अक्षर आकार:

योगिनीहृदयम्

YoginihRidayam

योगिनीहृदयम्

श्रीदेव्युवाच देवदेव महादेव परिपूर्णप्रथामय । वामकेश्वरतन्त्रेऽस्मिन्नज्ञातर्थास्त्वनेकशः ॥ १॥ तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव । श्रीभैरव उवाच श‍ृणु देवि महागुह्यं योगिनिहृदयं परम् ॥ २॥ त्वत्प्रीत्या कथयाम्यद्य गोपनीयं विशेषतः । कर्णात्कर्णोर्पदेशेन सम्प्राप्तमवनीतलम् ॥ ३॥ न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि । न शुश्रूषालसानाञ्च नैवानर्थप्रदायिनाम् ॥ ४॥ परीक्षिताय दातव्यं वत्सरार्धोषिताय च । एतज्ज्ञात्वा वररोहे सद्यः खेचरतां व्रजेत् ॥ ५॥ चक्रसङ्केतको मन्त्रपूजासङ्केतकौ तथा । त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥ ६॥ यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् । न तावत्रिपुराचक्रे परमाज्ञाधरो भवेत् ॥ ७॥ तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् । पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ॥ ८॥ एतच्चक्रावतारन्तु कथयामि तवानघे । यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ९॥ स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य सम्भवः । शून्याकाराद्विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः ॥ १०॥ प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् । प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् ॥ ११॥ बैन्दवं चक्रमेतस्य त्रिरूपत्वं पुनर्भवेत् । धर्माधर्मौ तथात्मानो मातृमेयौ तथा प्रमा ॥ १२॥ नवयोन्यात्मकं चक्रं चिदानन्दघनं महत् । चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् ॥ १३॥ बैन्दवासनसंरूढसंवर्तानलचित्कलम् । अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् ॥ १४॥ नवत्रिकोणस्फुरितप्रभारूपदशारकम् । शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् ॥ १५॥ भूततन्मात्रदशकप्रकाशालम्बनत्वतः । द्विदशारस्फुरद्रूपं क्रोधीशादिदशारकम् ॥ १६॥ चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः । चतुर्दशाररूपेण संवित्तिकरणात्मना ॥ १७॥ खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् । एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् ॥ १८॥ ज्येष्टारूपचतुष्कोणं वामारूपभ्रमित्रयम् । चिदंशान्तस्त्रिकोणं च शान्त्यतिताष्टकोणकं ॥ १९॥ शान्त्यंशद्विदशारञ्च तथैव भुवनारकम् । विद्याकलाप्रमारूपदलाष्टकसमावृतम् ॥ २०॥ प्रतिष्टावपुषा सृष्टस्फुरद्द्व्यष्टदलाम्बुजम् । निवृत्त्याकारविलसच्चतुस्ष्कोणविराजितम् ॥ २१॥ त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि । नादो बिन्दुः कला ज्येष्टा रौद्रीई वामा तथा पुनः ॥ २२॥ विषघ्नीई दूतरी चैव सर्वानन्दा क्रमात् स्थिताः । निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् ॥ २३॥ ज्येष्टा ज्ञानं क्रिया शेषमित्येवं त्रितयात्मकम् । चक्रं कामकलारूपं प्रसारपर,मार्थतः ॥ २४॥ अकुले विषुसंज्ञे च शक्ते वह्नौ तथा पुनः । नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे ॥ २५॥ बिन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च । शक्तौ पुनर्व्यापिकायां समनोन्मनि गोचरे ॥ २६॥ महाबिन्दौ पुनश्चैव त्रिधा चक्रं तु भावयेत् । आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ॥ २७॥ उन्मन्यन्तं परे स्थाने निष्कलञ्च त्रिधा स्थितम् । दीपाकारोऽर्धमात्रश्च ललाटे वृत्त् इष्यते ॥ २८॥ अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके । ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा ॥ २९॥ बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः । कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः ॥ ३०॥ हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते । शक्तिर्वामस्थबिन्दुद्यत्स्थिराकारा तथा पुनः ॥ ३१॥ व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता । बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः ॥ ३२॥ समना बिन्दुविलसदृजुरेखा तथोन्मना । शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसन्निभम् ॥ ३३॥ चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं दिगुणं ततः । शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी ॥ ३४॥ दैशकालानवच्छिन्नं तदूर्ध्वे परमं महत् । निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् ॥ ३५॥ आत्मनह् स्फुरणं पश्येद्यदा सा परमा कला । अम्बिकारूपमापन्न परा वाक् ससुदीरिता ॥ ३६॥ बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी॥ वामा विश्वस्य वमनादङ्कुशाकारतां गता ॥ ३७॥ इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता । ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागुदीरिता ॥ ३८॥ ऋजुरेखामयी विश्वस्थितौइ प्रथितविग्रहा । तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ॥ ३९॥ प्रत्यावृत्तिक्रमेणैवं श‍ृङ्गटवपुरुज्ज्वला । क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥ ४०॥ भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च । एताश्चतस्त्रः शक्त्यस्तु का पू जा ओ इति क्रमात् ॥ ४१॥ पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थिताः । चतुरस्त्रं तथ बिन्दुषट्कयुक्तं च वृत्तकम् ॥ ४२॥ अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु । पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् ॥ ४३॥ स्वयम्भुर्बाणलिङ्गं च इतरं च परं पुनः । पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने ॥ ४४॥ हेमबन्धृककुसुमशरच्चन्द्रनिभानि तु । स्वावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् ॥ ४५॥ कादितान्ता क्षरोपेतं बाणलिङ्गं त्रिकोणकम् । कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् ॥ ४६॥ सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् । बिन्दुरूपं परानन्दकन्दं नित्यपओदितम् ॥ ४७ बीअत्रितययुक्तास्य सकस्य मनोः पुनः । एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥ ४८॥ जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु । अतितं तु परं तेजः स्वसंविदुदयात्मकम् ॥ ४९॥ स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् । चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् ॥ ५०॥ मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् । श‍ृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् ॥ ५१॥ विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् । कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् ॥ ५२॥ इच्छाशक्तिमयं पाशमङ्कुशं ज्ञनरूपिणम् । क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥ ५३॥ आश्रयाश्रयिभेदेन अष्टधा भिन्नहेतिमत् । अष्टारचक्रसंरूढं नवचक्रासनस्थितम् ॥ ५४॥ एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् । तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् ॥ ५५॥ चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा । करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता ॥ ५६॥ क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा । मुद्राख्या सा यदा संविदम्बिका त्रिकलामयी ॥ ५७॥ त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी । सर्वस्य चक्रराजस्य व्यापिका परिकीर्तित ॥ ५८॥ योनिप्राचुर्यतः सैषा सर्वसंक्षोभिका पुनः । वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् ॥ ५९॥ क्षुब्धाविश्वस्थिततिर्करी ज्येष्टाप्राचुर्यमाश्रिता । स्थूलनादकलारूपा सर्वानुग्रहकारिणी ॥ ६०॥ सर्वाशपूरणाख्ये तु सैषा स्फुरितविग्रहा । ज्येष्टावामासमन्त्वेन सृष्टेः प्राधान्यमाश्रिता ॥ ६१॥ आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता । व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि ॥ ६२॥ शिवशक्त्यात्मसंश्लेषाद्दिव्याकेशकरी स्मृता। चतुर्दशारचक्रस्था संविदानन्दविग्रहा ॥ ६३॥ बिन्द्वन्तरालविलसत्सूक्ष्म रेखाशिखामयी । ज्येष्टाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥ ६४॥ दशारचक्रमास्थाय संस्थिता वीरवन्दिते । वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ॥ ६५॥ तद्वद्विश्वं वमन्ती सा दिव्तीये तु दशारके । संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता ॥ ६६॥ धर्माधर्मस्य संघट्टादुत्थिता वित्तीरूपिणी । विकल्पोत्थक्रियालोपरूपदोषविधातिनी ॥ ६७॥ विकल्परूपरोगाणां हारिणी खेचरी परा । सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता ॥ ६८॥ शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः । प्रकाशयति विश्वं सा सूक्ष्मरूपस्थित सदा ॥ ६९॥ बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता । सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ॥ ७०॥ योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता । क्रिया चैतन्यरूपत्वादेवं चक्रमयं स्थितम् ॥ ७१॥ इच्छारूपं परं तेजाः सर्वदा भावयेद् बुधः । त्रिधा च नवधा चैव चक्रसङ्केतकः पुनः ॥ ७२॥ वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽप्रः पुनः । तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च ॥ ७३॥ पद्मद्वयेन चान्यः स्याद् भूगृहत्रितयेन च । पञ्चशक्ति चतुर्वह्निपद्मद्वयमहीत्रयम् ॥ ७४॥ परिपूर्णं महचक्रं तत्प्रकारः प्रदर्श्यते । तत्राद्यं नवयोनि स्यात् तेन द्विदशासंयुतम् ॥ ७५॥ मनुयोनि परं विद्यात् तृतीयं तदनन्तरम् । अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् ॥ ७६॥ चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि । सृष्टिःस्यान्नवयोन्यादिपृथ्व्यन्तं संहृति पुनः ॥ ७७॥ पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः । एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते ॥ ७८॥ यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् । चक्रस्य नवधात्वं च कथयामि तव प्रिये ॥ ७९॥ आदिमं भूत्रयेण स्याद् द्वितीयं षोडशारकम् । अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् ॥ ८०॥ पञ्चमं दशकोणं स्यात् षष्टं चापि दशारकम्॥ सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् ॥ ८१॥ नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः श‍ृणु । त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ॥ ८२॥ सर्वसंक्षोभणं गौरि सर्वासौभाग्यदायकम् । सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ॥ ८३॥ सर्वरोगहरं देवि सर्वसिद्धिमयं तथा । सर्वानन्दमयं चापि नवमं श‍ृणु सुन्दरि ॥ ८४॥ अत्र पुज्या महादेवी महात्रिपुरसुन्दरी । परिपूर्णं महाचक्रमजरामरकारकम् ॥ ८५॥ एतमेव महाचक्रसङ्केतः परमेश्वरि । कथितस्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः ॥ ८६॥ अथ द्वितीयः पटलः मन्त्रसङ्केतं दिव्यमधुना कथ्यामि ते । यद्वेत्ता त्रिपुराकारो विरचक्रेश्वरो भवेत् ॥ १॥ करशुद्धिकरो त्वाद्या द्वितीया चात्मरक्षिका । आत्मासनगता देवी तृतीया तदनन्तरम् ॥ २॥ चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता । साध्यसिद्धासना ष्ष्टा मायालक्ष्मीमयी परा ॥ ३॥ मूर्तिविद्या च सा देवी सप्तमो परिकीर्तिता । अष्टम्यावाहिनी विद्या नवमा भैरवी परा ॥ ४॥ मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी । एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ॥ ५॥ एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि । पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ॥ ६॥ आधरे विन्यसन्मूर्ति तस्यामावाहिनीं न्यसेत् । मूलेन व्यापकन्यासः कर्तव्यः परेम्श्वरि ॥ ७॥ अकुलादिषु पूर्बोक्तस्थानेषु परिचिन्तयेत् । चक्रेश्वरिसमायुक्तं नवचक्रं पुरोदितम् ॥ ८॥ तासां नामानि वक्ष्यामि यथानुक्रमयोगतः । तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ॥ ९॥ तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी । चतुर्थी च महादेवी देवी त्रिपुरवासिनी ॥ १०॥ पञ्चमी त्रिपुरा श्रीः स्यात् षष्टी त्रिपुरमालिनी । सप्तमी त्रिपुरा सिद्धिरष्टमी त्रिपुराम्बिका ॥ ११॥ नवमी तु माहदेवी महात्रिपुरसुन्दरी । पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ॥ १२॥ एवं नवप्रकाराद्या पुजाकले तु पार्वति । एकाकारा ह्याद्यशक्तिरजरामरकारिणी ॥ १३॥ मन्त्रसङ्केतकस्तस्या नानाकारो व्यवस्थितः । नानामन्त्रकर्मेणैव पारम्पर्येण लभ्यते ॥ १४॥ षडविधस्तं तु देवेशि कथयामि तवानधे । भावार्थः सम्प्रदायार्थो निगमार्थश्च कौलिकः ॥ १५॥ तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च । अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ॥ १६॥ योगिनीभिस्तथा विरैर्वीरेन्द्राइः सर्वदा प्रिये । शिवशक्तिसमायोगाऽज्जनितो मन्त्रराजकः ॥ १७॥ तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् । निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ॥ १८॥ शिवशक्त्यात्मसंघट्टरूपे ब्र्ह्माणि शाश्वते । तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते ॥ १९॥ ज्ञातृज्ञानमयाकारसननान्मन्त्ररूपिणी । तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ॥ २०॥ मध्यबिन्दुविसर्गान्तः समास्थानमये परे । कुटिलारूपके तस्याः प्रतिरूपे वियत्कले ॥ २१॥ मध्यप्राणप्रथारूपपस्पन्दव्योम्नि स्थित पुनः । मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ॥ २२॥ राहुकूटाद्वयस्फूर्जच्चलत्तासंस्थितस्य तु । धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ॥ २३॥ वाचक्राक्षरसंयोगात् कथिता विश्वरूपिणी । तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ॥ २४॥ कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणिम् । आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ॥ २५॥ सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः । विश्वाकारप्रथायास्तु महत्त्वञ्च यदाश्रयम् ॥ २६॥ शिवशक्त्याद्यया मूलविद्यया परमेश्वरि । जगत्कृत्स्नं तया व्याप्तं श‍ृणुष्वावहिता प्रिये ॥ २७॥ पञ्चभूतमयं विश्वं तन्मयी सा सदानघे । तन्मयी मूलविद्या च तदद्य कथयाम्मि ते ॥ २८॥ हकाराद् व्योम सम्भूतं ककारात्तु प्रभञ्जनह् । रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ॥ २९॥ लकारात्,ह् पृथिवी जाता तस्माद् विश्वमयी च सा । गुणाःपञ्चदश प्रोक्ता भूतानं तन्मयी शिवा ॥ ३०॥ यस्य यस्य पदार्थस्य सा या शक्तिरुदीरिता । सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ३१॥ व्याप्ता पञ्चदशार्णः सा विद्या भूतगुणात्मिकाः । पञ्चभिश्च तथा षड् भिश्चतुर्भिरपि चाक्षरः ॥ ३२॥ स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदेनी । सप्तत्रिंशत्प्रभेदेन षट् त्रिंशतत्त्वरूपिणी ॥ ३३॥ तत्त्वातीतस्वभावा च विद्यैषं भाव्यते सदा । पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ॥ ३४॥ भूतं त्वधस्तनं व्याप्यं तद् गुणा व्यापकाश्रयाः । व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ॥ ३५॥ तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः । व्योमबिहैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम् ॥ ३६॥ तेषां कारुणरूपेण स्थित ध्वनिमयं परम् । भवेद् गुणवतां बीजं गुणानामपि वाचकम् ॥ ३७॥ कार्यकारणभावेन तयोरैक्य विवक्षया । महामायात्रयेणापि कारणेन च बिन्दुना ॥ ३८॥ वाय्वाग्निजलभूमीनां स्पर्शानां च चतुष्टयम् । उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ॥ ३९॥ रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् । प्रधानं तेजसो रूपं तद् बीजेन हि जन्यते ॥ ४०॥ विद्यास्थैश्चन्द्रबीजैस्तु स्थूलसूक्ष्मो रसः स्मृतः । सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ॥ ४१॥ वसु धाया गुणो गन्धस्तल्लिपिर्गन्धवाचिका । भुवनत्रयसम्भन्धात् त्रिधात्वं तु महेश्वरि ॥ ४२॥ अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः । क्रोधीशत्रितये नाथ विद्यास्थेन प्रकाश्यते ॥ ४३॥ श्रीकण्ठदशकं तद्वद व्यक्तस्यापि वाचकः । प्राणरूपस्थितो देवि तद्वदेकादशः परः ॥ ४४॥ एकः सन्नेव पुरुषो बहुधा कायते हि सः । रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः ॥ ४५॥ बिन्दुत्रयेण कथिता अमितामितविग्रहाः । शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः ॥ ४६॥ वागुरामूलवलये सूत्राद्याः कवलीकृताः । तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः ॥ ४७॥ गुरुक्रमेण सम्प्राप्तः सम्प्रदायार्थ ईरितः । निगर्भार्थो महदेवि शिवगुर्वात्मगोचरः ॥ ४८॥ शिवगुर्वात्मनामैक्यानुसंधानात्तदात्मकम् ॥ ४९॥ निष्कलत्वं शिवे बुध्वा तद्रूपत्वं गुरोरपि । तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ५०॥ भावयेदभक्तिनम्रः सङ्कोचोन्मेषाकलङ्कितः । कौलिकं कथयिष्यामि चक्रदेवतयोरपि ॥ ५१॥ विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते । लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् ॥ ५२॥ सरोरुहद्वयं शक्तैरग्नीषोमात्मकं प्रिये। हृल्लेखात्रयसंभूतैरक्षरैर्नवसङ्ख्यकैः ॥ ५३॥ बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये। मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ॥ ५४॥ व्योमबीजत्रयेणैव प्रमातृत्रित्यान्वितम्। इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् ॥ ५५॥ सदाशिवासनं देवि महाबिन्दुमयं परम्। इत्थं मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ५६॥ एकादशाधिकशतदेवतात्मतया पुनः । गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ५७॥ इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैह् पुनः। ग्रहरूपा च सा देवी ज्ञानकर्मेन्द्रियैरपि ॥ ५८॥ तदर्थैरेव देवेशि करणैरान्तरैः पुनः। प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ५९॥ नक्षत्रविग्रहा जाता योगिनीत्वमथोच्यते। त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ६०॥ वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता। योगिनीरूपमास्थाय राजते विश्वविग्रा ॥ ६१॥ प्राणापानौ समानश्चोदनव्यानौ तथा पुनः। नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ६२॥ जीवात्मा पर्मात्मा चैत्येतै राशिस्वरूपिणी। अकथादित्रिपङ्क्त्यात्मा तार्तियादिक्रमेण सा ॥ ६३॥ गणेशोऽभून्महाविद्या परावागादिवाङ्मयी। बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ६४॥ हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः। अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥ ६५॥ विद्यानन्तर्भूतशक्त्याद्यैः शाक्तैः षड् भिस्तथाक्षरैः। योगिनीत्वं च विद्याय राशित्वं चान्त्यवर्जितैः ॥ ६६॥ एवं विश्वप्रकारा च चक्र रूपा महेश्वरी। देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि ॥ ६७॥ तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रजायते। इत्येवं कौलिकार्थस्तु कथितो विरवन्दिते ॥ ६८॥ तथा सर्वरह्स्यार्थं कथयामि तवानघे। मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ॥ ६९॥ अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा। विद्या कुण्डलिनीरूपा मण्दलत्रयभेदिनी ॥ ७०॥ तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः। व्योमेन्दुमण्डलासक्ता सुधास्त्रोतःस्वरूपिणी ॥ ७१॥ सदा व्याप्तजगत् कृत्स्ना सदानन्दस्वरूपिणी। एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ॥ ७२॥ महातत्त्वार्थं इति यत्तच देवि वदामि ते। निष्कले प्रमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते ॥ ७३॥ व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे। विश्वोत्तिर्णे विश्वमये तत्त्वे स्वात्मनियोजनम् ॥ ७४॥ तदा प्रकाशमानत्वं तेजसां तमसामपि। अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ॥ ७५॥ प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले। निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ॥ ७६॥ रहस्यार्थो मया गुप्तः सद्यः प्रत्ययकारकः। महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति ॥ ७७॥ विद्यापीठनिबद्धेषु संस्थितो दिव्यसिद्धिदः। कौलाचारपरैर्देवि पादुकाभावनापरैः ॥ ७८॥ योगिनीमेलनोद्युक्तैः प्राप्तविद्याभिषेचनैः। शङ्काकलङ्कविगतैः सदा मुदितमानसैः ॥ ७९॥ पारम्पर्येण विज्ञातरहस्यार्थविशारदैः। लभ्यते नान्यथ देवि त्वां शपेकुलसुन्दरि ॥ ८०॥ पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः। तेषां समयलोपेन विकुर्वन्ति मरीचयः ॥ ८१॥ यस्तु दिव्यरसास्वादमोदमानविमर्शनः। देअतातिथिनक्षत्रे वारेऽपि च विवस्वतः ॥ ८२॥ मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः। सर्वदा च विशेषण लभते पूर्णबोधताम् ॥ ८३॥ एवंव्हावस्तु देवेशि देशिकेन्द्रप्रसादतः। महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः ॥ ८४॥ एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम्। देवि गुह्यप्रियेणैव व्याख्यातं दुर्गि षड् विधम्। सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् ॥ ८५॥ अथ तृतायः पटलः पूजासङ्केतमधुना कथयामि तवानघे। यस्य प्रबोधमात्रेण जिवन्मुक्तः प्रमोदते ॥ १॥ तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता। परा चाप्यपर गौरि तृतीया च परापरा ॥ २॥ प्रथमाद्वैतभावस्था सर्वप्रसरगोचरा। द्वितीया चक्रपूजा च सदा निष्पाद्यते मया ॥ ३॥ एवं ज्ञानमये देवि तृतीया तु परापरा। उत्तमा सा परा ज्ञेया विधानं श‍ृणु साम्प्रतम् ॥ ४॥ महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम्। आप्यायितजगद्रूपां पर्मामृतवर्षिणीम् ॥ ५॥ सञ्चिन्त्य परमाद्वैतभावनामृतघूर्णितः। दहरान्तरसंसर्पन्नादालोकनतत्परः ॥ ६॥ विकल्परूपसंजल्पविमुखोऽन्तर्मुखः सदा। चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दरः। इन्द्रियप्रीणनद्रव्यैविं हितस्वात्मपूजनः ॥ ७॥ न्यासं निर्वर्तयेदेहे षोढान्यासपुरःसरम्। गणेशैः प्रथमो न्यासो द्वितीतस्तु ग्रहैर्मतः ॥ ८॥ नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः। राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ ९॥ षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः। एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः ॥ १०॥ नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः। स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ॥ ११॥ षोढान्यासविहीनं यं प्रणमेदेष पार्वति। सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ॥ १२॥ षोढान्यासप्रकारं च कथयामि तवानघे। विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ॥ १३॥ विघ्नकृद्विघ्नहर्ता च गणराट् गणनायकः। एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ॥ १४॥ कपर्दवान् दीर्घमुखः शङ्कुकर्णो वृषध्वजः। गणनाथो गजेन्द्रश्च शुर्पकर्णस्त्रिलोचनः ॥ १५॥ लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः। आमोदो दुर्मुखश्चैव सुमुखश्च प्रमोदकः ॥ १६॥ एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः। वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ॥ १७॥ सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः। जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ॥ १८॥ भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः। तरुणारुणसङ्काशान् गजवक्त्रान् त्रिलोचनान् ॥ १९॥ पाशाङ्कुशवराभीतिहस्तान् शक्तिसमन्वितान्। एतांस्तु विन्यसेदेहे मातृकान्यासवत्प्रिये ॥ २०॥ स्वरैस्तु सहितं सूर्यं हृदयाथः प्रविन्यसेत्। बिन्दुस्थाने सुधासूतिं यादिवर्णचतुष्टयैः ॥ २१॥ भूपुत्रं लोचनद्वन्द्व कवर्गाधिपतिं प्रिये। हृदये विन्यसेच्छुक्रं चवर्गाधिपतिं पुनः ॥ २२॥ हृदयोपरि विन्यसेट्टवर्गाधिपतिं बुधम्। बृहस्पतिं कण्ठदेशे तवर्गाधिपतिं प्रिये ॥ २३॥ नाभौ शनैश्चरं देवि पवर्गेशं सुरेश्वरि। वक्त्रेशादिचतुर्वर्णैः सहितं राहुमेव च ॥ २४॥ क्षकारसहितं केतुं पायो देवेशि विन्यसेत्। [ रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम्। कृष्णं धूम्रं धूम्रधूम्रं भावयेद्रविपुर्वकान्॥ कामरूपधरान् देवि दिव्याम्बरविभूषणान्। वामोरुन्यस्तहस्तांश्च दक्षहस्तवरप्रदान् ॥] ललाटे दक्षनेत्रे च वामे कर्णद्वये पुनः ॥ २५॥ पुटयोनिर्नासिकायाश्च कण्ठे स्कन्धद्वये पुनः। पश्चात्कूर्परयुग्मे च मणिबन्धद्वये पुनः ॥ २६॥ स्तनयोर्नाभिदेशे च कटिबन्धे ततः परम्। ऊरुयुग्मे तथा जान्वोर्जङ्घयोश्च पदद्वये ॥ २७॥ [ आद्ययुग्मन्तथा चैकं तस्त्रीणि चतुष्टयम्। एकमेकं द्वयञ्चेति स्वराः प्रोक्ताश्चतुर्दश ॥ २८॥ व्यञ्जनेष्वेकमुभयं द्वयं न्यस्येदतः परम्। एकं युग्मं द्वयन्द्वन्द्वमेकं युग्मं द्वयन्ततः ॥ २९॥ एकं त्रयं तथा चैकं एकमेकं द्वयन्तथा। एकं द्वयं त्रयं पश्चाल्लक्षं अं मश्चतुष्टयम् ॥ ३०॥ अशिव्न्यादेः पुरो भगे दत्वा चक्रमतो न्यसेत् ] ज्वलत्कालानलप्रख्या वरदाभयपाणयः ॥ ३१॥ नतिपाण्योऽश्विनीपूर्वाः सर्वाभरणभूषिताः। एतास्तु विन्यसेद्देवि स्थानेष्वेषु सुरार्चिते ॥ ३२॥ विशुद्धौ हृदये नाभौ स्वाधिष्टाने च मूलके। आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः ॥ ३३॥ अमृतादियुताः सम्यङ्न्यस्तव्याश्च सुरेश्वरि। पादे लिङ्गे च कुक्षौ च हृदये बाहुमूलयोः ॥ ३४॥ दक्षिणं पादमारभ्य वामपादावसानकम्। मेषादिराशयो वर्णैर्न्यस्तव्याः सह पार्वति ॥ ३५॥ [ चतुष्कं त्रितयं त्रीणि द्वितयं द्वितयं द्वयम्। पञ्चकं पञ्चकं पञ्च पञ्चक्तं पञ्चकं ततः॥ चत्वारि मेरुर्मिने स्युः कन्यायां पञ्च शादयः। ] पिठानि विन्यसेद्देवि मातृकास्थानके पुनः। तेषां नामानि वक्ष्यन्ते श‍ृणुष्वावहिता प्रिये ॥ ३६॥ कामरूपं वाराणसी नेपालं पौण्ड्रवर्धनम्। चरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ॥ ३७॥ आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम्। कैलासं भृगुनगरं केदारपूर्णचन्द्रके ॥ ३८॥ श्रीपीठमोङ्कारपीठं जालन्ध्रं मालवोत्कले। कुलान्तं देविकोटं च गोकर्णं मारुतेश्वरम् ॥ ३९॥ अट्टहासं च विरजं राजगेहं महापथम्। कोलापुर मेलापुरं ओङ्कारन्तु जयन्तिका ॥ ४०॥ उज्जयिन्यापि चित्रा च क्षीरकं हस्तिनापुरं। ओड्डीशं च प्रयागाख्यं षष्ठं मायापुरं तथा ॥ ४१॥ जलेशं मलयं शैलं मेरुं गिरिवरं तथा। महेन्द्रं वामनं चैव हिरण्यपुरमेव चा ॥ ४२॥ महालक्ष्मीपुरोड्याणं छायाछत्रमतः परम्। एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः ॥ ४३॥ एवं षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत्। श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं श‍ृणु प्रिये ॥ ४४॥ यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम्। चतुरस्त्राद्यरेखायै नम इत्यादितो न्यसेत् ॥ ४५॥ दक्षांसपृष्ठपाण्यग्रस्फिक्कपादाङ्गुलीष्वथ। वामाङ्घ्र्यङ्गुलिषुस्फिक्के पाण्यग्रे चांसपृष्ठके ॥ ४६॥ सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि। अत्रैव स्थानदशके अणिमाद्यास्तु विन्यसेत् ॥ ४७॥ सिद्धिस्तदन्तश्च तनुव्यापकत्वेन सुन्दरि। [ चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे। ] तस्याः स्थानेषु विन्यस्य ब्रह्माण्याद्यास्तदाष्टसु ॥ ४८॥ पादाङ्गुष्ठद्वये पार्श्वे दक्षे मूर्धन्यपार्श्वके। वामदक्षिणजान्वोश्च बहिरंसद्वये तथा ॥ ४९॥ न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि। विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे ॥ ५०॥ तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत्। ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत्ततः ॥ ५१॥ शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्ठे च विन्यसेत्। तदान्तः षोडशदलपद्माय नम इत्यपि ॥ ५२॥ विन्यस्य तद्दले कामाकर्षिण्याद्याश्च विन्यसेत्। दलानि दक्षिणश्रोत्रपृष्ठमंसं च कूर्परम् ॥ ५३॥ करपृष्ठं चोरुजानुगुल्फपादतलं तथा। वामपादतलाद्येवमेतदेवाष्टकं मतम् ॥ ५४॥ तदन्तरे चाष्टदलपद्माय नम इत्यपि। विन्यस्य तद्दलेष्वेषु दक्षशङ्खे च जत्रुके ॥ ५५॥ ऊर्वन्तर्गुल्फगुल्फोरुजत्रुशङ्खे च वमतः। अनङ्गकुसुमाद्याश्च शक्तीरष्टौ च विन्यसेत् ॥ ५६ तदनतश्चतुर्दशारचक्राय नम इत्यपि। विन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दश ॥ ५७॥ सर्वसङ्क्षोभिण्याद्यास्तु तस्य कोणानि वच्म्यहम्। ललाटं दक्षभागं च दक्षगण्डांसमध्यतः ॥ ५८॥ पार्श्वान्तरूरुकङ्घान्तर्वामजङ्घादि पार्वति। वामोर्वन्तं वामपार्श्वं वामांसं वामगण्डकम् ॥ ५९॥ ललाटवाममध्ये च तथा वै पृष्ठमित्यपि। ततो दशारचक्राय नम इत्यपि पार्वति ॥ ६०॥ तस्य कोणानि दक्षाक्षिनासामूलाऽऽस्यनेत्रके। कुक्षीशवायुकोणेषु जानुद्वयगुदेषु च ॥ ६१॥ कुक्षिनै ॠर्तिवह्न्याख्यकोणेष्वेषु न्यसेत् पुनः। सर्वासिद्धिप्रदादीनां शक्तीनां दशकं तथा ॥ ६२॥ तदन्तस्च दशारादिचक्राय नम इत्यपि। विन्यस्य तस्य कोणेषु सर्वज्ञाद्याः प्रविन्यसेत् ॥ ६३॥ दक्षनासा सृक्किणी चा स्तनं वृषणमेव च। सीविनी वाममुष्कं च स्तनं सृक्किणि नासिके ॥ ६४॥ नासाग्रं चैव विज्ञेयं कोणानां दशकं तथा। तदन्तरष्टकोणादिचक्राय नम इत्यपि ॥ ६५॥ विन्यस्य तस्य कोणेषु वषिन्याद्यष्टकम् न्यसेत्। चिबुकं कण्ठहृदयनाभीनां चैव दक्षिणम् ॥ ६६॥ ज्ञेयं पार्श्वचतुष्कं च मणिपूरादि वामकम्। चतुष्ठयं च पार्श्वानामेतत् कोणाष्टकं मतम् ॥ ६७॥ हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिर्न्यसेत्। शरचापौ पाशसृणी त्रिकोणाय नमस्तथा ॥ ६८॥ विन्यस्य तस्य कोणेषु अग्रदक्षोत्तरेषु च। कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेत् ॥ ६९॥ एवं मयोदितो देवि ! न्यासो गुह्यतमक्रमः। एतद् गुह्यतमं कार्यं त्वया वै वीरवन्दिते ॥ ७०॥ समयस्थाय दातव्यं नऽशिष्याय कदाचन। गुप्ताद् गुप्ततरं चैतत्तवाऽद्य प्रकटीकृतम् ॥ ७१॥ मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत्। [ त्रिकोणस्थे महाबिन्दौ महात्रिपुरसुन्दरीम् ]। शिरस्त्रिकोणपूर्वादि कामेश्वर्यादिकं न्यसेत् ॥ ७२॥ बाणान्नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत्। सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेत् ॥ ७३॥ मुण्डमूलक्रमेणैव न्यसेद्वाग्देवताष्टकम् । बैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने ॥ ७४॥ नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे पुनः। चूडादिकण्ठनिम्नेऽर्धं शेषार्धं कर्णपृष्टके ॥ ७५॥ कर्णे पूर्वे त्वपाङ्गे च तस्य मूले च विन्यसेत्। हृदये मनुकोणस्थ शक्तयोऽपि च पूर्ववत् ॥ ७६॥ सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत्। नाभावष्टदलं तत्तु वंशे वामे च पार्श्वके ॥ ७७॥ उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम्। वंशवामान्तरालादि न्यसेदन्य चतुष्टयम् ॥ ७८॥ स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम्। चतस्रस्तु चतस्रस्तु चतुर्दिक्षु क्रमान्न्यसेत् ॥ ७९॥ मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः। पुनर्वंशे च सव्ये च वामे चैवान्तरालके ॥ ८०॥ ऊर्धोधो दशमुद्राश्च ऊर्ध्वाधोवर्जितं पुनः। ब्रह्माण्याद्याष्टकं दक्षजन्घायां तास्तु पूर्ववत् ॥ ८१॥ वामजङ्घां समारभ्य वामादिक्रमतोऽपि च । सिद्ध्यष्टकं न्यसेत्तेषु द्वयं पादतले न्यसेत् ॥ ८२॥ कारणात्प्रसृतं न्यासं दीपाद्दीपमिवोदितम् । एवं विन्यस्य देवेशीं स्वाभेदेन विचिन्तयेत् ॥ ८३॥ ततश्च करशुद्ध्यादिन्यासं कुर्यात् समाहितः । अहं ते कथयाम्यद्य विद्यान्यासं श‍ृनु प्रिये ॥ ८४॥ मूर्ध्नि गुह्ये च हृदये नेत्रेषु त्रितयेषु च । श्रोत्रयोर्युगले चैव मुखे च भुजयोस्तथा ॥ ८५॥ पृष्टे जान्वोश्च नाभौ च विद्यान्यासं विधाय च । करशुद्धिं पुनश्चैव आसनादिषडङ्गकम् ॥ ८६॥ श्रीकण्ठादीनि वाग्देवीराधारे हृदये पुनः । शिखायां बैन्दवस्थाने त्वग्निचक्रादिका न्यसेत् ॥ ८७॥ तत्त्वत्रयं समस्तं च विद्याबिजत्रयान्वितम् । पादादिनाभिपर्यन्तमागलं शिरस्तथा ॥ ८८॥ व्यापकं चैव विन्यस्य स्वात्मीकृत्य परं पुनः । सन्तर्पयेत् पुनर्देवीं सौम्याग्नेयामृतद्रवैः ॥ ८९॥ एवं चतुर्विधो न्यासः कर्वव्यो वीरवन्दिते । षोढान्यासोऽणिमाद्यश्च मूलदेव्यादिकः प्रिये ॥ ९०॥ करशुद्ध्यादिकस्चैव साधकेन सुसिद्धये । प्रातः काले तथा पूजासमये होमकर्मणि ॥ ९१॥ जपकाले तथा तेषां विनियोगः पृथक् पृथक् । पूजाकाले समस्तं वा कृत्वा साधकपुङ्गवः ॥ ९२॥ षट्त्रिंशतत्त्वपर्यन्तमासनं परिकल्प्य च । गुप्तादियोगिनीनां च मन्त्रेणाऽथ बलिं ददेत् ॥ ९३॥ पिण्ऽडरूपपदग्रन्थिभेदनाद् विघ्नभेदकम् । गुह्यहृन्मुखमूर्धसु विद्यान्यासनेअ सुन्दरि ॥ ९४॥ यागमन्दिरगांश्चैव विघ्नानुत्सार्य मन्त्रवित् । [ अपसर्पन्तु ते भूता ये भुता भूमिसंस्थिताः॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ] पार्ष्णिघातेन भौमांश्च तालेन च नभोगतान् ॥ ९५॥ अस्त्रमन्त्रेण विद्यांश्च दृष्ट्या विघानपोहयेत् । दिक्ष्वधोर्ध्वं महावह्निप्राकारं परिभावयेत् ॥ ९६॥ सामान्यार्ध्येण देवेशि! मार्तण्ऽडं परिपूजयेत् । प्रकाशशक्तिसहितमरुणाकल्पमुज्ज्वलम् ॥ ९७॥ ग्रहादिपरिवारञ्च विश्वतेजोऽवभासनम् । सौम्याग्नेययुतैर्देवि रोचनागुरुकुङ्कुमैः ॥ ९८॥ मूलमुच्चारयन् सम्यग्भावयेच्चक्रराजकम् । योगिनी मूलमन्त्रेण क्षिपेत् पुष्पाञ्जलिं ततः ॥ ९९॥ मणिमुक्ताप्रवालैर्वा विलोमं मूलविद्यया । अशून्यं सर्वदा कुर्याच्छून्ये विघ्नास्त्वनेकशः ॥ १००॥ श्रीचक्रस्यात्मनश्चैव मध्ये त्वर्घ्यं प्रतिक्षिपेत् । चतुरस्रान्तरालस्थकाणषट्के सुरेश्वरि ॥ १०१॥ षडासनानि सम्पुज्य त्रिकोणस्यान्तरे पुनः । पीठानि चतुरो देवि कापूजा ओ इति क्रमात् ॥ १०२॥ अर्चयित्वाऽर्घ्यपादे तु वह्नेर्दश कला यजेत् । अर्घ्यपात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् ॥ १०३॥ पात्रे सूर्यकलाश्चैव कभादिद्वादशार्चयेत् । विधृते तु पुनर्द्रव्ये षोडशेन्दुकला यजेत् ॥ १०४॥ अमृतेशीं च तन्मध्ये भावयेच्च नवात्मना। नवात्मना ततो देवि तर्पेय्द्धातुदेवताः ॥ १०५॥ आनन्दभैरवं वौषडन्तेनैव च तर्पयेत् । तदाज्ञाप्रेरितं तच्च गुरुषङ्क्तौ निवेदयेत् ॥ १०६॥ तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः । गुरुपादालिमापूज्य भैरवाय ददेत् पुनः ॥ १०७॥ तदीयं शेषमादाय कामाग्नौ विश्व ... स्थुषि । पादुकां मूलविद्यां च जपन् होमं समाचरेत् ॥ १०८॥ महाप्रकाशे विश्वस्य संहारवमनोद्यते । मरीचिवृत्तीर्जुहुयान्मनसा कुण्डलीमुखे ॥ १०९॥ अहन्तेदन्तयोरैक्यमुन्मन्यां स्रुचि कल्पितम् । मथनोद्रेकसम्भूतं वस्तुरूपं महाहविः ॥ ११०॥ हुत्वा हुत्वा स्वयं चैवं महजानन्दविग्रहः । स्वप्रधाप्रसराकारं श्रीचक्रं पूजयेत् सुधीः ॥ १११॥ गणेशं दूतरीं चैव क्षेत्रेशं दूतिकां तथा । बाह्यद्वरे यजेद् देवि देवीश्च स्वस्तिकादिकाः ॥ ११२॥ ततस्चान्तस्त्रिकोणऽपि गुरुपङ्क्तिं त्रिधा स्थिताम् । तदन्तश्च महादेवीं तामावाह्य यजेत् पुनः ॥ ११३॥ महापद्मवनान्तस्थां कारणानन्दविग्रहाम् । मदङ्कोपाश्रितां देवीमिच्छाकामफलप्रदाम् ॥ ११४॥ भवतीं त्वन्मयैरेव नैवेद्यादिभिरर्चयेत् । त्रिकोणे तत्स्फुरत्तायाः प्रतिबिम्बाकृतीः पुनः ॥ ११५॥ तत्तत्तिथिमयीर्नित्याः काम्यकर्मानुसारिणीः । तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने ॥ ११६॥ मातृकास्थूलरूपत्वात्त्वगादिव्यापकत्वतः । योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रधात्मनि ॥ ११७॥ अणिमाद्या महादेवि सिद्धयोऽष्टौ व्यवस्थिताः । तासु रक्ततरा बणैर्वराभयकरास्तथा ॥ ११८॥ धृतचिन्तामहारत्ना मनीषितफलप्रदाः । ब्राह्म्याद्या अपि तत्रैव यष्टव्याः क्रमतः प्रिये ॥ ११९॥ ब्रह्माणी पीतवर्णा च चतुर्भिः शोभिता मुखैः । वरदाऽभयहस्ता च कुण्डिका क्षलसत्करा ॥ १२०॥ माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी । कपालमेणं परशुं दधाना पाणिभिः प्रिये ॥ १२१॥ [ ऐन्द्री तु श्यामवर्णा च व्रजोत्पललसत्करा ] कौमारी पीतवर्णा च शक्तितोमरधरिणी ॥ १२२॥ वरदाभयहस्ता च ध्यातव्या परमेश्वरी । वैष्णवी श्यामवर्णा च शङ्खचक्रवराभयान् ॥ १२३॥ हस्तपद्मैस्तु विभ्राणा भूषिता दिव्यभूषणैः । वाराही श्यामलच्छाया पोत्रि वक्त्रसमुज्ज्वला ॥ १२४॥ हलं च मुसलं खड्गं खेटकं दधाती भुजैः । [ ऐन्द्री श्यामलवर्णा च वज्रद्वयलसत्करा ] ॥ १२५॥ चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा । खड्गं वेतालकं चैव दधाना दक्षिणैः करैः ॥ १२६॥ नागखेटकघण्टा ख्यान् दधानान्यैः कपालकम् । महालक्ष्मीस्तु पीताभा पद्मदर्पणमेव च ॥ १२७॥ मात लुङ्गफलं चैव दधान परमेश्वरी । एवं ध्यात्वा यजेदेताश्चक्रेशीं त्रिपुरां ततः ॥ १२८॥ कर्मेन्द्रियाणां वैमल्यात् करशुद्धिकरी स्मृता । कायशुद्धिभवा सिद्धिरणिमा चात्र संस्थिता ॥ १२९॥ षोडशस्पन्दसन्दोहे चमत्कृतिमयोः कलाः । प्राणादिषोडशानां तु वयुना प्राणनात्मिकाः ॥ १३०॥ बीज भूताः स्वरात्मत्वात् कलनाद् बीजरूपकाः । अन्तरङ्गतया गुप्ता योगिन्यः संव्यवस्थिताः ॥ १३१॥ कामाकर्षणरूपाद्याः सृष्टेः प्राधान्यतः प्रिये । सर्वाशापूरणाख्ये तु चक्रे वामेन पूजयेत् ॥ १३२॥ पाशाङ्कुशधरा ह्येता रक्ता रक्ताम्बरा वृताः । प्राणशुद्धिमयी सिद्धिर्लघिमा भोक्तुरात्मनः ॥ १३३॥ त्रिपुरेशी च चक्रेशी पूज्या सर्वोपचारकैः । [ कौलिकानुभवाविष्टभोगपुर्यष्टकाश्रिताः ॥ १३४॥ वाग्भवाष्टकसम्बन्धसूक्ष्मा वर्गस्वरूपतः । तास्तु गुप्ततराः सर्वाः सर्वसंक्षोभणात्मके ॥ १३५॥ अनङ्गकुसुमाद्यास्तु रक्तकञ्चुकशोभिताः ] [ वेणीकृत लसत्केशाश्चापबाणधराः शुभाः ] ॥ १३६॥ तत्तदाजारबुद्ध्यात्मबोग्यभोक्तुर्महेशितुः । पिण्डादिपदविश्रान्तिसौन्दर्यगुणसंयुता ॥ १३७॥ चक्रेश्वरी बुद्धिशुद्धिरूपा च परमेश्वरी । महिमासिद्धिरूपा तु पूज्या सर्वोपचारकैः ॥ १३८॥ द्वादशग्रन्थिभेदेन समुल्लसितसंविदः । विसर्गान्तदशवेशाच्छाक्तानुभवपूर्वकम् ॥ १३९॥ उन्मेषषक्तिप्रसरईरिच्छाशक्तिप्रधानकैः । तदेवाऽकुलसङ्घट्टरूपैर्वर्णचतुष्टयैः ॥ १४०॥ वेद्योष्मरूपसावर्णैर्मिश्रेच्छाभावितैरपि । कुलशक्तिसमावेशरूपवर्णद्वयान्वितैः ॥ १४१॥ शक्तेः सारमयत्वेन प्रसृतत्वान्महेश्वरि । स,प्रदायक्रमायाताश्चक्रे सौभाग्यदायके ॥ १४२॥ निरन्तरओरधा रूपसौभाग्यं कलयोगतः । अन्तर्थसंज्ञिके देवि अणिमासदृशा: शुभाः ॥ १४३॥ सर्वसङ्क्षोभिणीपूर्वा देहाक्षादिविशुद्धिदाः । ईशित्वसिद्धिरपि च प्रोतरूपे पुरत्रये ॥ १४४॥ योगादिक्लेशभेदेन सिद्धा त्रिपुरवासिनीइ। एताः सम्पूजयेद् देवि सर्वाः सर्वोपचारकैः ॥ १४५॥ सदातनाना नादानां नवरन्ध्रस्थितात्मनाम् । महासामान्यरूपेण व्यावृत्तध्वनिरूपिणीइ ॥ १४६॥ अस्थिरस्थिरवेद्यानां छायारूपैर्दशार्णकैः । कुलकौलिकयोगिन्यः सर्व्सिद्धिप्रदायिकाः ॥ १४७॥ श्वेताम्ब्रधराः श्वेताः श्वेताभरणभूषिताः । मन्त्राणां स्वप्रधारूपयोगादन्वर्थसंज्ञ्के ॥ १४८॥ सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वर्थसाधके । लोकत्रयसमृद्धीनां हेतुत्वाच्चक्रनायिका ॥ १४९॥ त्रिपुरा श्रीर्महेशानि मन्त्रशुद्धिभवा पुनः । वशित्वसिद्धिराख्याता एताः सर्वाख़् समर्चयेत् ॥ १५०॥ ऊर्ध्वाधोमुखया देवि कुण्डलिन्या प्रकाशिताः । कुलेच्छया बहिर्भावात् कादिवर्णप्रथामयी ॥ १५१॥ निगर्भयोगिनीवाच्याः स्वरूपावेशरूपके । सर्वावेशकर चक्रे सर्वरक्षाकरे पराः ॥ १५२॥ सर्वज्ञाद्याः स्थिता एताः सह पुस्ताक्षमालिकाः । मातृमानप्रमेयाणां पुराणां परिपोषिणी ॥ १५३॥ त्रिपुरामालिनी ख्याता चक्रेशी त्रिपुरमोहिनी । निरूद्धवायुसङ्घट्टस्फटितग्रन्थिमूलतः ॥ १५४॥ हृदयान्तरसंवित्तिशून्यपर्यष्टकात्मना । बीजरूपस्वरकलास्पृष्टवर्गानुसारतः ॥ १५५॥ रह्स्ययोगिनीर्देवीः संसारदलनोज्ज्वले । सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते ॥ १५६॥ वशिन्याद्या रक्तवर्णा वरदाभयमुद्रिताः । पुस्तकं जपमालां च दधानाः सिद्धयोगिनीः ॥ १५७॥ शुद्धिविद्याविशुद्धिं च भुक्तिसिद्धिं महेश्वरि । ईश्वरीं त्रिपुरां सिद्धां पूजयेद् बिन्दुतर्पणैः ॥ १५८॥ शक्तित्रयात्मिका देवि चिद्धामप्रसराः पुनाः । संवर्ताग्निकलारूपाः परमातिरहस्यकाः ॥ १५९॥ पूर्णापुर्णस्वरूपायाः सिद्धेर्हेतुः सुरेश्वरि । सर्वासिद्धिमयाख्ये तु चक्रे त्वायुधभूषिताः ॥ १६०॥ स्थिताः कामेश्वरीपूर्वाश्चतस्त्रः पीठदेवताः । आयुधास्त्वतिरक्ताभाः स्वायुधोज्ज्वलमस्तकाः ॥ १६१॥ वरदाभयहस्ताश्च्च पूज्या व्रतफलप्रदा:ः । त्वदीयाश्च मदीयाश्च पुंस्त्रिवश्यविधायिनः ॥ १६२॥ त्वगसृङ्मांसमेदोस्थिशुक्लानां च महेश्वरि । द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः ॥ १६३॥ वामादीनां पुराणां तु जननी त्रिपुर्म्बिका । परस्वातन्त्र्यरूपत्वादिच्छासिद्धिर्महेश्वरि ॥ १६४॥ एताः सर्वोपचारेण पूजयेत्तु वरानने । सर्वानन्दमये देवि परब्रह्मात्मके परे ॥ १६५॥ चक्रे संवित्तिरूपा च महात्रिपुरसुन्दरी । स्वैराचारेण सम्पूज्या त्वहन्तेदन्तयोः सम ॥ १६६॥ महाकामकलारूपा पीठविद्यादिसिद्धिदा । महामुद्रामयी देवि पूज्या पञ्चदशात्मिका ॥ १६७॥ तत्तत्तिथिमयी नित्या नवमी भैरवी परा । प्रतिचक्रं समुद्रास्तु चक्रसङ्केतचोदिताः ॥ १६८॥ नित्यक्लिन्न्नादिकाश्चैव काम्यकर्मानुसारतः । चतुरस्रान्तराले वा त्रिकोणे वा यजेत् सुधीः ॥ १६९॥ अलिना पिशितैर्गन्धैर्धूपैराराध्य देवताः । चक्रपूजां विधाएत्थं कुलदीपं निवेदयेत् ॥ १७०॥ अन्तर्बहिर्भासमानं स्वप्रकाशोज्ज्वलं प्रिये । पुष्पाञ्जलिं ततः कृत्वा जपं कुर्यात् समाहितः ॥ १७१॥ कूटत्रये महादेवि कुण्डलीत्रितयेऽपि च । चक्राणां पूर्वपूर्वेषां नादरूपेण योजिताम् ॥ १७२॥ तेषु प्राणाग्निमायार्णकलाबिन्द्वर्धचन्द्रिकाः । रोधिनीनादनादान्ताः शक्तिव्यापिकलान्विताः ॥ १७३॥ समना चोन्मना चेति द्वादशन्ते स्थिताः प्रिये । मूलकुण्डलिनीरूपे मध्यमे च ततः पुनः ॥ १७४॥ सृष्ट्युन्मुखे च विश्वस्य स्थितिरूपे महेश्वरि । केवलं नादरूपेण उत्तरोत्तरयोजितम् ॥ १७५॥ शबलाकारके देवि तृतीये द्वादशी कला । शून्यषट्कं तथा देवि ह्यवस्थापञ्चकं पुनः ॥ १७६॥ विषुवं सप्तरूपं च भावयन् मनसा जपेत् । अग्न्यादिद्वादशान्तेषु त्रींस्त्रीन् त्यक्त्वा वरानने ॥ १७७॥ शून्यत्रयं विजानीयादेकैकान्तरतः प्रिये । [ शुन्यत्रयात् परे स्थाने महाशून्यं विभावयेत् ] प्रबोध करणस्याऽथ जागरत्वेन भावनम् ॥ १७८॥ वह्नौ देवि महाजाग्रदवस्था त्विन्द्रियद्वयैः । आन्तरैः करणैरेव स्वप्नमायावबोधकः ॥ १७९॥ गलदेशे सुषुप्तिस्तु लीनपूर्वस्य वेदनम् । अन्तःकरणवृओत्तीनां लयतो विषयस्य तु ॥ १८०॥ पूर्वार्णानां विलोमेन भ्रूमध्ये बिन्दुसंस्थिता । तुर्यरूपं तथा चात्र वृत्तार्धादेस्तु सङ्ग्रहः ॥ १८१॥ चैतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम् । तुर्यातीतं सुखस्थानं नादान्तादिस्थितं प्रिये ॥ १८२॥ अत्रैव जपकाले तु पञ्चावस्थाः स्मरेद् बुधः । योगः प्राणात्ममनसां विषुवं प्राणसंज्ञितम् ॥ १८३॥ आधारित्थितनादे तु लीनं बुद्ध्यात्मरूपकम् । संयोगेन वियोगेन मन्त्रार्णानां महेश्वरि ॥ १८४॥ अनहताद्याधारान्तं नादात्मत्वविचिन्तनम् । नादसंस्पर्शनात्तस्य नाडीविषुवमुच्यते ॥ १८५॥ द्वादशग्रन्थिभेदेन वर्णानामन्तरे प्रिये । नादयोगः प्रशान्तं तु प्रशान्तेन्द्रियगोचरम् ॥ १८६॥ वह्निं मायां कलां चैव चेतनामर्धचन्द्रकम् । रोधिनीनादनादान्तान् शक्तौ लीनान् विभावयेत् ॥ १८७॥ विषुवं शक्तिसंज्ञ्ं तु तदुर्ध्वं नादचिन्तनम् । तदुर्ध्वं कालविषुवमुन्मनान्तं महेश्वरि ॥ १८८॥ मुनिचन्द्राऽष्टदशभिस्त्रुटिभिर्नादवेदनम् । चैतन्यव्यक्तिहेतुश्च विषुवं तत्त्वसंज्ञितम् ॥ १८९॥ परं स्थानं महादेवि निसर्गानन्दसुन्दरम् । एवं चितयमानस्य जपकालेषु पार्वति ॥ १९०॥ सिद्धयः सकलास्तूर्णां सिद्ध्यन्ति त्वत्प्रसादतः । एवं कृत्वा जपं देव्या वामहस्ते निवेदयेत् ॥ १९१॥ अनामाङ्गुष्ठयोगेन तर्पयेच्चक्रदेवताः । मद्यं मांसं तथा मत्स्यं देव्यास्तु विनिवेदयेत् ॥ १९२॥ कौलाचारसमायुक्तैर्विरैर्स्तु सह पूजयेत् । पुष्यभेन तु वारे च सौरे च परमेश्वरि ॥ १९३॥ गुरोर्दिने स्वनक्षत्रे चतुर्दश्यष्टमीषु च । चक्रपूजां विशेषेण योगिनीनां समाचरेत् ॥ १९४॥ चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् । चक्रमेतत् समाश्रित्य संस्थिता वीरवन्दिते ॥ १९५॥ अष्टाष्टकं तु कर्तव्यं वित्तशाठ्यविवर्जितम् । त्वमेव तासां रूपेण क्रीडसे विश्वमोहिनी ॥ १९६॥ अज्ञात्व तु कुलाचारमयष्ट्वा गुरुपादुकाम् । योऽस्मिन् शास्त्रे प्र्वर्तेत तं त्वं पीडयसि ध्रुवम् ॥ १९७॥ एवं ज्ञात्वा वरारोहे कौलाचारपरः सदा । आवयोः शबलाकारं मद्यं तत्र निवेद्य च ॥ १९८॥ त्वत्प्रधा प्रसराकारास्त्वामेव परिभावयेत् । वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत् ॥ १९९॥ त्वन्मयस्य गुरोः शेषं निवेद्यात्मनि योजयेत् । योगिनीनां महादेवि बटुकायात्मरूपिणे ॥ २००॥ क्षेत्राणां पतये मद्यं बलिं कुर्वित हेतुना । नित्यं पिबन् वमन् खादन् स्वेच्छाचारपरः स्वयम् ॥ २०१॥ अहन्तेदन्तयोरौक्यं भावयन् विहरेत् सुखम् । एतत्ते कथितं सर्वं सङ्केतत्रयमुत्तमम् ॥ २०२॥ गोपनीयं प्रयत्नेन स्वगुह्यमिव सुव्रते । चुम्बके ज्ञानलुब्धे च न प्रकाश्यं त्वयानघे ॥ २०३॥ अन्यायेन न दातव्यं नास्तिकानां महेश्वरि । एवं त्वयाऽहमाज्ञप्तो मदिच्छारूपया प्रभो ॥ २०४॥ अज्ञानेन तु यो दद्यात् स परेतो भविष्यति । सङ्केतं यो विजानाति योगिनीनां भवेत्प्रियः ॥ २०५॥ सर्वेप्सितफलावाप्तिः सर्वकामफलाश्रयः । यतोऽपि दृश्यते देवि कथं विद्वान्न चिन्तयेत् ॥ २०६॥ ॥ इति योगिनीहृदयम् स्तोत्रम् ॥