अक्षर आकार:

षोडशगणपतिस्तवम्

Shodashaganapatistavam

षोडशगणपतिस्तवम्

प्रथमं बालविघ्नेशं द्वितीयं तरुणं तथा । तृतीयं भक्तविघ्नेशं चतुर्थं वीरविघ्नकम् ॥ पञ्चमं शक्तिविघ्नेशं षष्ठं ध्वजगणाधिपम् । सप्तमं पिङ्गलं देवं तथा चोच्छिष्टनायकम् ॥ नवमं विघ्नराजेन्द्रं दशमं क्षिप्रदायकम् । एकादशं तु हेरम्बं द्वादशं लक्ष्मिनायकम् ॥ त्रयोदशं महासंज्ञं भुवनेशं चतुर्दशम् । नृत्ताख्यं पञ्चदशं षोडशोर्ध्वगणाधिपम् ॥ स्तोत्रं तु विघ्नराजस्य कथ्यते षोडशात्मकम् । धर्मार्थकाममोक्षार्थं नराणां येन विद्यते ॥ ॥ इति षोडशगणपतिस्तवम् सम्पूर्णम् ॥ kamakotimandali.com/blog