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः । कः समर्थश्च ते वेगसहने देहधारकः ॥ ८॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागतवत्सल! ॥ ५ नमस्ते एकदन्ताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥ चतुर्बाहुधरायैव लम्बोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥ चिन्तामणिधरायैव चित्तस्थाय गजानन ! । नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥ अनन्तविभवायैवानन्तमायाप्रचालक! । भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥ मायाकारं शरीरं ते एकशब्दः प्रकथ्यते । दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥ रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा । भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥ १८॥ इति मदासुरेण प्रोक्ता एकदन्तस्तुतिः समाप्ता । २.५४