अक्षर आकार:

श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः

Shri Svadharmabodhe Shriyugalatilaka MantraH SankShepataH

श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः

ॐ कं केशवाय कीर्त्यै नमो नमः । अङ्गुलचत्वारि ललाटे ॥ १॥ ॐ नान्नारायणाय कीर्त्यै नमो नमः । अङ्गुलदश नाभौ ॥ २॥ ॐ मां माधवाय तुष्ट्यै नमो नमः । अङ्गुलाष्ट हृदये ॥ ३॥ ॐ गो गोविन्दाय तुष्ट्यै नमो नमः । अङ्गुलचतुष्टयं कण्ठे ॥ ४॥ ॐ विं विष्णवे धृत्यै नमो नमः । अङ्गुलदश दक्षिणकुक्षौ ॥ ५॥ ॐ मं मधुसूदनाय शान्त्यै नमो नमः । अङ्गुल अष्टदक्षिणे बाहौ ॥ ६॥ ॐ त्रिं त्रिविक्रमाय क्रियायै नमो नमः । अङ्गुलचतुष्टयं दक्षिणकन्धरे ॥ ७॥ ॐ वां वामनाय हृदयाय नमो नमः । अङ्गुलदश वामकुक्षौ ॥ ८॥ ॐ श्रीं श्रीधराय मेधायै नमो नमः । अङ्गुल अष्ट वामबाहौ ॥ ९॥ ॐ हृं हृषीकेशाय मायाविने नमो नमः । अङ्गुलचतुष्टयं वामकन्धरे ॥ १०॥ ॐ पद्मनाभाय श्रद्धायै नमो नमः । अङ्गुलचतुष्टयं पृष्ठे ॥ ११॥ ॐ दां दामोदराय लज्जायै नमो नमः । अङ्गुलचतुष्टयं कट्याम् ॥ १२॥ तत्प्रज्ञानतोयेन ॥ ॐ वासुदेवाय श्रियै नमो नमः मूर्ध्नि ॥ ॐ क्लीं रासरसविलासिनौ श्रीराधाकृष्णौ स्वाहा ॥ इति मन्त्रेण द्वादशतिलकमध्ये समासूक्ष्मं मुक्ताकारं धारयेत् ॥ इति श्रीनिम्बादित्यप्रकाशितस्वधर्मोद्बोधोयुग्म तिलकमन्त्रः सम्पूर्तिमगात् ॥ श्रीकृष्णार्पणमस्तु ॥ This is tied to श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि From shrI sarasa stotrasangrahaH (Lucknow, 1909) - Page 17.