अक्षर आकार:

योगिनीस्तोत्रसारम्

Yogini Stotrasaram

योगिनीस्तोत्रसारम्

योगिनीस्तोत्रसारं च श्रवणाद्धारणाद् यतिः । अप्रकाश्यमिदं रत्नं नृणामिष्टफलप्रदम् ॥ ३१-३७॥ यस्य विज्ञानमात्रेण शिवो भवति साधकः ॥ ३१-३८॥ कङ्काली कुलपण्डिता कुलकला कालानला श्यामला । योगेन्द्रेन्द्रसुराज्यनाथयजिताऽन्या योगिनीं मोक्षदा । मामेकं कुजडं सुखास्तमधनं हीनं च दीनं खलं यद्येवं परिपालनं करोषि नियतं त्वं त्राहि तामाश्रये ॥ ३१-३९॥ यज्ञेशी शशिशेखरा स्वमपरा हेरम्बयोगास्पदा । दात्री दानपरा हराहरिहराऽघोरामराशङ्करा । भद्रे बुद्धिविहीन देहजडितं पूजाजपावर्जितं मामेकार्भमकिञ्चनं यदि सरत्त्वं योगिनी रक्षसि ॥ ३१-४०॥ भाव्या भावनतत्परस्य करणा सा चारणा योगिनी । चन्द्रस्था निजनाथदेहसुगता मन्दारमालावृता । योगेशी कुलयोगिनी त्वममरा धाराधराच्छादिनी योगेन्द्रोत्सवरागयागजडिता या मातृसिद्धिस्थिता ॥ ३१-४१॥ त्वं मां पाहि परेश्वरी सुरतरी श्रीभास्करी योगगं मायापाशविबन्धनं तव कथालापामृतावर्जितम् । नानाधर्मविवर्जितं कलिकुले संव्याकुलालक्षणं मय्येके यदि दृष्टिपातकमला तत् केवलं मे बलम् ॥ ३१-४२॥ मायामयी हृदि यदा मम चित्तलग्नं राज्यं तदा किमु फलं फलसाधनं वा । इत्याशया भगवती मम शक्तिदेवी भाति प्रिये श्रुतिदले मुखरार्पणं ते ॥ ३१-४३॥ या योगिनी सकलयोगसुमन्त्रणाढ्या देवी महद्गुणमयी करुणानिधाना । सा मे भयं हरतु वारणमत्तचित्ता संहारिणी भवतु सोदरवक्षहारा ॥ ३१-४४॥ यदि पठति मनोज्ञो गोरसामीश्वरं यो वशयति रिपुवर्गं क्रोधपुञ्जं विहन्ति । भुवनपवनभक्षो भावुकः स्यात् सुसङ्गी रतिपतिगुणतुल्यो रामचन्द्रो यथेशः ॥ ३१-४५॥ एतत्स्तोत्रं पठेद्यस्तु स भक्तो भवति प्रियः । मूलपद्मे स्थिरो भूत्त्वा षट्चक्रे राज्यमाप्नुयात् ॥ ३१-४६॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे भेदिन्यादिस्तोत्रं नाम एकत्रिंशः पटलः ॥ ३१॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.