अक्षर आकार:

श्रीयोगेश्वरीसहस्रनामस्तोत्रम्

Shri Yogeshvari Sahasranama Stotra

श्रीयोगेश्वरीसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीयोगेश्वर्यै नमः । अथ श्रीयोगेश्वरीसहस्रनामस्तोत्रं प्रारम्भः । ॐ या तुरीया परादेवी दोषत्रयविवर्जिता । सदानन्दतनुः शान्ता सैवाहमहमेव सा ॥ १॥ यस्याः संस्मरणादेव क्षीयन्ते भवभीतयः । तां नमामि जगद्धात्रीं योगिनीं परयोगिनीम् ॥ २॥ महदादि जगद्यस्यां जातं रज्जुभुजङ्गवत् । सा अम्बा पुरसंस्थाना पातु योगेश्वरेश्वरी ॥ ३॥ सच्चिदानन्दरूपाय प्रतीचेऽनन्तरूपिणे । नमो वेदान्तवेद्याय महसेऽमिततेजसे ॥ ४॥ मुनयो नैमिषारण्ये दीर्घसत्रप्रसङ्गतः । प्रहृष्टमनसा सूतं प्रप्रच्छुरिदमादरात् ॥ ५॥ ईश्वर उवाच यो नित्यं पूजयेद्देवीं योगिनीं योगवित्तमाम् । तस्यायुः पुत्रसौख्यं च विद्यादात्री भवत्यसौ ॥ ६॥ यो देवीभक्तिसंयुक्तस्तस्य लक्ष्मीश्च किङ्करी । राजानो वश्यतां यान्ति स्त्रियो वै मदविह्वलाः ॥ ७॥ यो भवानीं महामायां पूजयेन्नित्यमादरात् । ऐहिकं च सुखं प्राप्य परब्रह्मणि लीयते ॥ ८॥ श्रीविष्णुरुवाच देव देव महादेव नीलकण्ठ उमापते । रहस्यं प्रष्टुमिच्छामि संशयोऽस्ति महामते ॥ ९॥ चराचरस्य कर्ता त्वं संहर्ता पालकस्तथा । कस्या देव्यास्त्वया शम्भो क्रियते स्तुतिरन्वहम् ॥ १०॥ जप्यते परमो मन्त्रो ध्यायते किं त्वया प्रभो । वद शम्भो महादेव त्वत्तः का परदेवता ॥ ११॥ प्रसन्नो यदि देवेश परमेश पुरातन । रहस्यं परमं देव्या कृपया कथय प्रभो ॥ १२॥ विनाभ्यासं विना जाप्यं विना ध्यानं विनार्चनम् । प्राणायामं विना होमं विना नित्योदकक्रियाम् ॥ १३॥ विना दानं विना गन्धं विना पुष्पं विना बलिम् । विना भूतादिशुद्धिं च यथा देवी प्रसीदति ॥ १४॥ इति पृष्टस्तदा शम्भुर्विष्णुना प्रभविष्णुना । प्रोवाच भगवान्देवो विकसन्नेत्रपङ्कजः ॥ १५॥ श्रीशिव उवाच साधु साधु सुरश्रेष्ठ पृष्टवानसि साम्प्रतम् । षण्मुखस्यापि यद्गोप्यं रहस्यं तद्वदामि ते ॥ १६॥ पुरा युगक्षये लोकान्कर्तुमिच्छुः सुरासुरम् । गुणत्रयमयी शक्तिश्चिद्रूपाऽऽद्या व्यवस्थिता ॥ १७॥ तस्यामहं समुत्पन्नो मत्तस्त्वं जगतःपिता । त्वत्तो ब्रह्मा समुद्भूतो लोककर्ता महाविभुः ॥ १८॥ ब्रह्मणोऽथर्षयो जातास्तत्त्वैस्तैर्महदादिभिः । ब्रह्मणो ऋषयो चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्य तिष्ठति ॥ १९॥ काप्यालिङ्ग्य तस्थुषी आराधिता स्तुता सैव सर्वमङ्गलकारिणी । तस्यास्त्वनुग्रहादेव मया प्राप्तं परं पदम् ॥ २०॥ स्तौमि तां च महामायां प्रसन्ना च ततःशिवा । नामानि ते प्रवक्ष्यामि योगेश्वर्याः शुभानि च ॥ २१॥ एतानि प्रपठेद्विद्वान् मयोक्तानि सुरेश्वर । नमोऽन्तानि सुरेश्वर तस्याः स्तोत्रं महापुण्यं स्वयङ्कल्पात्प्रकाशितम् ॥ २२॥ गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः । तव तत्कथयिष्यामि श्रुत्वा तदवधारय ॥ २३॥ यस्यैककालपठनात्सर्वेविघ्नाः पलायिताः । पठेत्सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ॥ २४॥ प्रसन्ना योगिनी तस्य पुत्रत्वेनानुकम्पते । यथा ब्रह्मामृतैर्ब्रह्मकुसुमैः पूजिता परा ॥ २५॥ प्रसीदति तथा तेन स्तुत्वा देवी प्रसीदति । श्रुता देवी अस्य श्रीयोगेश्वरीसहस्रनामस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीयोगश्वरी देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् । मम सकलकामनासिध्यर्थं अम्बापुरनिवासिनीप्रीत्यर्थं सहस्रनामस्तोत्रजपे विनियोगः । अथ न्यासः महादेवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीयोगश्वरी देवतायै नमः हृदये । ह्रीं बीजाय नमः दक्षिणस्तने । श्रीं शक्तये नमः वामस्तने । क्लीं कीलकाय नमः नाभौ । विनियोगाय नमः पादयोः ॥ ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ यं तर्जनीभ्यां नमः । ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रादये अनामिकाभ्यां नमः । ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि षडङ्गन्यासः ॐ ह्रीं हृदयाय नमः । ॐ यं शिरसे स्वाहा । ॐ यां शिखायै वषट् । ॐ रुद्रादये कवचाय हुम् । ॐ योगेश्वर्यै नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् । ॐ भूर्भुवस्वरोमिति दिग्बन्धः ॥ अथ ध्यानम् । ॐ कालाभ्राम्यां कटाक्षैरलिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कपालं डमरुमपि करैरुद्वहन्तीं त्रिनेत्राम् । त्रिशिखमपि सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेदम्बाजयाख्यां त्रिदशपरिणतां सिद्धिकामो नरेन्द्रः ॥ १॥ त्रिदशपरिवृतां इति ध्यात्वा । लं पृथिव्यात्मकं गन्धं समर्पयामि । हं आकाशात्मकं पुष्पं समर्पयामि । यं वाय्वात्मकं धूपं समर्पयामि । रं आग्नेयात्मकं दीपं समर्पयामि । वं अमृतात्मकं नैवेद्यं समर्पयामि । सं सर्वात्मकं ताम्बूलं समर्पयामि । इति पञ्चोपचारैः सम्पूज्य ॐ ह्रीं यं यां रुद्रादये योगेश्वर्यै स्वाहा । अथ सहस्रनामस्तवनम् । ॐ योगिनी योगमाया च योगपीठस्थितिप्रिया । योगिनी योगदीक्षा च योगरूपा च योगिनी ॥ १॥ योगगम्या योगरता योगीहृदयवासिनी । योगस्थिता योगयुता योगमार्गरता सदा ॥ २॥ योगेश्वरी योगनिद्रा योगदात्री सरस्वती । तपोयुक्ता तपःप्रीतिः तपःसिद्धिप्रदा परा ॥ ३॥ तपोरता तपोयुक्ता निशुम्भशुम्भसंहन्त्री रक्तबीजविनाशिनी । मधुकैटभहन्त्री च महिषासुरघातिनी ॥ ४॥ शारदेन्दुप्रतीकाशा चन्द्रकोटिप्रकाशिनी । महामाया महाकाली महामारी क्षुधा तृषा ॥ ५॥ निद्रा तृष्णा चैकवरा कालरात्रिर्दुरत्यया । महाविद्या महावाणी भारती वाक्सरस्वती ॥ ६॥ आर्या ब्राह्मी महाधेनुर्वेदगर्भा त्वधीश्वरी । कामधेनुर्वेदगर्भा कराला विकरालाख्या अतिकालातिदीपका ॥ ७॥ अतिकाला तृतीयका एकलिङ्गा योगिनी च डाकिनी भैरवी तथा । महाभैरवकेन्द्राक्षी त्वसिताङ्गी सुरेश्वरी ॥ ८॥ शान्तिश्चन्द्रोपमाकर्षा कलाकान्तिः कलानिधिः । शान्तिश्चन्द्रार्धमाकर्षी सर्वसङ्क्षोभिणी शक्तिः सर्वाह्लादकरी प्रिया ॥ ९॥ सर्वाकर्षिणिका शक्तिः सर्वविद्राविणी तथा । सर्वसम्मोहिनीशक्तिः सर्वस्तम्भनकारिणी ॥ १०॥ Extra verse सर्वजृम्भनिका नाम शक्तिः सर्वत्र शङ्करी । महासौभाग्यगम्भीरा पीनवृत्तघनस्तनी ॥ ११॥ रत्नकोटिविनिक्षिप्ता साधकेप्सितभूषणा । रत्नपीठ नानाशस्त्रधरा दिव्या वसतीहर्षितानना ॥ १२॥ खड्गपात्रधरा देवी दिव्यवस्त्रा च योगिनी । सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ॥ १३॥ सर्वप्रियङ्करी चैव सर्वमङ्गलकारिणी । सा वैष्णवी सैव शैवी महारौद्री शिवा क्षमा ॥ १४॥ कौमारी पार्वती चैव सर्वमङ्गलदायिनी । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥ १५॥ वाराही चैव माहेन्द्री चामुण्डा सर्वदेवता । अणिमा महिमा सिद्धिर्लघिमा शिवरूपिका ॥ १६॥ वशित्वसिद्धिः प्राकाम्या मुक्तिरिच्छाष्टमी परा । सर्वाकर्षिणिकाशक्तिः सर्वाह्लादकरी प्रिया ॥ १७॥ सर्वसम्मोहिनीशक्तिः सर्वस्तम्भनकारिणी । सर्वजृम्भणिकानाम शक्तिः सर्ववशङ्करी ॥ १८॥ सर्वार्थजनिकाशक्तिः सर्वसम्पत्तिशङ्करी । सर्वार्थरञ्जिनीशक्तिः सर्वोन्मोदनकारिणी ॥ १९॥ सर्वोन्मादनकारिणी ?? सर्वार्थसाधिकाशक्तिः सर्वसम्पत्तिपूरिका । सर्वमन्त्रमयीशक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ २०॥ सर्वकामप्रदा देवी सर्वदुःखप्रमोचनी । सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ॥ २१॥ सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी । सर्वरक्षाकरी देवी अक्षवर्णविराजिता ॥ २२॥ अक्षवर्णपराजिता नौमि तां च जगद्धात्रीं योगनिद्रास्वरूपिणीम् । सर्वस्याद्या विशालाक्षी नित्या बुद्धिस्वरूपिणी ॥ २३॥ श्वेतपर्वतसङ्काशा श्वेतवस्त्रा महासती । नीलहस्ता रक्तमध्या सुश्वेतस्तनमण्डला ॥ २४॥ रक्तपादा नीलजङ्घा सुचित्रजघना विभुः । चित्रमाल्याम्बरधरा चित्रगन्धानुलेपना ॥ २५॥ जपाकुसुमवर्णाभा रक्ताम्बरविभूषणा । रक्तायुधा रक्तनेत्रा रक्तकुञ्चितमूर्धजा ॥ २६॥ सर्वस्याद्या महालक्ष्मी नित्या बुद्धिस्वरूपिणी । चतूर्भुजा रक्तदन्ता जगद्व्याप्य व्यवस्थिता ॥ २७॥ नीलाञ्जनचयप्रख्या महादंष्ट्रा महानना । विस्तीर्णलोचना देवी वृत्तपीनपयोधरा ॥ २८॥ एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता । भीमा देवीति सम्पूज्या पुत्रपौत्रप्रदायिनी ॥ २९॥ या सात्त्विकगुणा प्रोक्ता या विशिष्टसरस्वती । माया विद्यासरस्वती सा देवकार्यवसति स्वरूपमपरं दधौ ॥ ३०॥ The verse number is shifted because extra verse above देवी स्तुता तदा गौरी स्वदेहात्तरुणीं सृजत् । ख्याता वै कौशिकी देवी ततः कृष्णाभवत्सती ॥ ३०॥ हिमाचलकृतस्थाना कालिकेति च विश्रुता । महासरस्वतीदेवी शुम्भासुरनिबर्हिणी ॥ ३१॥ श्वेतपर्वतसङ्काशा श्वेतवस्त्रविभूषणा । नानारत्नसमाकीर्णा वेदविद्याविनोदिनी ॥ ३२॥ शस्त्रव्रातसमायुक्ता भारती सा सरस्वती । वागीश्वरी पीतवर्णा सैवोक्ता कामदालया ॥ ३३॥ कृष्णवर्णा महालम्बा नीलोत्पलविलोचना । गम्भीरनाभिस्त्रिवली विभूषिततनूदरी ॥ ३४॥ सुकर्कशा चन्द्रभासा वृतपीनपयोधरा । सा कर्कशा चतुर्भुजा विशालाक्षी कामिनी पद्मलोचना ॥ ३५॥ शाकम्भरी समाख्याता शताक्षी वनशङ्करी । शताक्षी चैव कीर्त्यते शुचिः शाकम्भरी देवी पूजनीया प्रयत्नतः ॥ ३६॥ त्रिपुरा विजया भीमा तारा त्रैलोक्यसुन्दरी । शाम्भवी त्रिजगन्माता स्वरा त्रिपुरसुन्दरी । कामाक्षी कमलाक्षी च धृतिस्त्रिपुरतापिनी ॥ ३७॥ जया जयन्ती शिवदा जलेशी चरणप्रिया । गजवक्त्रा त्रिनेत्रा च शङ्खिनी चापराजिता ॥ ३८॥ महिषघ्नी शुभानन्दा स्वधा स्वाहा शुभानना । विद्युज्जिह्वा त्रिवक्त्रा च चतुर्वक्त्रा सदाशिवा । कोटराक्षी शिखिरवा त्रिपदा सर्वमङ्गला । मयूरवदना सिद्धिर्बुद्धिः काकरवा सती ॥ ३९॥ हुङ्कारा तालकेशी च सर्वतारा च सुन्दरी । सर्पास्या च महाजिह्वा पाशपाणिर्गरुत्मती ॥ ४०॥ पद्मावती सुकेशी च पद्मकेशी क्षमावती । पद्मावती सुरमुखी पद्मवक्त्रा षडानना ॥ ४१॥ पद्मावती सुनासा च त्रिवर्गफलदा माया रक्षोघ्नी पद्मवासिनी । प्रणवेशी महोल्काभा विघ्नेशी स्तम्भिनी खला ॥ ४२॥ मातृकावर्णरूपा च अक्षरोच्चारिणी गुहा । अक्षरोच्चाटिनी अजपा मोहिनी श्यामा जयरूपा बलोत्कटा ॥ ४३॥ वाराही वैष्णवी जृम्भा वात्याली दैत्यतापिनी । क्षेमङ्करी सिद्धिकरी बहुमाया सुरेश्वरी ॥ ४४॥ छिन्नमूर्धा छिन्नकेशी दानवेन्द्रक्षयङ्करी । शाकम्भरी मोक्षलक्ष्मीर्जम्भिनी बगलमुखी ॥ ४५॥ अश्वारूढा महाक्लिन्ना नारसिंही गजेश्वरी । सिद्धेश्वरी विश्वदुर्गा चामुण्डा शववाहना ॥ ४६॥ ज्वालामुखी कराली च चिपिटा खेचरेश्वरी । त्रिपटा शुम्भघ्नी दैत्यदर्पघ्नी विन्ध्याचलनिवासिनी ॥ ४७॥ योगिनी च विशालाक्षी तथा त्रिपुरभैरवी । मातङ्गिनी करालाक्षी गजारूढा महेश्वरी ॥ ४८॥ पार्वती कमला लक्ष्मीः श्वेताचलनिभा उमा । निभा उमा (ईन् बोथ् फ़िलेस् इत् इस् समे) कात्यायनी शङ्खरवा घुर्घुरा सिंहवाहिनी ॥ ४९॥ नारायणीश्वरी चण्डी घण्टाली देवसुन्दरी । विरूपा वामनी कुब्जा कर्णकुब्जा घनस्तनी ॥ ५०॥ नीला शाकम्भरी दुर्गा सर्वदुर्गार्तिहारिणी । दंष्ट्राङ्कितमुखा भीमा नीलपत्रशिरोधरा ॥ ५१॥ महिषघ्नी महादेवी कुमारी सिंहवाहिनी । दानवांस्तर्जयन्ती च सर्वकामदुघा शिवा ॥ ५२॥ कन्या कुमारिका चैव देवेशी त्रिपुरा तथा । कल्याणी रोहिणी चैव कालिका चण्डिका परा ॥ ५३॥ शाम्भवी चैव दुर्गा च सुभद्रा च यशस्विनी । कालात्मिका कलातीता कारुण्यहृदया शिवा ॥ ५४॥ कारुण्यजननी नित्या कल्याणी करुणाकरा । कामाधारा कामरूपा कालचण्डस्वरूपिणी ॥ ५५॥ कालदण्डस्वरूपिणी कामदा करुणाधारा कालिका कामदा शुभा । चण्डवीरा चण्डमाया चण्डमुण्डविनाशिनी ॥ ५६॥ चण्डिका शक्तिरत्युग्रा चण्डिका चण्डविग्रहा । गजानना सिंहमुखी गृध्रास्या च महेश्वरी ॥ ५७॥ उष्ट्रग्रीवा हयग्रीवा कालरात्रिर्निशाचरी । कङ्कारी रौद्रचित्कारी फेत्कारी भूतडामरी ॥ ५८॥ रौद्रछित्कारी वाराही शरभास्या च शताक्षी मांसभोजनी । कङ्काली डाकिनी काली शुक्लाङ्गी कलहप्रिया ॥ ५९॥ उलूकिका शिवारावा धूम्राक्षी चित्रनादिनी । ऊर्ध्वकेशी भद्रकेशी शवहस्ता च मालिनी ॥ ६०॥ कपालहस्ता रक्ताक्षी श्येनी रुधिरपायिनी । खड्गिनी दीर्घलम्बोष्ठी पाशहस्ता बलाकिनी ॥ ६१॥ काकतुण्डा पात्रहस्ता धूर्जटी विषभक्षिणी । पशुघ्नी पापहन्त्री च मयूरी विकटानना ॥ ६२॥ भयविध्वंसिनी चैव प्रेतास्या प्रेतवाहिनी । कोटराक्षी लसज्जिह्वा अष्टवक्त्रा सुरप्रिया ॥ ६३॥ व्यात्तास्या धूमनिःश्वासा त्रिपुरा भुवनेश्वरी । बृहत्तुण्डा चण्डहस्ता प्रचण्डा चण्डविक्रमा ॥ ६४॥ दण्डहस्ता स्थूलकेशी बृहत्कुक्षिर्यमदूती करालिनी । दशवक्त्रा दशपदा दशहस्ता विलासिनी ॥ ६५॥ अनाद्यन्तस्वरूपा च क्रोधरूपा मनोगतिः । आदिरन्तस्वरूपा आदिहान्तस्वरूपा मनुश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसनात्मिका ॥ ६६॥ त्वग्रसनारसः ॥ योगिमानससंस्था च योगसिद्धिप्रदायिका । उग्राणी उग्ररूपा च उग्रतारास्वरूपिणी ॥ ६७॥ उग्ररूपधरा चैव उग्रेशी उग्रवासिनी । भीमा च भीमकेशी च भीममूर्तिश्च भामिनी ॥ ६८॥ भीमातिभीमरूपा च भीमरूपा जगन्मयी । खड्गिन्यभयहस्ता च घण्टाडमरुधारिणी ॥ ६९॥ पाशिनी नागहस्ता च योगिन्यङ्कुशधारिणी । यज्ञा च यज्ञमूर्तिश्च दक्षयज्ञविनाशिनी ॥ ७०॥ यज्ञदीक्षाधरा देवी यज्ञसिद्धिप्रदायिनी । हिरण्यबाहुचरणा शरणागतपालिनी ॥ ७१॥ अनाम्न्यनेकनाम्नी च निर्गुणा च गुणात्मिका । मनो जगत्प्रतिष्ठा च सर्वकल्याणमूर्तिनी ॥ ७२॥ ब्रह्मादिसुरवन्द्या च गङ्गाधरजटास्थिता । महामोहा महादीप्तिः सिद्धविद्या च योगिनी ॥ ७३॥ योगिनी चण्डिका सिद्धा सिद्धसाद्ध्या शिवप्रिया । सरयूर्गोमती भीमा गौतमी नर्मदा मही ॥ ७४॥ भागीरथी च कावेरी त्रिवेणी गण्डकी सरः । सरा सुषुप्तिर्जागृतिर्निद्रा स्वप्ना तुर्या च चक्रिणी ॥ ७५॥ अहल्यारुन्धती चैव तारा मन्दोदरी तथा । देवी पद्मावती चैव त्रिपुरेशस्वरूपिणी ॥ ७६॥ एकवीरा महादेवी कनकाढ्या च देवता । एकवीरा तमोदेवी शूलिनी परिघास्त्रा च खड्गिन्याबाह्यदेवता ॥ ७७॥ कौबेरी धनदा याम्याऽऽग्नेयी वायुतनुर्निशा । ईशानी नैरृतिः सौम्या माहेन्द्री वारुणीसमा ॥ ७८॥ वारुणी तथा सर्वर्षिपूजनीयाङ्घ्रिः सर्वयन्त्राधिदेवता । सप्तधातुमयीमूर्तिः सप्तधात्वन्तराश्रया ॥ ७९॥ देहपुष्टिर्मनस्तुष्टिरन्नपुष्टिर्बलोद्धता । तपोनिष्ठा तपोयुक्ता तापसःसिद्धिदायिनी ॥ ८०॥ तपस्विनी तपःसिद्धिः तापसी च तपःप्रिया । औषधी वैद्यमाता च द्रव्यशक्तिःप्रभाविनी ॥ ८१॥ वेदविद्या च वैद्या च सुकुला कुलपूजिता । जालन्धरशिरच्छेत्री महर्षिहितकारिणी ॥ ८२॥ योगनीतिर्महायोगा कालरात्रिर्महारवा । अमोहा च प्रगल्भा च गायत्री हरवल्लभा ॥ ८३॥ विप्राख्या व्योमकारा च मुनिविप्रप्रिया सती । जगत्कर्त्री जगत्कारी जगच्छाया जगन्निधिः ॥ ८४॥ जगश्वासा जगन्निधिः जगत्प्राणा जगद्दंष्ट्रा जगज्जिह्वा जगद्रसा । जगच्चक्षुर्जगद्घ्राणा जगच्छोत्रा जगन्मुखा ॥ ८५॥ जगच्छत्रा जगद्वक्त्रा जगद्भर्त्री जगत्पिता । जगत्पत्नी जगन्माता जगद्भ्राता जगत्सुहृत् ॥ ८६॥ जगद्धात्री जगत्सुहृत् जगद्धात्री जगत्प्राणा जगद्योनिर्जगन्मयी । सर्वस्तम्भी महामाया जगद्दीक्षा जया तथा ॥ ८७॥ भक्तैकलभ्या द्विविधा त्रिविधा च चतुर्विधा । भक्तैकलक्ष्या इन्द्राक्षी पञ्चभूता च सहस्ररूपधारिणी ॥ ८८॥ पञ्चरूपा मूलादिवासिनी चैव अम्बापुरनिवासिनी । नवकुम्भा नवरुचिः कामज्वाला नवानना ॥ ८९॥ गर्भज्वाला तथा बाला चक्षुर्ज्वाला नवाम्बरा । नवरूपा नवकला नवनाडी नवानना ॥ ९०॥ नवक्रीडा नवविधा नवयोगिनिका तथा । वेदविद्या महाविद्या विद्यादात्री विशारदा ॥ ९१॥ कुमारी युवती बाला कुमारीव्रतचारिणी । कुमारीभक्तसुखिनी कुमारीरूपधारिणी ॥ ९२॥ भवानी विष्णुजननी ब्रह्मादिजननी परा । गणेशजननी शक्तिः कुमारजननी शुभा ॥ ९३॥ भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी । भगात्मिका भगाधारा रूपिणी भगमालिनी ॥ ९४॥ भगरोगहरा भव्या सुश्रूः परममङ्गला । शर्वाणी चपलापाङ्गी चारुचन्द्रकलाधरा ॥ ९५॥ विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी । विश्वविद्या विलासिनी शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ९६॥ अम्बा संसारमथिनी मृडानी सर्वमङ्गला । विष्णुसंसेविता शुद्धा ब्रह्मादिसुरसेविता ॥ ९७॥ परमानन्दशक्तिश्च परमानन्दरूपिणी । रमानन्दस्वरूपिणी परमानन्दजननी परमानन्ददायिनी ॥ ९८॥ परोपकारनिरता परमा भक्तवत्सला । आनन्दभैरवी बालाभैरवी बटुभैरवी ॥ ९९॥ श्मशानभैरवी कालीभैरवी पुरभैरवी ॥ १००॥ पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका । शुभलक्षणसम्पन्ना शुभानन्तगुणार्णवा ॥ १०१॥ शुभसौभाग्यनिलया शुभाचाररता प्रिया । सुखसम्भोगभवना सर्वसौख्यानिरूपिणी ॥ १०२॥ अवलम्बा तथा वाग्मी प्रवरा वाग्विवादिनी । वाद्यवादिनी घृणाधिपावृता कोपादुत्तीर्णकुटिलानना ॥ १०३॥ पापदापापनाशा च ब्रह्माग्नीशापमोचनी । सर्वातीता च उच्छिष्टचाण्डाली परिघायुधा ॥ १०४॥ ओङ्कारी वेदकारी च ह्रीङ्कारी सकलागमा । यङ्कारी चर्चिता चर्चिचर्चिता चक्ररूपिणी ॥ १०५॥ महाव्याधवनारोहा धनुर्बाणधरा धरा । वरा लम्बिनी च पिपासा च क्षुधा सन्देशिका तथा ॥ १०६॥ भुक्तिदा मुक्तिदा देवी सिद्धिदा शुभदायिनी । सिद्धिदा बुद्धिदा माता वर्मिणी फलदायिनी ॥ १०७॥ चण्डिका चण्डमथनी चण्डदर्पनिवारिणी । चण्डमार्तण्डनयना चन्द्राग्निनयना सती ॥ १०८॥ सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोत्तरीयका । जपापावकसिन्दुरा रक्तचन्दनधारिणी ॥ १०९॥ जपास्तबकसिन्दूर रक्तसिन्दूरधारिणी कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिनी । विचित्ररत्नपृथिवीकल्मषघ्नी तलस्थिता ॥ ११०॥ भगात्मिका भगाधारा रूपिणी भगमालिनी । लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी ॥ १११॥ भगलिङ्गस्वरूपा च भगलिङ्गसुखावहा । स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमार्चिता ॥ ११२॥ स्वयम्भूकुसुमस्नाता स्वयम्भूपुष्पतर्पिता । स्वयम्भूपुष्पतिलका स्वयम्भूपुष्पधारिणी ॥ ११३॥ पुण्डीककरा पुण्या पुण्यदा पुण्यरूपिणी । पुण्यज्ञेया पुण्यवन्द्या पुण्यवेद्या पुरातनी ॥ ११४॥ पुण्यमूर्तिः पुरातना अनवद्या वेदविद्या वेदवेदान्तरूपिणी । मायातीता सृष्टमाया माया धर्मात्मवन्दिता ॥ ११५॥ असृष्टा सङ्गरहिता सृष्टिहेतुः कपर्दिनी । वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ ११६॥ मन्दस्थितिः शुद्धरूपा शुद्धचित्ता मुनिस्तुता । महाभाग्यवती दक्षा दक्षाध्वरविनाशिनी ॥ ११७॥ अपर्णानन्यशरणा भक्ताभीष्टफलप्रदा । नित्या सुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥ ११८॥ कमला केशिजा केशी कर्षा कर्पूरकालिजा । गिरिजा गर्वजा गोत्रा अकुला कुलजा तथा ॥ ११९॥ दिनजा दिनमाना च वेदजा वेदसम्भृता । वेदसंमता क्रोधजा कुटजा धारा परमा बलगर्विता ॥ १२०॥ सर्वलोकोत्तराभावा सर्वकालोद्भवात्मिका । कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका ॥ १२१॥ कुण्डपुष्पसदाप्रीतिः पुष्पगोलसदारतिः । शुक्रमूर्तिः शुक्रदेहा शुक्रपुजितमूर्तिनी ॥ १२२॥ शुक्रपूजकमूर्तिनी विदेहा विमला क्रूरा चोला कर्नाटकी तथा । चौण्डा कर्नाटकी त्रिमात्रा उत्कला मौण्डी विरेखा वीरवन्दिता ॥ १२३॥ श्यामला गौरविपीना मागधेश्वरवन्दिता । पार्वती कर्मनाशा च कैलासवासिका तथा ॥ १२४॥ शालग्रामशिला माली शार्दूला पिङ्गकेशिनी । नारदा शारदा चैव रेणुका गगनेश्वरी ॥ १२५॥ धेनुरूपा रुक्मिणी च गोपिका यमुनाश्रया । सुकण्ठा कोकिला मेना चिरानन्दा शिवात्मिका ॥ १२६॥ कन्दर्पकोटिलावण्या सुन्दरा सुन्दरस्तनी । विश्वपक्षा विश्वरक्षा विश्वनाथप्रिया सती ॥ १२७॥ योगिनी योगयुक्ता च योगाङ्गध्यानशालिनी । योगपट्टधरा मुक्ता मुक्तानां परमागतिः ॥ १२८॥ कुरुक्षेत्रावनीः काशी मथुरा काञ्च्यवन्तिका । अयोध्या द्वारका माया तीर्था तीर्थकरी प्रिया ॥ १२९॥ त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी । कुशावर्ता कौशिकी च कोशाम्बा कोशवर्धिनी ॥ १३०॥ पद्मकोशा कोशदाक्षी कुसुम्भकुसुमप्रिया । तुलाकोटी च काकुत्स्था स्थावरा च वराश्रया ॥ १३१॥ ॐ ह्रीं यं यां रुद्रदैवत्यायै योगेश्वरीर्येस्वाहा । ॐ ह्रीं यं यां - पुत्रदा पौत्रदा पुत्री द्रव्यदा दिव्यभोगदा । आशापूर्णा चिरञ्जीवी लङ्काभयविवर्धिनी ॥ १३२॥ स्त्रुक् स्त्रुवा सामिधेनी च सुश्रद्धा श्राद्धदेवता । माता मातामही तृप्तिः पितुर्माता पितामही ॥ १३३॥ स्नुषा दौहित्रिणी पुत्री लोकक्रीडाभिनन्दिनी । दोलाक्रीडाभिनन्दिनी पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा ॥ १३४॥ दीर्घशक्तिः सप्ताब्धिसंश्रया नित्या सप्तद्वीपाब्धिमेखला । सप्तद्वीपा वसुन्धरा सूर्यदीप्तिर्वज्रशक्तिर्मदोन्मत्ता च पिङ्गला ॥ १३५॥ मनोन्मत्ता सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी । सर्वमन्त्रमयीविद्या सर्वमन्त्राक्षरा वरा ॥ १३६॥ सर्वज्ञदा विश्वमाता भक्तानुग्रहकारिणी । विश्वप्रिया प्राणशक्तिरनन्तगुणनामधीः ॥ १३७॥ पञ्चाशद्विष्णुशक्तिश्च पञ्चाशन्मातृकामयी । द्विपञ्चाशद्वपुश्रेणी त्रिषष्ट्यक्षरसंश्रया ॥ १३८॥ चतुःषष्टिमहासिद्धिर्योगिनी वृन्दवन्दिनी । वृन्दवन्दिता चतुःषड्वर्णनिर्णेयी चतुःषष्टिकलानिधिः ॥ १३९॥ अष्टषष्टिमहातीर्थक्षेत्रभैरववासिनी । भैरववन्दिता चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकाप्रिया ॥ १४०॥ सहस्रपत्रनिलया सहस्रफणिभूषणा । सहस्रनामसंस्तोत्रा सहस्राक्षबलापहा ॥ १४१॥ प्रकाशाख्या विमर्शाख्या प्रकाशकविमर्शका । निर्वाणचरणा देवी चतुश्चरणसंज्ञका ॥ १४२॥ चतुर्विज्ञानशक्त्याढ्या सुभगा च क्रियायुता । स्मरेशा शान्तिदा इच्छा इच्छाशक्तिसमान्विता ॥ १४३॥ निशाम्बरा च राजन्यपूजिता च निशाचरी । सुन्दरी चोर्ध्वकेशी च कामदा मुक्तकेशिका ॥ १४४॥ मानिनीति समाख्याता वीराणां जयदायिनी । यामलीति समाख्याता नासाग्राबिन्दुमालिनी ॥ १४५॥ या गङ्गा च करालाङ्गी चन्द्रिकाचलसंश्रया । या कङ्का चक्रिणी शङ्खिनी रौद्रा एकपादा त्रिलोचना ॥ १४६॥ भीषणी भैरवी भीमा चन्द्रहासा मनोरमा । विश्वरूपा महादेवी घोररूपा प्रकाशिका ॥ १४७॥ कपालमालिकायुक्ता मूलपीठस्थिता रमा । योगिनी विष्णुरूपा च सर्वदेवर्षिपूजिता ॥ १४८॥ सर्वतीर्थपरा देवी तीर्थदक्षिणतः स्थिता । श्रीसदाशिव उवाच दिव्यनामसहस्रं ते योगेश्वर्या मयेरितम् ॥ १४९॥ पुण्यं यशस्यमायुष्यं पुत्रपौत्रविवर्धनम् । सर्ववश्यकरं श्रेष्ठं भुक्तिमुक्तिप्रदं भुवि । यः पठेत्पाठयेद्वापि स मुक्तो नात्र संशयः । अष्टम्यां भूतपौर्णम्यान्नवम्यां दर्शभौमयोः ॥ १५०॥ अयनेषूपरागे च पुण्यकाले विशेषतः । सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १५१॥ सर्वाभीष्टकरं पुण्यं नित्यमङ्गलदायकम् । इयं नामावली तुभ्यं मयाद्य समुदीरिता ॥ १५२॥ गोपनीया प्रयत्नेन नाख्येया च कदाचन । भक्ताय ज्येष्ठपुत्राय देयं शिष्याय धीमते ॥ १५३॥ आवहन्तीति मन्त्रेण युक्तान्येतानि सादरम् । एतानि धीमते यो जपेत्सततं भक्त्या स कामांल्लभते ध्रुवम् ॥ १५४॥ कार्याण्यावाहनादीनि देव्याः शुचिरनात्मभिः । आवहन्तीति मन्त्रेण प्रत्येकं च यथाक्रमम् ॥ १५५॥ कर्तव्यं तर्पणं चापि तेन मन्त्रेण मूलवत् । तदन्वितैश्च होमोऽत्र कर्तव्यस्तैश्च मूलतः ॥ १५६॥ एतानि दिव्यनामानि श्रुत्वा ध्यात्वापि यो नरः । ध्यात्वा देवीं च सततं सर्वकामार्थसिद्धये ॥ १५७॥ एतज्जपप्रसादेन नित्यतृप्तो वसाम्यहम् । सन्तुष्टहृदयो नित्यं वसाम्यत्रार्चयन् चिरम् ॥ १५८॥ स्वापकाले प्रबोधे च यात्राकाले विशेषतः । तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ॥ १५९॥ राजद्वारे सभास्थाने विवादे विप्लवे तथा । चोरव्याघ्रभयं नास्ति सङ्ग्रामे जयवर्धनम् ॥ १६०॥ तस्य चोरभयं नास्ति क्षयापस्मारकुष्ठादितापज्वरनिवारणम् । महाज्वरं तथात्युग्रं शीतज्वरनिवारणम् ॥ १६१॥ दोषादिसन्निपातं च रोगाणां हन्ति वर्चसा । रोगं हन्ति च सर्वशः भूतप्रेतपिशाचाश्च रक्षां कुर्वन्ति सर्वशः ॥ १६२॥ सर्वतः जपेत्सहस्रनामाख्यं योगिन्याः सर्वकामदम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १६३॥ त्रिकालमेककालं वा श्रद्धया प्रयतः पठेत् । सर्वान् रिपून्क्षणाज्जित्वा यः पुमाञ्छ्रियमाप्नुयात् ॥ १६४॥ सपुमाञ्छ्रियम् डाकिनी शाकिनी चैव वेतालब्रह्मराक्षसम् । कूष्माण्डादिभयं सर्वं नश्यति स्मरणात्ततः ॥ १६५॥ वने रणे महाघोरे कारागृहनियन्त्रके । सर्वसङ्कटनाशार्थं स्तोत्रपाठः सुसिद्धये ॥ १६६॥ पठेत्स्तोत्रमनन्यधीः वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना । श्रुत्वा स्तोत्रमिदं पुत्रांल्लभते चिरजीविनः ॥ १६७॥ स्वयम्भुकुसुमैः शुक्लैः सुगन्धिकुसुमान्वितैः । कुङ्कुमागरुकस्तूरीसिन्दूरादिभिरर्चयेत् ॥ १६८॥ मीनमांसादिभिर्युक्तैर्मध्वाज्यैः पायसान्वितः । फलपुष्पादिभिर्युक्तैः मध्वाज्यैः पायसान्वितैः । मीनमांसादिभिर्युक्तैः पक्वान्नैः षड्रसैर्भोज्यैः स्वाद्वन्नैश्च चतुर्विधैः ॥ १६९॥ कुमारीं पूजयेद्भक्त्या ब्राह्मणांश्च सुवासिनीः । शक्तितो दक्षिणां दत्वा वासोऽलङ्कारभूषणैः ॥ १७०॥ वासोऽलङ्करणादिभिः अनेन विधिना पूज्या देव्याः सन्तुष्टिकामदा । सहस्रनामपाठे तु कार्यसिद्धिर्नसंशयः ॥ १७१॥ रमाकान्त सुराधीश प्रोक्तं गुह्यतरं मया । नासूयकाय वक्तव्यं परशिष्याय नो वदेत् ॥ १७२॥ नासूयवे च देवीभक्ताय वक्तव्यं मम भक्ताय माधव । तव भक्ताय वक्तव्यं न मूर्खायाततायिने ॥ १७३॥ सत्यं सत्यं पुनः सत्यं उद्धृत्य भुजमुच्यते । नानया सदृशी विद्या न देव्या योगिनी परा ॥ १७४॥ न देवी योगिनी परा इति श्रीरुद्रयामले उत्तरखण्डे देवीचरित्रे विष्णुशङ्करसंवादे योगेश्वरीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ The variations are given on the right side of the verses.